पूर्वम्: ५।३।३
अनन्तरम्: ५।३।५
 
सूत्रम्
एतेतौ रथोः॥ ५।३।४
काशिका-वृत्तिः
एतैतौ रथोः ५।३।४

रेफथकारादौ प्राग्दिशीये प्रत्यये परतः इदमः एतैतौ आदेशौ भवतः। इशो ऽपवादः। रेफे ऽकार उच्चारणार्थः। इदमो र्हिल् ५।३।१६ एतर्हि। इदमस् थमुः ५।३।२४ इत्थम्।
लघु-सिद्धान्त-कौमुदी
एतेतौ रथोः १२१५, ५।३।४

इदम्शब्दस्य एत इत् इत्यादेशौ स्तौ रेफादौ थकारादौ च प्राग्दिशीये परे। अस्मिन् काले एतर्हि। काले किम्? इह देशे॥
न्यासः
एतेतौ रथोः। , ५।३।४

"रथोः" इति वर्णयोरिवं ग्रहणम्()। तत्र "यस्मिन्? विधिस्तदादावल्ग्रहणे" (वा। १४) इति रेफादौ थकारादौ च कार्यं विज्ञायत इत्यादि--"रेफादौ" इत्यादि। रेफस्याकार उच्चारणार्थ इति कथं ज्ञायते? इदमः परस्य प्राग्दिशीयस्याकारवतो रेफस्याभावात्()॥
बाल-मनोरमा
एतेतौ रथोः १९२५, ५।३।४

एतेतौ रथोः। "इदम" इत्यनुवर्तते। एतश्च इच्चेति द्वन्द्वात्प्रथमाद्विवचनम्। रश्च थ् च तयोरिति द्वन्द्वः। रेफादकार उच्चारणार्थः। रेफाथकाराभ्यां प्राग्दिशीयं प्रकरणलभ्यं विशेष्यते। "यस्मिन्विधि"रिति तदादिविधिः। तदाह--इदंशब्दस्येत्यादिना। तत्र रेफादौ परे एतः, थादौ तु इदिति यथासङ्ख्यं बोध्यम्। एतर्हि। इत्थम्।