गुपेः परस्य च्लेः छन्दसि विषये विभाषा चङादेशो भवति। यत्र आयप्रत्ययो नास्ति तत्र अयं विधिः। इमान् मे मित्रावरुणौ गृहञ्जुगुपतम् युवम्। अगौप्तम्, अगोपिष्टम्, अगोपायिष्टम् इति वा। भाशायां तु चङन्तं वर्जयित्वा शिष्टं रूपत्रयं भवति।
"यत्रायप्रत्ययो नास्ति तत्रायं विधिः" इति। अनायप्रत्ययान्तकस्योपादानात्। आयप्रत्ययान्तस्य धात्वन्तरत्वात्। "अझूगुपतम्" इति। "गुपू रक्षणे" (धा।पा।३९५), लुङ्, द्विर्वचनम्,थस्, "तस्थस्थ"
३।४।१०१ इत्यादिना तम् "दुजादीनां दीर्घोऽभ्यासस्य"
६।१।७ इति दीर्घः। "अगौप्तम्" इति। "झलो झलि"
८।२।२६ इति सिचो लोपः,तस्यासिद्धत्वात् "वदव्रज"
७।२।३ इत्यादिना वृद्धिः। "अगोपिष्टम्" इति। ऊदित्त्वात् "स्वरति"
७।२।४४ इत्यादिना पक्षे इट्, "नेटि"
७।२।४ इति वृद्धौ प्रतिषिद्धायां लघूपधगुणः। "अगोपायिष्टम्" इति। आयप्रत्ययान्तात् सिच्, इट्, "अतो लोपः"
६।४।४८।"रूपत्रयम्" इति। पाश्चात्यम्॥