पूर्वम्: ६।१।१५३
अनन्तरम्: ६।१।१५५
 
सूत्रम्
उञ्छादीनां च॥ ६।१।१५४
काशिका-वृत्तिः
उच्छादीनां च ६।१।१६०

उच्छ इत्येवम् आदीनाम् अन्त उदात्तो भवति। उञ्छः, म्लेच्छः, जञ्जः, जल्पः एते घञन्ताः इति ञित्स्वरः प्राप्तः। जपः, व्यधः इत्यबन्तौ, तयोर् धातुस्वरः प्राप्तः। केचित् तु वधः इति पठन्ति। युगः। युजेर् घञन्तस्य निपातनादगुणत्वं विशिष्टविषये च निपातनम् इदम् इष्यते। कालविशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगः अन्यत्र हि योगः एव भवति। गरो दूष्ये ऽबन्तः। गरशब्दो ऽबन्तः, स दूष्य एव अन्तोदात्तः। गरो विषम्। अन्यत्राद्युदात्त एव। वेदवेगवेष्टबन्धाः करणो। हलश्च ३।३।१२१ इति घञन्ता एते करणो ऽन्तोदात्ता भवन्ति। भावे आद्युदात्ता एव। स्तुयुद्रुवश्छन्दसि। उपसमस्तार्थम् एतत्। परिष्टुत्। संयुत्। परिद्रुत्। वर्तनिः स्तोत्रे। स्तोत्रं साम। तत्स्थो वर्तनिशब्दो ऽन्तोदात्तो भवति, अन्यत्र मध्योदात्तः। श्वभ्रे दरः। श्वभ्रे ऽभिधेये दरशब्दो ऽन्तोदत्तः, अन्यत्राबन्तत्वादाद्युदात्तः। साम्बतापौ भावगर्हायाम्। अन्तोदातौ अन्यत्राद्युदात्तौ। उत्तमशश्वत्तमौ सर्वत्र। केचित् तु भावगर्हायाम् इत्यत्र अपि अनुवर्तयन्ति। भक्षमन्थभोगदेहाः एते घञन्ताः। भक्षिर्ण्यन्तो ऽपि घञन्त एव, एरच् ३।३।५६ अण्यन्तानाम् इति वचनात्।
न्यासः
उञ्छादीनां च। , ६।१।१५४

"उञ्छः, म्लेच्छः, जञ्जः, जल्पः" इति। "उछि उञ्छे (धा।पा।२९५) "म्लेच्छ अव्यक्तायां वाचि" (धा।पा।१६६२), "जज जजि युद्धे" (धा।पा।२४२,२४३), "जप जल्प व्यक्तायां वाचि" (धा।पा।३९७,३९८)। जञ्जेः कुत्वाभावो निपातनात्()। "जपो व्यध इत्यवन्तौ" इति। तत्र "व्यघजपोरनुपसर्गे" ३।३।६१ इत्यबन्तत्वम्()। बधशब्दो हि "हनश्च वधः" ३।३।७६ इति। "तयोर्धातुसवरः प्राप्तः" इति। "धातोः" ६।१।१५६ इत्युदात्तत्वम्()। "व्यधः" इति। "व्यध ताडने" (धा।पा।११८१)। अत्रापि व्यधजपोरित्यबन्तत्वम्(), पूर्ववद्धातुस्वरः प्राप्तः। "कालविशेषे" इति। कृतद्वापरादौ। "रथाद्युपकरणे च" इति। आदिशब्देन हलादेग्र्रहणम्()। "गरः" इति। "गृ निगरणे" (धा।पा।१४१०)। "ऋदोरप्()" ३।३।५७ इत्यबन्तः। "विषम्()" इत्यनेन दूष्यशब्दस्य विशेषे वृतिं()त दर्शयति। "अन्यत्राद्युदात्त एव" इति। धातुस्वरेण। "वेदवेगवेष्टबन्धाः" इति। "विद ज्ञाने (धा।पा।१०६४) "विचिर्? पृथगभावे" (धा।पा।१४४२) "वेष्ट वेष्टने" (धायपा।२५५) "बन्ध बन्धने" (धा।पा।१५०८)। एभ्यो यथायोगं पर्याद्युपसर्गपूर्वेभ्यः क्विप्(), प्रादसमासः। "अन्यत्र मध्योदात्तः" इति। वत्र्तनिशब्दो हि "अर्त्तिसृ()घृ()" (द।उ।१।२) इत्यतोऽनिप्रत्ययेऽनुवत्र्तमाने "वृतेश्च" (द।३।१।६) इत्यनेन "वृतु वत्र्तने (धा।पा।७५८) इत्येतस्मादनिप्रत्ययमुत्पाद्य व्युत्पाद्यते। तस्मात्? प्रत्ययस्वरेण मध्योदात्तो भवति। "दरः" इति। "दृ विदारणे" (धा।पा।१४९३) ऋकारान्तत्वादबन्तः। "साम्बतापौ भावग्रर्हायाम्()" इति। सहाम्बया वर्तत इति साम्बः, "बहुव्रीहौ प्रकृत्या पूर्वपदम्()" ६।२।१ इति प्रकृतिस्वरेण सहशब्दस्य "निपाता आद्युदात्ताः" (फि।सू।४।८०) इत्युदात्तत्वे प्राप्ते भावगर्हायामन्तोदात्तत्वं विधीयते। साम्बो भिक्षते। भिक्षणमत्र भावग्रर्हा। तपनं तापः "तप सन्तापे" (धा।पा।९८५) इत्यस्माद्घञ्()। आद्युदात्तत्वे प्राप्ते वचनम्()। तापो दस्यूनां धार्मिकेषु भावगर्हायामिति किम्()? साम्बस्तिष्टति, तापो महान्? ग्रीष्मस्य। अनयोराद्युदात्तत्वमेव। "उत्तमश()आत्तमौ" इति। एतौ तमप्प्रत्ययान्तो। पित्त्वात्? प्रत्ययस्यानुदात्तत्वे उच्छब्दस्य "निपाता आद्युदात्ताः" (फि।सू।४।८०) इत्युदात्तत्वमित्यत आद्युदात्तत्वे प्राप्तेऽन्तोदात्तार्थमुत्तमशब्दः पठ()ते। श()आच्छब्दोऽपि प्रतिपदिकस्वरेणान्तोदात्तः, ततो मध्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थमेव पठ()ते। "सर्वत्र" इति। भावगर्हायाम्(), अन्यत्र च। "भक्ष--मन्थ" इत्यादि। "भक्ष भक्षणे" (धा।पा।१५५७), [भक्ष अदने--धा।पा।] "मन्थ विलोडने" (धा।पा।४२) "भुजकौटिल्ये" (धा।पा।१४१७), [भुजो--धा।पा।] "दिह उपचये" (धा।पा।१०१५)। ननु भक्षिश्चुरादित्वाण्ण्यन्त इति तत्? "एरच्()" ३।३।५६ इत्यचा भवितव्यम्(), तत्? कथमसौ घञन्तः? इत्याह--"भक्षिण्र्यन्तोऽपि" इत्यादि। अत्रैव कारणमाह--"एरजण्यन्तानाम्()" इति॥