पूर्वम्: ४।३।९९
अनन्तरम्: ४।३।१०१
 
सूत्रम्
जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने॥ ४।३।१००
काशिका-वृत्तिः
जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने ४।३।१००

जनपदिनो ये बहुवचने जनपदेन समानशब्दास् तेषां जनपदवत् सर्वं भवति, प्रत्ययः प्रकृतिश्च सो ऽस्य भक्तिः इत्येतस्मिन् विषये। जनपदतदवध्योश्च इत्यत्र प्रकरणे ये प्रत्यया विहिताः, ते जनपदिभ्यो ऽस्मिन्नर्थे ऽतिदिश्यन्ते। जनपदिनो जनपदस्वामिनः क्षत्रियाः। अङ्गा जनपदो भक्तिरस्य आङ्गकः। वाङ्गकः। सौह्मकः। पौण्ड्रकः। तद्वतङ्गाः क्षत्रिया भक्तिरस्य आङ्गकः। वाङ्गकः। सौह्मकः। पौण्ड्रकः। जनपदिनाम् इति किम्? पञ्चालाः ब्राह्मणा भक्तिरस्य पाज्चालः। सर्वग्रहणं प्रकृत्यतिदेशार्थं, स च द्व्येकयोः प्रयोजयति, वृद्धिनिमित्तेषु च वुञादिषु विशेषो न अस्ति इति। मद्रवृज्योः कनि विशेषः। मद्रस्यापत्यं, द्व्यञ्मगधकलिङ्गसूरमसादण् ४।१।१६८, माद्रः। वृजिशब्दादपि, वृद्धैत्कोसलाजादाञ् ञ्यङ् ४।१।१६९, वार्ज्यः। स भक्तिरस्य इति प्रकृतिनिर्ह्रासे कृते, मद्रकः। वृजिकः। जनपदेन समानशब्दानाम् इति किम्? अनुष्ण्डो जनपदः पौरवो राजा, स भक्तिरस्य, पौरवीयः। बहुवचनग्रहणं समानशब्दताविषयलक्षणार्थम्। अन्यथा हि यत्र एव समानशब्दता तत्र एव अतिदेशः स्यात्, एकवचनद्विवचनयोर् न स्यात्, वाङ्गो वङ्गौ वा भक्तिरस्य इति। बहुवचने तु, बहुवचने समानशब्दानाम् एकवचनद्विवचनयोः सत्यपि शब्दभेदे ऽतिदेशो भवति। वाङ्गः वाङ्गौ वा भक्तिरस्य वाङ्गक।
न्यासः
जनपदिनां जनषदवत्सर्वं जनपदेन समानशब्दानां बहुवचने। , ४।३।१००

"{नास्ति--काशिका}एकशब्दाः" इति। एतेन समानशब्दोऽयमेकवाचीति दर्शयति। "प्रत्ययः प्रकृतिश्च" इति। सर्वशब्देन योऽर्थ उपात्तस्तमाचष्टे। "तद्वत् अङ्गा क्षत्त्रिया भक्तिरस्य" इति। अङ्गादिभ्यः क्षत्त्रियेभ्यो बहुष्वपत्येषु "द्व्यञ्मगध" ४।१।१६८ इत्यादिना विहितस्याणः "तद्राजस्य" २।४।६२ इत्यादिना लुक् क्रियते। बहुवचनेऽङ्गदयो जनपदिनो जनपदेन समानशब्दा भवन्ति। अत्र जनपदवृत्तिभ्योऽङ्गादिभ्यो यथा "सोऽस्य भक्तिः" ४।३।९५ इत्येतस्मिन् विषये "जनपदतदवध्योश्च" ४।२।१२३ इति वुञ् भवति, तथा जनपदवृत्तिभ्योऽपि --"पञ्चाला ब्राआहृणाः"इति। यदा पञ्चालनिवासिषु साहचर्यात् पञ्चालादिशब्दो वत्र्तते, तदा भवन्ति ब्राआहृणा जनपदेन बहुवचने समानशब्दाः, न तु ते जनपदिनः। तेनातिदेशाभावादणेव भवति-- "पाञ्चालः"। "सर्वग्रहणम्" इत्यादि। यदि सर्वग्रहणं न क्रियते, तदा प्रत्ययस्य विधीयमानतया प्राधान्यात् प्रधाने कार्यसम्प्रत्ययात् तस्यैवातिदेशः स्यात्, न प्रकृतेः। तस्माद्यथा प्रकृतेरप्यतिदेशो भवति तदर्थं सर्वग्रहणं क्रियते। "स च" इत्यादि। स च प्रकृत्यतिदेशः सर्वगर्हणं द्व्येकयोरेव प्रयोजयति, न बहुषु। जनपदशब्दो नात्र वृद्धः, तस्मादवृद्धो जनपदशब्दो दृश्यते। बहुवचने तु "तद्राजस्य बहुषु तेनैवास्त्रियाम्" २।४।६२ इति लुकि कृते विनाप्यतिदेशेनावृद्धः, अत एव भवतीति तत्र प्रकृत्यतिदेशोऽनर्थकः। ततो नेतदर्थं सर्वग्रहणं कर्तव्यम्। "वृद्धिनिमित्तेषु" इत्यादि। वृद्धिनिमित्तेषु वुञादिष्वादिष्टायामवृद्धायां प्रकृतौ पुनर्वृद्धिभावात्। "प्रकृतिनिह्र्यासेकृते" इति सर्वग्रहणात्प्रकृत्यदेशेन निर्हासः। निह्र्यासोऽल्पतयाऽपक्षय इत्यर्थः। "माद्रः" इति। एताञ्च प्रकृतिमपेक्ष्य मद्र इत्येषा प्रकृतिरल्पा भवति। "वार्ज्यःर" इत्येताञ्च वृजिरिति। ननु वतेः सर्वसादृशस्यार्थत्वनाद्वतिनिर्देशेनैव प्रकृतेरतिदेशो भविष्यतीति, त()त्क सर्वग्रहणेन? नैतदस्ति; यतैव तत्र सर्वसादृश्यार्थे वतौ न प्रत्यार्थो देवतार्थेऽतिदिश्यते, तथेहापि जनपदरूपं जनपदिनि नातिदिश्यते। कस्मात् पुनस्तत्र प्रत्ययार्थो नातिदिश्यते? वतिना तयोर्भेदस्य प्रतिपादितत्वात्। वतिर्हि सादृश्ये रिधीयते, सादृस्यं च भेदाश्रयम्; यदि भवार्थस्यापि देवतार्थतया विपरिणामः स्यात्, तदा वतिरेव न स्यात्। तस्मादन्यस्य कार्यस्य सादृस्यं वतिराचष्टे, प्रत्ययार्थयोस्तु भेदम्, इहापि च जनपदजनपदिनोर्भेदमाचष्ट इति। असति सर्वग्रहणे जनपदरूपं जनपदरूपं जनपदिनि न लभ्यते। तस्मात् सर्वग्रहणं क्रियते। "बहुलग्रहणम्" इत्यादि। समानशब्दताया विषयप्रदर्शनं लक्षणम्। तदर्थं बहुवचनग्रहणम्। "अन्यथा हि" इत्यादि। बहुवचनग्रहणं न क्रियेतेत्यर्थः। "तत्रैव" इति। बहुवचने। बहुवचन एव तद्राजप्रत्ययस्य लुकि कृते समानशब्दता भवति, यतश्च तत्रैवातिदेशः स्यात्। "एकवचनद्विवचनयोर्न स्यात्" इति। तत्र समानशब्दतया अभावात्। "बहुवचने तु" इत्ादि। बहुवचनग्रहणे तु सति बहुवचने ये जनपदेन समानशब्दास्तेषां यत्र वा तत्र वातिदेशे विज्ञायमाने द्व्येकयोरप्यसौ सिद्धो भवति॥
बाल-मनोरमा
जनपदिना जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने १४५९, ४।३।१००

जनपदिनां। बहुवचने परे ये जनपदे समानशब्दाः=जनपदवाचिशब्देन समानः शब्दः=श्रवणं येषां तथाविधाः, तेषां जनपदिनां=जनपदस्वामिवाचिनां जनपदवत्=जनपदे इव सर्वं स्यादित्यर्थः। "जनपदतदवध्योश्चे"ति प्रकरणे ये प्रत्यया विहितास्ते भवन्ति, प्रकृतयोऽपि तथैव भवन्तीति तु "सर्व" शब्दाल्लभ्यते। तदाह--जनपदस्वामिवाचिनामित्यादिना। अङ्गा जनपद इति। दृष्टान्तार्थमिदम्। अङ्गनाम्नां राज्ञां निवासो जनपदः-अङ्गाः। "जनपदे लुप्" इति चातुरर्थिकस्य लुप्। स जनपदो भक्तिरस्येत्यर्थे "जनपदतदवध्योश्चे"ति वुञ्प्रत्यये "आङ्गकः" इति यथा तथा अङ्गदेशस्वामिनः क्षत्रिया अङ्गा भक्तिरस्येत्यर्थे क्षत्रियवाचकादङ्गशब्दाद्वुञि "आङ्गका" इति रूपमित्यर्थः। पञ्चाला ब्राआहृणा इति। अभेदोपचारादिह ब्राआहृणेषु पञ्चालशब्दः। तत्रातिदेशा।ञभावादणेव भवति। पौरव इति। पौरवशब्दो न जनपदवृत्तिरिति भावः। बहुवचने किम्?। एकवचनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो भवतचि। यथा आङ्गो वा आङ्गौ वा भक्तिरस्य आङ्गक इति। प्रकृतिश्चेति किम्?। मद्राणां राजा माद्रः। "द्य्वञ्मगधे"त्यण्। माद्रो भक्तिरस्येत्यर्थे अतिदेशान्माद्रस्य मद्रत्वे सति "मद्रवृज्यो"रिति कनि "माद्रक" इति सिध्यति।

तत्त्व-बोधिनी
जनपदिनां जनपदवत्सर्व जनपदेन समानशब्दानां बहुवचने ११४१, ४।३।१००

जनपदिनां। स्वस्वामिभावसंबन्धे मत्वर्थयं दर्शयित---जनपदस्वमिवाचिनामिति। प्रत्ययः प्रकृतिश्चेति। अनेन सर्वशब्दस्यार्थो दर्शितः। असति सर्वग्रहणे प्राधान्यात्प्रत्ययस्यैवातिदेशः स्यान्न, तु प्रकृतेरिति हरदत्तःष। अत्र वार्तिककारः सर्वशब्दस्य प्रयोजनमाह---"सर्ववचनं प्रकृतिनिह्र्यासार्थं, तच्च मद्रवृज्यर्थ"मिति। अयं भावः---वृद्धिनिमित्तेषु वुञादिष्वतिदिष्टेऽपि प्रकृतिरूपे पुनर्वृद्द्या भाव्यमिति विशेषस्य तत्र दुर्लभत्वान्मद्रवृज्योः कनि विशेषो बोध्यः। सोऽप्यबहुत्वे एवेति। निह्र्यासोऽपचयोऽल्पता। तथा हि मद्राणां राजा। "व्द्यञ्मगधे"त्यण्। माद्रः। वजिशब्दातच् "वृद्देत्कोशले"ति ञ्यङ्। वार्ज्यः। स भक्तिरस्येति प्रकृतिनिह्र्यासे--मद्रकः। वृजिकः। "मद्रवृज्योः कन्। अन्यथा माद्रकः वाज्र्यक इति स्यात्। आङ्गक इति। "जनपदतदवध्योश्च" "अवृद्धादपी"ति वुञ्। अङ्गशब्दात्स्वामिवाचिनो बहुवचनान्तादणि प्राप्ते वुञतिदिश्यते। पञ्चाला ब्राआहृणा इति। अभेदोपचारद्ब्राआहृणेषु पञ्चालशब्दस्य वृत्तिः। बहुवचनग्रहणं किम्()। एकवचनद्विवचनयोः सत्यपि शब्दभेदे अतिदेशो यथा स्यात्। आह्गः आङ्गौ वा भक्तिस्य आङ्गकः। इह वृद्धाच्छ#ए प्राप्ते वुञ्।