पूर्वम्: ५।४।५३
अनन्तरम्: ५।४।५५
 
सूत्रम्
तदधीनवचने॥ ५।४।५४
काशिका-वृत्तिः
तदधीनवचने ५।४।५४

अभूततद्भावे इति निवृत्तम्, अर्थान्तरोपादानात्। कृभ्वस्तियोगे सम्पदा च इति वर्तते। तदधीनं तदायत्तं, तत्स्वामिकम् इत्यर्थः। स्वामिसामान्यम्, ईशितव्यसामान्यम् च तदधीनशब्देन निर्दिश्यते। स्वामिविशेषवाचिनः प्रातिपदिकातीशितव्ये ऽभिधेये सातिः प्रत्ययो भवति कृभ्वस्तिभिः सम्पदा च योगे। राजाधीनं करोति राजसात्करोति। राजसाद्भवति। राजसत्स्यात्। राजसात्सम्पद्यते। ब्राह्मणसत्करोति। ब्राह्मणसाद्भवति। ब्राह्मणसात्स्यात्। ब्राह्मणसात्सम्पद्यते।
न्यासः
तदधीनवचने। , ५।४।५४

"तदधीनं तदायत्तम्()" इति। तस्यायत्तं तदायत्तम्()। तच्छब्देन स्वामिसामान्यमुच्यते। अधीनशब्देनापीशितव्यसामान्यम्()। अनन्तरोक्तमेवार्थं विस्पष्टीकर्त्तुमाह---"तत्स्वमिकमित्यर्थः" इति। स स्वामी यस्य तत्? तत्स्वामिकम्()। अत्राप्यन्यपदार्थप्रधानत्वादृबहुव्रीहिः। ईशितव्यस्य चान्यपदार्थत्वात्? तस्य प्रधानभावः। स्वामिनस्तु तदुपलक्षणत्वाद्गुणभावः। "स्वामिसामान्यम्()" इत्यादि। स्वामिसामान्यम्()ी()आरसामान्यम्(), ईशितव्यसामान्यमिततततत्येतदुभयं तदधीनशब्देनोच्यते। कथं कृत्वा? इह "अधिरी()आरे" १।४।९६ इत्यधिशब्दस्य कर्मप्रवचनीयसंज्ञा, तेन योगे "यस्मादधिकं यस्य चे()आर" २।३।९ इति च सप्तमी। स चे()आर ईशितव्यापेक्षित इति सामथ्र्यादीशितव्याभिधानमधिशब्देन योगे भवति। अदिशब्दश्चायं शौण्डादिषु पठ()ते, तत्र "सप्तमी शौण्डैः" २।१।३९ इति समासे कृते पूर्वपदस्य स्वाभिसामान्यमर्थो भवति, उत्तरपदस्य चेशितव्यसामान्यम्()। अवडक्षादिसूत्रेण ५।४।७ खप्रत्यये कृते स एवायमर्थो भवति, तस्य तत्स्वामिकत्वादित्येवं च कृत्वा। स्वामिसामान्यमीशितव्यासामान्यं तदधीनशब्देनोच्यते। तत्र स्वामिसामान्यं प्रकृत्यर्थः, ईशितव्यसामान्यं तु प्रत्यायर्थ इत्यत आह--"स्वामिविशेषवाचिनः" इत्यादि॥
बाल-मनोरमा
तदधीनवचने , ५।४।५४

तदधीनवचे। शेषपूरणेन सूत्रं व्याचष्टे--सातिः स्यादित्यादिना। "अभूततद्भावे" इति निवृत्तमिति भावः।