"यज देवपूजादौ" (धा।पा।१००२), "टुयाच् याच्ञायाम्" (धा।पा।८६३), "{यती प्रयत्ने-धा।पा} यत प्रयत्ने"(धा।पा।३०), "विच्छ गतौ" (धा।पा।१४२३), "प्रच्छ ज्ञीप्सायाम्" (धा।पा।१४१३), "रक्ष {पालने-- धा।पा।}रक्षणे" (धा।पा।६५८)--अत्र स्वाभाविकत्वाद्याचेरन्येषां नङ्प्रत्ययान्तानां पुंसि वृत्तिरिति तेभ्यो नङ् न घञपवादो भवति। यथादर्शनञ्च वासरूपविधना घञपि भवति- याग इति। याचेस्तु नङन्तसय स्वभावात् स्त्रियां वृत्तिरिति ततो नङ् "गुरोश्च हलः"
३।३।१०३ इति प्राप्तस्याकारप्रत्ययस्यापवादः। "कृत्यल्युटो बहुलम्"
३।३।११३ इति वचनाद्वासरूपविधिर्न भवति। "ङकारो गुणप्रतिषेधः" इति। विच्छेर्लघूपधगुणो मा भूदित्येवमर्थः। ननु चान्तरङ्गत्वात् "छे च"
६।१।७१ इति तुकैव विच्छेस्तावद्भवितव्यम्, तत्रालघूपधत्वादेव गुणो न भविष्यति, त()त्क तत्प्रतिषेधार्थो ङकारः कत्र्तव्यः। "अनित्यमागमशासनम्"(व्या।प।९९) इत्यस्य चैदेव नङो ङिकरणं ज्ञापकम्। यदा तह्र्रनित्यत्वात्, तुङ्()न, तदा "च्छ्वोः शूडनुनासिके च" (६।४।
१९) इति सतुक्कस्य च्छकारस्य शादेशो विधीयमानः केवलस्य न प्राप्नोति? नैष दोषः; यस्मात् "च्छ्वोः"इति द्विच्छकारो निर्देशः। तत्रैकः सतुक्कः, द्वितीयः केवल एव, तेन केवलस्यापि शादेशो भविष्यति। यदि तु द्विच्छकारो निर्देशः "च्छ्वोः" इति द्विवचनं न प्राप्नोति,
बहुत्वात् स्थानिनाम्? सौत्रत्वनान्निर्देशस्य बहुवचनस्य व्यत्ययेन द्विवचनं भविष्यतीत्यदोषः। अवश्यं द्विच्छकारो निर्देशः कत्र्तव्यः; अन्यथा "राल्लोपः"
६।४।२१ इत्यत्र केवलस्य लोपो न स्यात्, केवलस्य च्छकारस्याप्रकृत्वात्। वचनं तु वकारलोपार्थमेव स्यात्। "यज्ञः, याच्ञा" इति। "स्तोः श्चुना श्चुः"
८।४।३९ इति श्चुत्वेन नकारस्य ञकारः। "यत्नः" इति। "नेड् वशि कृति"
७।२।८ इतीट्()प्रतिषेधः। "विश्नः, प्रश्नः" इति। "च्छ्वोः"
६।४।१९ इत्यादिना च्छकारस्य शकारादेशः। "रक्ष्णः"इति। "ष्टुना ष्टुः"
८।४।४० इति नकारस्य णकारः। अथ प्रच्छेः ग्रहिज्यादिसूत्रेण
६।१।१६ सम्प्रसारणं "प्रश्नः" इत्यत्र कस्मान्न भवतीत्यत आह-- "प्रच्छेः" इत्यादि। किं ज्ञापकमित्याह-- "प्रश्ने च" इत्यादि॥