पूर्वम्: ८।३।९७
अनन्तरम्: ८।३।९९
 
सूत्रम्
सुषामादिषु च॥ ८।३।९८
काशिका-वृत्तिः
सुषामादिषु च ८।३।९८

सुषामादिषु शब्देषु सकारस्य मूर्धन्यादेशो भवति। शोभनं साम यस्य असौ सुषामा ब्राह्मणः। दुष्षामा। निष्षामा। निष्षेधः। दुष्षेधः। सुशब्दस्य कर्मप्रवचनीयसंज्ञाकत्वान् निर्दुर्शब्दयोश्च क्रियान्तरविषयत्वादनुपसर्गत्वे सति पाठो ऽयम्। सेधतेर् गतौ ८।३।११५ इति वा प्रतिषेधबाधनार्थः। सुषन्धिः। दुष्षन्धिः। निष्षन्धिः। सुष्ठु। दुष्ठु। तिष्ठतेरुणादिष्वेतौ व्युत्पाद्येते। गौरिषक्थः संज्ञायाम्। ङ्यापोः संज्ञाछन्दसोर् बहुलम् ६।३।६२ इति पूर्वपदस्य ह्रस्वत्वम्। प्रतिष्णिका। प्रतिष्णाशब्दादयं कन् प्रत्ययः। जलाषाहम्। नौषेचनम्। दुन्दुभिषेवणम्। एति संज्ञायामगात्। एकारपरस्य सकारस्य मूर्धन्यादेशः भवति इण्कोरुत्तरस्य अगकारात् परस्य संज्ञायां विषये। हरिषेणः। वारिषेणः। जानुषेणी। एति इति किम्? हरिसक्थम्। संज्ञायाम् इति किम्? पृथ्वी सेना यस्य स पृथुसेनो राजा। अगातिति किम्? विष्वक्षेनः। इण्दोः इत्येव, सर्वसेनः। नक्षत्राद् वा। नक्षत्रवाचिनः शब्दादुत्तरस्य सकारस्य वा एति संज्ञायाम् अगकारात् मूर्धन्यो भवति। रोहिणीषेणः, रोहिणीसेनः। भरणीषेणः, भरणीसेनः। अगकारातित्येव, शतभिषक्षेनः। अविहितलक्षणो मूर्धन्यः सुषामादिषु द्रष्टव्यः।
न्यासः
सुषामादिषु च। , ८।३।९८

क्वचित्? षत्वप्रतिषेधे प्राप्ते, क्वचिदादित एवाप्राप्ते मूर्धन्यो विधीयते। "सुषामा" इति। सामशब्दोऽयम्? "षो अन्तकर्मणि" (धा।पा।११४७) इत्येतस्मान्मनिन्प्रत्ययं विधाय व्युत्पादितः। तस्य पदादिलक्षणे प्रतिषेधे प्राप्ते तद्बाधनार्थमिह पाठः। "निष्षामा" इति। "दुष्वामा" इति। रेफस्य विसर्जनीये कृते यदा "वा शरि" ८।३।३६ इति पक्षे सकार-, तदा परस्य षत्वे कृते पूर्वस्य ष्टुत्वम्()। ननु च सुषेधादीनां त्रयाणाम्? "उपसर्गात्? सुनोति ८।३।६५ इत्यादिनैव भूर्धन्यः सिद्धः, तत्? किमर्थमिह पठनम्()? इत्याह--"सुशब्द" इत्यादि। सुशब्दस्य कर्मप्रवचनीयत्दादनुपसर्गत्वे सति सुषेध इति पाठः। निर्दुःशब्दयोस्तु क्रियान्तरावषयत्वादनुवसर्गत्वे सति निःषेधः, दुःषेध इत्ययं पाठ इति सम्बन्धः कत्र्तव्यः। सुषेधादिषु स्थादीनामुपसर्गत्वं नास्ति; ततो यदि तेषामिह पाठो न क्रियते तदा "डपसर्गात्? सुनोति" (८।३।६५) इत्यादिनोपसर्गस्थान्निमित्तात्? षत्वं विधीयमानं न स्यात्(), इष्यते च; तस्मादनुपसर्गान्निमित्तात्? षत्वं यथा स्वादित्येवमर्थमेषां सुषेधादीनामिह पाठः। तत्र सुशब्दस्य कर्मप्रवचनीवत्वे सत्युपसर्गसंज्ञा न भवति; एका संज्ञेत्यधि कार#आत्? १।४।१। अनुपसर्गत्वं त्वस्य "सुः पूजायाम्()" १।४।९३ इति कर्मप्रवचनीयसंज्ञाविषानात्()। निर्दुःशब्दयोस्तूपसर्गत्वाभावः, क्रियान्तरविषयत्वात्()। निर्गतः सेधो निष्षेधः, दुर्गतः सेधो दुष्षे ध इति--गमिक्रिया विषयौ हि तौ; तस्माद्गमिमेव प्रति तयोरुपसर्गत्वम्(), न सेधतिं प्रति; यं परति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति (म।भा।१।४।६०) वचनात्()। एवं तावत्? "षिधु संराद्धो" (धा।पा।४७) इति यदा गतौ दत्र्तमानस्य सेध इत्येतद्भवति, तदा प्रतिषेधबाधनार्थः पाठ इति दर्शयितुमाह--"सेधतेः" इत्यादि। अथ वा "सेधतेर्गतौ" ८।३।११३ इति प्रतिषेधं वक्ष्यति, स मा भूदित्येवमर्थं एषां पाठः। "सुषन्धिः, निष्षन्धिः, दुष्षन्धिः" इति। एते "उपसर्गे घोः किः" ३।३।९२ इति क्रिप्रत्ययान्ताः। तेनैषामनादेशसकारत्वादप्राप्ते षत्वे पाठः। सन्धीयत इति सन्धिः, शोभनः सन्धिरिति प्रादिसमासः--सुषन्धिरिति। एवमन्यत्रापि। "सुष्ठुदुष्ठु" शब्दयोस्तु पदादिलक्षण एव तिषेधे प्रान्ते पाठः। "तिष्ठतेरुणादिष्वेतौ व्युत्पाद्येते" इति। "कुभ्र्रश्च" (द।उ।१।१०७) इत्यतः कुग्रहणमनुवत्र्तते। "मृगय्वादयश्च" (द।उ।१२१) इति कुप्रत्ययान्त#औ व्युत्पाद्येते। "गौरिषक्यः" इति। गौरिषक्यशब्दस्य सकारस्य संज्ञायां षत्वं भवति। गौर्याः सक्थीति षष्ठीसमासः। "अच्प्रत्ययन्ववपूर्वात्()" (५।४।७५) इत्यादिसूत्रे अजिति योगविभागादच्? समासान्तः। यदा तु बहुव्रीहिः--गौर्या इव सक्ति यस्येति, तदा "बहुव्रीहौ सक्ध्यक्ष्णोः स्वाङ्गात्? षच्()" ५।४।११३ इति षच्प्रत्ययान्तः। सक्तिशब्दोऽयम्? "असिसञ्चिभ्यां क्थिन" (द।उ।१।१०) इति विथन्प्रत्ययान्तो व्युत्पाद्यते। तेन प्रतिषेधबाधनार्थो गौरिषक्थशब्दस्य पाठः। अव्युत्पत्तिपक्षे त्वप्राप्त एव षत्वे। "प्रतिष्णिका" इति। अस्यापि प्रतिस्नातीति [प्रतिष्णातीति--कांउद्रितः, पाठः] "आतश्चोपसर्गे" ३।१।१३६ इति कप्रत्ययः। ठाप, तदन्तात्? "संज्ञायां कन्()" ५।३।८७, "केऽणः" ७।४।१३ इति ह्यस्वः। "प्रत्यस्थात्()" ७।३।४४ इत्यादिनेत्त्वम्()। "जलावाहम्()" इति। अनिणन्तार्थः पाठः। अनार्षः पुनरयं लक्ष्यते। तथा हि--सवनावि ८।३।११२ ष्व()आसनिशब्दग्रहणेन ज्ञापकेनास्य षत्वं प्रतिपादयिष्यते। अपरे त्व()आसनिशब्दो वा सवनादिज्ञापनार्थः पठितव्यः, इह वा जलाषाहिशब्द इति विकल्पदर्शनार्थमिहास्य पाठं समर्थयन्ते। उपलक्षणार्थश्चेतीहास्य पाठः। तेना()आवाहमित्यप#इ पाठो वेदितव्यः। "नौषेचनम्(), दुन्दुभिषेषणम्()" इति। षष्ठीसमासौ। सिचेः "वेवृ सेवने" (धा।पा।५०१) इत्यस्माच्च स्युटि प्रतिषेधबाधनार्थः पाठः॥
बाल-मनोरमा
सुषामादिषु च १००७, ८।३।९८

सुषामादिषु च।स्पष्टम्