हनुमन्मन्त्राः
(प्रपञ्चसारसारसङ्ग्रहतः)
१. हनुमन्मन्त्रस्य ईश्वरः ऋषिः, अनुष्टुप् छन्दः, हनुमान् देवता ।
हां बीजं, नमः शक्तिः , मं कीलकं; मम हनुमत्प्रीत्यर्थे जपे
विनियोगः ।
हृदयादि न्यासः -
ॐ नमो भगवते आञ्जनेयाय हृदयाय नमः ।
रुद्रमूर्तये शिरसे स्वाहा ।
वायुसुताय शिखायै वषट् ।
अग्निगर्भाय कवचायहुम् ।
रामदूताय नेत्रत्रयाय वौषट् ।
ब्रह्मास्त्रनिवारणाय अस्त्राय फट् ।
करन्यासः -
अङ्गुष्ठाभ्यां नमः ।
तर्जनीभ्यां नमः ।
मध्यमाभ्यां नमः ।
अनामिकाभ्यां नमः ।
कनिष्ठिकाभ्यां नमः ।
करतलकरपृष्ठाभ्यां नमः ।
ध्यानं -
स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् ।
कुण्डलद्वयसंशोभिमुखाम्भोजं मुहुर्भजे ॥
हौ ॐ नमो भगवन् प्रकटपराक्रम आक्रान्तदिङ्मण्डल
यशोवितानधवलीकृतजगत्त्रितय वज्रदेह रुद्रावतार
लङ्कापुरीदहन उदधिबन्धन /(लङ्घन) दशग्रीवकृतान्तक,
सीताश्वासन, अञ्जनागर्भसम्भव, रामलक्ष्मणानन्दकर
कपिसैन्यप्राकारक सुग्रीवधारण पर्वतोत्पाटन
बालब्रह्मचारिन् गम्भीरशब्द सर्वग्रहविनाशन सर्वज्वरोत्सादन
डाकिनीविध्वंसिन् ॐ ह्रीं हा हा हा हंस हंस एहि सर्वविषं हर हर
परबलं क्षोभय क्षोभय मम सर्वकार्याणि साधय साधय हुं फट् स्वाहा ।
२. अस्य श्रीहनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः हनुमान् देवता
हां बीजं हीं शक्तिः, हनुमत्प्रीत्यर्थे जपे विनियोगः ।
ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति अङ्गन्यासकरन्यासौ ।
ध्यानम् -
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥
ॐ नमो भगवते मम मदनक्षोभं संहर संहर
आत्मतत्त्वं प्रकाशय प्रकाशय हुम्फट् स्वाहा । (मन्त्रोऽयं विद्याप्रदः)
३. कशिं कुक्ष वरवर अञ्जनावरपुत्र आवेशि आवेशि (आवेशयावेशय)
ॐ ह्रीं हनुमन् फट् ।
ऋष्यादिन्यासाः पूर्ववत् । पिशाचादि निवृत्तिःफलम् ।
४. वसिष्ठऋषिः अनुष्टुप्छन्दः । हनुमान् देवता ।
ॐ नमो हनुमते मम मदनक्षोभं संहर संहर
आत्मतत्वं प्रकाशय प्रकाशय हुम्फट् स्वाहा इति अङ्गन्यासकरन्यासौ ।
ध्यानम् -
वामे जानुनि वामबाहुमपरं ज्ञानाख्यमुद्रायुतं
हृद्देशे कलयन् वृतो मुनिगणैरध्यात्मदत्तेक्षणः ।
आसीनः कदलीवने मणिमये बालार्ककोटिप्रभः
ध्यायन्ब्रह्म परं करोतु मनसः सिद्धिं (शुद्धिं) हनूमान्मम ॥
ॐ नमो हनुमते मम मदनक्षोभं संहर संहर
आत्मतत्त्वं प्रकाशय प्रकाशय हुं फट् स्वाहा ।
(मदनक्षोभशान्तिविद्याप्रधानोऽयं मन्त्रः ।)
शीर्षालिकश्रवणनेत्रकपोलनासा
दोःपादसन्धिकटिनाभिसपार्श्वहृत्सु ।
कण्ठांसयुग्ममुखमूर्धसु च क्रमेण
मन्त्राक्षरान्न्यसतु शुद्धमतिः स्वदेहे ॥ (इति न्यासक्रमः)
लक्षं जपेत् । कदलीफलैर्वा पनसफलैर्वा; स्वादु (मधु) प्लुतैः
दशांशं पुरश्चरणहोमः ।
पूजाक्रमः-
नवशक्तिसहिते सामान्यपीठे आवाह्य अङ्गैः
प्रथमावृतिः, जाम्बवते -विनताय -नीलाय -पनसाय -
गन्धमादनाय-सुषेणाय -मैन्दाय-द्विविदाय -इति द्वितीयावृतिः ।
लोकेशैः (दिक्पालैः) तृतीया । तदायुधैः चतुर्थी ।
यन्त्रं तु कर्णिकायां लिखेत्तारं साध्यगर्भं च तद्बहिः ।
अष्टपत्रे केसरोद्यत्स्वरद्वन्द्वे मनोः क्रमात् ॥
आद्ये सप्त द्वितीये च चतुरोऽर्णास्तृतीयके ।
सप्त तुर्ये पञ्चमे च त्रीणि त्रीण्यक्षराण्यपि ॥
षट्सप्तमाष्टपत्रेषु चतुरश्चतुरोऽक्षरान् ।
वृत्तोल्लसत्कादिवर्णं भूपुराश्रस्थतारकम् ॥
हनूमतो यन्त्रमेतत् वाञ्छितार्थप्रदं परम् ।
इदमेव विलिख्य साधु यन्त्रं नवनीते प्रतिजप्य मन्त्रमेनम् ।
परिभक्षयतामनङ्गपीडा प्रशमं गच्छति शुद्धिमेति चेतः ॥
द्वितीयः प्रयोगः -
आदाय दोष्णा सलिलं प्रसन्नं प्रजप्य मन्त्रं प्रपिबेत् त्रिवारम् ।
रागादिदोषप्रशमाय बुद्धेर्ज्ञानोदयाय प्रशमाय वृत्तेः ॥
पुरश्चर्यार्णवतो हनुमन्मन्त्राः
१. अष्टादशाक्षरो मन्त्रः
अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टादशाक्षरम् ।
नमो भगवते प्रोच्य आञ्जनेयाय संवदेत् ॥ १॥
महाबलाय स्वाहेति मुनिरस्येश्वरः स्मृतः ।
(नमो भगवते आञ्जनेयाय महाबलाय स्वाहा)
छन्दोऽनुष्टुप् देवता तु हनुमान् हँ च बीजकम् ॥ २॥
स्वाहा शक्तिश्चाञ्जनेयो रुद्रमूर्तिर्मरुत्सुतः ।
अग्निगर्भो रामदूतो ब्रह्मास्त्रविनिवारकः ।
एतैर्ङेऽन्तैः षडङ्गानि तथाङ्गुष्ठादिषु न्यसेत् ॥ ३॥
तप्तकाञ्चनसङ्काशं हृदये निहिताञ्जलिम् ।
किरीटिनं कुण्डलिनं ध्यायेद्वानरनायकम् ॥ ४॥
अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयात्तिलैः ।
विप्रसन्तर्पणाद्यं तु प्राग्वत् सिद्धौ भवेन्मनुः ॥ ५॥
जितेन्द्रियो नक्तभोजी प्रत्येकं साष्टकं शतम् ।
जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् ।
भूतप्रेतपिशाचादिनाशायैवं समाचरेत् ॥ ६॥
महारोगनिवृत्त्यै तु सहस्रं त्रिदिनं जपेत् ।
यताशनोऽयुतं नित्यं जपेद्ध्यायन् कपीश्वरम् ।
राक्षसौघं विनिघ्नन्तमचिराज्जयति द्विषः ॥ ७॥
सुग्रीवेण समं रामं सन्दधानं स्मरन् कपिम् ।
प्रजप्यायुतमात्रं तु सन्धिं कुर्याद्विरुद्धयोः ॥ ८॥
लङ्कां दहन्तं तं ध्यायन्नयुतं प्रजपेन्मनुम् ।
शत्रूणां प्रदहेद्ग्रामानचिरादेव साधकः ॥ ९॥
प्रयाणसमये ध्यायन् हनुमन्तं मनुं जपेत् ।
यो याति सोऽचिरात् स्वेष्टं साधयित्वा गृहं व्रजेत् ॥ १०॥
यः कपीशं सदा गेहे पूजयेज्जपतत्परः ।
आयुर्लक्ष्म्यौ प्रवर्धेते तस्य नश्यन्त्युपद्रवाः ॥ ११॥
शार्दूलतस्करादिभ्यो रक्षेन्मनुरयं स्मृतः ।
प्रस्थानकाले चौरेभ्यो दुष्टसर्पादपि ध्रुवम् ॥ १२॥
पुच्छाकारे सुवसने लेखिन्या कोकिलोत्थया ।
अष्टगन्धैर्लिखेद्रूपं कपिराजस्य सुन्दरम् ॥ १३॥
तन्मध्येऽष्टादशार्णं तु शत्रूणामयुतं लिखेत् ।
तेन मन्त्राभिजप्तेन शिरोबन्धेन भूमिपः ।
जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् ॥ १४॥
२. अष्टाक्षरो मन्त्रः
अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टाक्षरं परम् ।
षड्दीर्घयुक्ता हृल्लेखा प्रणवेन च सम्पुटा ॥
अष्टार्णोऽयं हनुमतो मन्त्रराजः प्रकीर्तितः ।
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥ १६॥
ॐ ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ॐ
बालार्काभं त्रिभुवनं क्षोभकान् सर्वराक्षसान् ।
नादेनैव त्रासयन्तं सुग्रीवादिकसेवितम् ।
सुन्दरं रामचरणध्यानं ध्यायेत्समीरजम् ॥ १७॥
३. द्वादशाक्षरो मन्त्रः
अथास्यायं प्रवक्ष्यामि द्वादशार्णं महामनुम् ।
हौं बीजं सम्यगुच्चार्य पूर्वोक्तं कूटपञ्चकम् ॥ १८॥
हनुमते नमो मन्त्रो रामचन्द्रो मुनिर्मतः ।
जगतीछन्द उद्दिष्टं हनुमान्देवता मतः ॥ १९॥
बीजं तु पञ्चमं कूटं शक्तिराद्यं च कूटकम् ।
षड्बीजैः प्रथमैर्न्यासः षडङ्गोऽस्य प्रकीर्तितः ॥ २०॥
आद्यन्ताकृतिवेदार्णा बिन्दुरुद्रस्वरान्विताः ।
हनूमतस्त्वाद्यकूटमेतत्साधक उच्चरेत् ॥ २१॥
प्रकृत्याकृतिवेदार्णा बिन्दुरुद्रस्वरान्विताः ।
द्वितीयं कूटमेतत्स्यादाद्यन्ताकृतिवर्णकाः ॥ २२॥
विसर्गेन्दुस्वरोपेतास्तृतीयं कूटमुच्यते ।
आद्यन्तसिद्धाकृत्यब्धिवर्णैरीशस्वरान्वितैः ॥ २३॥
सानुस्वारैस्तुर्यकूटं साद्यः सौः पञ्चमं मतम् ।
(हौं ह्फ्रें ख्फ्रें ह्स्रों ह्स्ख्फ्रें सः ह्सौं हनुमते नमः)
ध्यानं पूर्वोक्तमेवास्य जपेदर्कसहस्रकम् ।
दशांशं जुहुयाद्व्रीहीन् पयोदध्याज्यसंयुतान् ॥ २४॥
४. मालामन्त्रः
अथातः सम्प्रवक्ष्यामि मालामन्त्रं वदेद्ध्रुवम् ।
वज्रकाय वज्रतुण्ड वदेत् कपिलपिङ्गल ॥ २५॥
ऊर्ध्वकेश महाबल रक्तमुखेति कीर्तयेत् ।
तडिज्जिह्व महारौद्र दंष्ट्रोत्कटकहद्वयम् ॥ २६॥
करालिने महा प्रोच्य दृढप्रति च हा वदेत् ।
हि लङ्केश्वर वेत्युक्त्वा धाय महा वदेत्परम् ॥ २७॥
सेतुबन्ध महाशैलप्रवाह गगनेचर ।
एह्येहि भगवन् प्रोच्य महाबलपराक्रम ॥ २८॥
भैरवाज्ञापय प्रोच्य एह्येहीति पदं वदेत् ।
महारौद्रपदं प्रोच्य दीर्घपुच्छेन वेष्टय ॥ २९॥
वैरिणं भञ्जय द्वन्द्वं हूँ फड्बाणार्कवर्णवान् ।
मुन्याद्यर्चाप्रयोगादिसर्वं सूर्यार्णवन्मतम् ॥ ३०॥
५. अन्यो मन्त्रः
नमः सबिन्दुमृद्धत्य हनुमन्तं च ङेऽन्तकम् ।
रुद्रात्मकाय कवचमस्त्रं चेत्येकवर्णकः ॥ ३१॥
मन्त्रोऽयं हरिणा पूर्वं दत्तो गाण्डीवधन्विने ।
एतस्य साधनं कृत्वा रणे विजयमाप्तवान् ॥
६. अन्यो मन्त्रः
स्वबीजं पूर्वमुच्चार्य ङेऽन्तं पवननन्दनम् ।
वह्निजायावधि प्रोक्तो मन्त्रोऽयं सुरपादपः ॥ ३३॥
षड्दीर्घभाजा बीजेन मन्त्रार्णैरङ्गकल्पना ।
स्वरैः काद्यैश्च क्षान्तैश्च प्राणायामत्रयं चरेत् ॥ ३४॥
ॐ हं पवननन्दनाय स्वाहा ।
ध्यायेद्रणे हनूमन्तं कपिकोटिसमन्वितम् ।
धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ॥ ३५॥
लक्ष्मणं च महावीरं पतितं रणभूतले ।
गुरुक्रोधं समुत्पाद्य गृहीत्वा गुरुपर्वतम् ॥ ३६॥
हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् ।
आब्रह्म च समाव्याप्य कृत्वा भीमकलेवरम् ॥ ३७॥
पूजा तु वैष्णवे पीठे लक्षमेकं जपं चरेत् ।
ततः सिद्धमनुर्मन्त्री साधयेत्सिद्धिमुत्तमाम् ॥ ३८॥
ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियो द्विजः ।
गत्वा नदीं ततः स्नात्वा तीर्थमावाह्य चाष्टधा ॥ ३९॥
सम्पूज्य हनूमन्तं षट्सहस्रं जपमाचरेत् ॥ ४०॥
एवं सप्तदिनान्ते च समायाति कपीश्वरः ।
रात्रौ त्रिभागशेषायां ददाति वरमीप्सितम् ॥ ४१॥
विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्रहम् ।
ददाति साधकेन्द्राय सत्यं सत्यं सुनिश्चयम् ॥ ४२॥
From Hanumatstutimanjari, Mahaperiaval Publication
Proofread by PSA Easwaran psaeaswaran at gmail