पूर्वम्: ५।२।७५
अनन्तरम्: ५।२।७७
 
सूत्रम्
तावतिथं ग्रहणमिति लुग्वा॥ ५।२।७६
काशिका-वृत्तिः
तावतिथं ग्रहणम् इति लुग् वा ५।२।७७

तावतां पूरणं तावतिथाम्। गृह्यते ऽनेन इति ग्रहणम्। प्रकृतिविशेषणं च एतत्। पूरणप्रत्ययान्तात् प्रातिपदिकात् ग्रहणोपाधिकात् स्वार्थे कन् प्रत्ययो भवति। पूरणस्य प्रत्ययस्य वा लुक्। द्वितीयेन रूपेण ग्रन्थं गृह्णाति द्विकं ग्रहणम्, द्वितीयकम्। त्रिकम्, तृतीयकम्। चतुष्कम्, चतुर्थकम्। तावतिथेन गृह्णाति इति कन् वक्तव्यः, पूरणप्रत्ययस्य च नित्यं लुक्। षष्ठेन रूपेण ग्रन्थं गृह्णाति षट्को देवदत्तः। पञ्चकः। चतुष्कः। इतिकरणो विवक्षार्थः। तेन ग्रन्थविषयम् एव ग्रहणम् विज्ञायते, न अन्यविषयम्।
न्यासः
तावतिथं ग्रहणमिति लुग्वा। , ५।२।७६

पूरणप्रतययान्तानां सामान्यनिर्देशोऽयम्()। अथ स्वरूपग्रहणं कस्मान्न भवति? अर्थप्रधानत्वान्निर्देशस्य। शब्दप्रधाने हि निर्देशे स्वरूपग्रहणं भवतीत्युक्तम्()। कथं प्रत्ययः स्वार्थे भवतीति? अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति (पु। प। पा। ९०) कृत्वा। "द्विकं, त्रिकम्()" इति। तीयस्य लुक्()। "चतुष्कम्()" इति। पूरणप्रत्ययस्य डटः सथुकश्च लुक्(), चतूरेफस्य "विसर्जनीयस्य सः ८।३।३४, तस्य "इदुपधस्य चाप्रत्ययस्य" ८।३।४१, इति षत्वम्()। "तावतिथेन" इत्यादि। पूरणप्रत्यान्तात्? प्रातिपदिकात्? तृतीयासमर्थाद्गृह्णातीत्येतस्मिन्नर्थे कन्प्रत्ययो भवतीति वक्तव्यम्()। पूरणप्रत्ययस्य च नित्यं लुक्()। "षट्कः" इति। षकारस्य जश्तवं डकारः, तस्यापि चत्र्व टकारः। अत्र च डटः सथुको लुक्()। "पञ्चकः" इति। अत्रापि डटः। अथेह कस्मान्न भवतीति--द्वितीयेन हस्तेन दण्डं गृह्णाति? इत्याह--"इतिकरणो विवक्षार्थः" इत्यादि। सुबोषम्()॥
बाल-मनोरमा
तावतिथं ग्रहणमिति लुग्वा १८५३, ५।२।७६

तावतिथं। तावतां पूरणं तावतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः। तृतीयार्थे प्रथमा। "ग्रहण"मिति भावे ल्युडन्तम्। तथा च तृतीयान्तात्पूरणप्रत्ययान्ताद्ग्रहणमित्यर्थे कन्स्यातद्पूरणप्रत्ययस्य च लुग्वेत्यर्थ इत्यभिप्रेत्याह--कन्स्यादित्यादि। पूरणप्रत्ययान्तस्य तु प्रकृतिभूतस्य न लुक्, किंतु पूरणप्रत्ययमात्रस्य, षष्ठेन गृह्णाति षट्क इति भाष्योदाहरणात्। द्वितीयेन रूपेणेति। अनेन तृतीयैव समर्थविभक्तिरिति सूचितम्। इतिना लोकानुसारित्वं गम्यते। एवं च ग्रन्थविषयकमेव ग्रहणिह फलति। तेन "द्वितीयं ग्रहणं देवदत्तेन दण्डस्ये"त्यादौ न भवति।

तावतिथेनेति। ग्रहणे।ञर्थे विहितं ग्रहीतरि न प्राप्नोतीत्यारम्भः। षट्को देवदत्त इति। भाष्ये एवमेवोदाह्मतत्वात्पूरणप्रत्ययस्यैव लुगिति गम्यते, नतु तदन्तस्य।

तत्त्व-बोधिनी
तावतिथं ग्रहणमिति लुग्वा १४२७, ५।२।७६

तावतिथं ग्रहणमिति लुग्वा। तावतां पूरणं---तावतिथम्। "वतोरिथुक्"। यथा "तस्यापत्य"मित्यत्र तस्येति षष्ठ()न्तानां सामान्यनिर्देशस्तथाऽत्र "तावतिथ"मिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः। अनन्तरावपि ठक्()ठञौ नानुवर्तेते, अस्वरितत्वादित्यभिप्रेत्याह---कन्स्यादिति। पूरणप्रत्ययस्येति। नतु कनो लुक्, वाग्रहणानर्थक्यप्रसङ्गात्। पञ्चमं पञ्चमकमित्यादिरूपं हि तेन साध्यम्। तच्च महाविभाषाधिकाराद्विकल्पेन कन उत्पत्त्यापि सिद्धमेव। तस्मात्पूरणप्रत्ययस्यैव लुक्सूत्रकारस्याऽभिमत इति व्याचष्टे---द्विकमिति। वार्तिककारस्तु कन एव लुगिति व्याख्यामभिप्रेत्य "तावतिथं ग्रहणमिति लुग्वा वचनानर्थक्यं, विभाषाग्रहणा"दित्याह। तन्ते द्वितीयकं द्वितीयमित्येव रूपं न द्विकमिति बोध्यम्।

तावतिथेन गृह्णातीति कन्वक्तब्यो नित्यं च लुक्। तावतिथेनेति। पूरणप्रत्ययान्ताद्ग्रहणोपाधिकात् स्वार्थे विधीयमानो ग्रहगीतरि न प्राप्नोतीति वचनमिति कैयटः।