पूर्वम्: ६।२।१३८
अनन्तरम्: ६।२।१४०
 
सूत्रम्
उभे वनस्पत्यादिषु युगपत्॥ ६।२।१३९
काशिका-वृत्तिः
उभे वनस्पत्यादिषु युगपत् ६।२।१४०

प्रकृत्या इति वर्तते। वनस्पत्यादिषु समासेषु उभे पूर्वोत्तरपदे युगपत् प्रकृतिस्वरे भवतः। वनस्पतिः। वनपतिशब्दावाद्युदात्तौ, पारस्करप्रभृतित्वात् सुट्। बृहस्पतिः। बृहतां पतिः। तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च इति सुट् तकारलोपश्च। बृहदित्येतदन्तोदात्तं निपातयन्ति। तस्य केचिदाद्युदात्तत्वं वर्णयन्ति। शचीपतिः। शचीशब्दः कृदिकारादक्तिनः इति ङीषन्तत्वादन्तोदात्तः। केचित् तु शार्ङ्गरवादिसु पठन्ति तेषाम् आद्युदात्तः। तनूनपात्। तनोतेरौणादिकः ऊप्रत्ययः, तेन तनूशब्दो ऽन्तोदात्तः। न पाति न पालयति वा नपात् क्विबन्तः। नभ्राण्नपाद् ६।३।७४ इत्यादिना आद्युदात्तो निपातितः। तन्वा नपात् तनूनपात्। नराशंसः। नरा अस्मिनासीनाः शंसन्ति, नरा एवं शंसन्ति इति वा नराशंसः। नृ̄ नये। अबन्तो नरशब्दः आद्युदात्तः। शंसशब्दो ऽपि घञन्तः। अन्येषाम् अपि दृश्यते इति दीर्घत्वम्। शुनःशेपः। शुन इत्व शेपः अस्य इति बहुव्रीहिः। तत्र शेपपुच्छलाङ्गूलेषु शुनः संज्ञायाम् ६।३।२० इति षष्ठ्या अलुक्। उभावाद्युदात्तौ। शण्डामर्कौ। शण्डमर्कशब्दौ घञन्तत्वादाद्युदात्तौ। तयोर् द्वन्द्वे अन्येषाम् अपि दृश्यते इति दीर्घत्वम्। तृष्णावरूत्री। तृष्णाशब्द आद्युदात्तः। वरूत्रीशब्दो ग्रसितादिसूत्रे निपातितो ऽन्तोदात्तः। तत्र द्वन्द्वे दीर्घत्वं पूर्ववत्। बम्बाविश्ववयसौ। बम्बशब्दो ऽन्तोदात्तः। विश्ववयःशब्दो ऽपि बहुव्रीहौ विश्वं संज्ञायाम् ६।२।१०६ इति विश्वशदो ऽन्तोदात्तः। तयोर् द्वन्द्वे दीर्घत्वं पूर्ववत्। मर्मृत्युः। मरिति मृञो विच्प्रत्ययः। मृत्युशब्दो ऽन्तोदात्तः। द्वन्द्वानामदेवताद्वन्द्वार्थो ऽनुदात्ताद्युत्तरपदार्थश्च वनस्पत्यादिषु पाठः।
न्यासः
उभे वनस्पत्यादिषु यूगपत्?। , ६।२।१३९

वनशब्दः "नब्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इत्याद्युदात्तः। पतिशब्दोऽपि प्रत्ययस्वरेण। स "पातेर्डतिः" (द।उ।१।२७) इति डतिप्रत्ययान्तः। "बृहदित्यन्तोदात्तम्? इत्यादि। बृहच्छब्दः "वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च" (द।उ।६५) इति केवलमन्तोदात्तो यदयपि निपात्यते, तथापि बृहस्पतिरित्यत्राद्युदात्तत्वं निपातयति। "तनोतेरौणादिक ऊप्रत्ययः" इति। "कषिचमितनिषनिसर्जिखर्जिभ्यौउः" (पं।उ।१।८२) इत्यनेन तनू शब्दोऽन्तोदात्तः। न पाति न पालयतीत्यनेन "पा रक्षणे" (धा।पा।१०५६) इत्यसमान्नपादित्येतन्निपात्यत इति दर्शयति। न पातयतीत्यनेनापि। "नलोपो नञः" ६।३।७२ ति नलोपः प्राप्नोति, "नभ्रान्नपात्()" ६।३।७४ इत्यादिना प्रकृतिभावान्न भवति। "नरा अस्मिन्नासीनाः शंसन्ति" इति। एतेनाधिकरणसाधनं शंसशब्दं दर्शयति। एवं शंसन्तीत्यनेनापि कर्मसाधनम्()। "शंस स्तुतौ" (धा।पा।७२८) इत्यस्मात्? "अंकत्र्तरि च कारके" ३।३।१९ इति घञ्()। "अबन्तः" इति। "ऋदोरप्()" ३।३।५७ इत्यनेन। "शुनःशेपः" इति। बहुव्रीहिरयम्()। तेनात्र पूर्वपदस्य प्रकृतिभावे प्राप्ते वचनम्()। "उभावाद्युदात्तौ" इति। तत्र ()आञ्शब्दः "()आन्नुक्षन्()" (द।उ।६।५५) इत्यादिना कनिन्प्रत्ययान्तो व्युत्पाद्यते। शेपशब्दो "वृङ्शीङभ्यां रूपस्वाङ्गयोः पुट्? च्()" (द।उ।९।६१) इत्यसुन्()प्रत्ययान्तो व्युत्पाद्यते, तेन द्वावपि तावाद्युदात्तौ। "शण्डपर्कशब्दौ" इति। "शडि रुजायाम्()" (धा।पा।२७९) इत्यस्य घञि शण्ड इति भवति। "पृची सम्पर्के" (धा।पा।१४६२) इत्यस्यापि तत्रैव परक इति भवति। "तृष्णाशब्द आद्युदात्तः" इति। स हि तृषेर्निष्ठायां व्युत्पद्यते। तेन "निष्ठा च द्व्यजनात्()" ६।१।१९९ इत्याद्युदात्तः। "वम्बशब्दः" इति। "लवि अवरुआंसने" (धा।पा।३७९) [लबि अवरुआंसने च--धा।पा।] अस्य पचाद्यचि व्युत्पादित्वादस्मादेव निपातनाद्वत्त्वम्()। "वि()आवयःशब्दः" इति। वि()आं वयो यस्येति बहुव्रीहिः। तत्र "बहुव्रीहौ वि()आं संज्ञायाम्()" ६।२।१०६ इति वि()आशब्दोऽन्तोदात्तः। "तयोः" इति। वम्बवि()आयःशब्दयोः। "मृङो विच्प्रत्ययः" [मृञः--काशिका। मृडः--पदमञ्जरी] इति। "विजुपे छन्दसि" ३।२।७३ इत्यतो विजित्यनुवर्तमाने "अन्येभ्योऽपि दृश्यते" ३।२।७५ [दृश्यन्ते--काशिका।] इति विच्()। "मृत्युशब्दोऽन्तोदात्तः" इति। "भुजीमृङ्भ्यां युक्त्युकौ" (द।उ।१।१३५) इति त्युक्प्रत्ययान्तत्वात्()। "द्वन्द्वानाम्()" इत्यादि। येऽत्र द्वन्द्वाः, तेषामदेवताद्वन्द्वार्थः पाठः। देवताद्वन्द्वे हि "देवताद्वन्द्वे च" ६।२।१४० इत्यनेनैव सिद्धम्()। "अनुदत्ताद्युत्तरपदार्थश्च" इति। द्वन्द्वानां पाठः। यदि हि तेषामिह पाठो न स्यात्(), तदा "नोत्तरपदेऽनुदात्तादौ" ६।२।१४१ इति प्रतिषेदादन्तोदात्तत्वं स्यात्()॥