पूर्वम्: ६।३।६०
अनन्तरम्: ६।३।६२
 
सूत्रम्
एक तद्धिते च॥ ६।३।६१
काशिका-वृत्तिः
एक तद्धिते च ६।३।६२

एकशब्दस्य तद्धिते उत्तरपदे ह्रस्वो भवति। एकस्या आगतम् एकरूप्यम्। एकमयम्। एकस्य भावः एकत्वम्। एकता। उत्तरपदे एकस्याः क्षीरम् एकक्षीरम्। एकदुग्धम्। लिङ्गविशिष्टस्य ग्रहणम् एकशब्दह्रस्वत्वं प्रयोजयति। अचा हि गृह्यमाणम् अत्र विशेष्यते, न पुनरच् गृह्यमाणेन इति।
न्यासः
एक तद्धिते च। , ६।३।६१

"एकरूप्यम्()" इति। "हेतुमनुष्यभ्योऽन्यतरस्यां रूप्यः" ४।३।८१ इति रूप्यः। "एकमयम्()" इति। "मयट्? च" ४।३।८२ इति, मयट्()। "एकत्वम्(), एकता" इति। " तस्य भावसत्वतलौ" ५।१।११८ इति त्वतलौ। यदैकशब्दः संख्यापरो भवति तदैतदुदाहरणम्()। यदा संख्येयपरो भवति। तदा "त्वलोर्गुणवचनस्य" (वा।७३०) इति पुंवद्भावेनैव सिद्धम्()। ननु च गुणमुक्तवान्? गुणवचनः, यश्च गुणमात्रमभिधाय तद्विशिष्टं द्रव्यमाह स गुणवचनो भवति। तद्यथा--कृष्णः पटः, शुक्लः पट इति; अयं पुनरेकशब्दो न क्वचिदपि द्रव्यव्यतिरिक्तं गुणमाह, सर्वदा संख्येये द्रव्ये वर्तत इति कृत्वा, तत्? कुतोऽसय पुंवद्भावः? अयुक्तमिदमभिधीयते; तथा हि--प्रसिद्धमामाश्रित्यैकादयः संख्येयवचना इत्युच्यन्ते, न त्वेषां संख्याने वृत्तिर्नाभ्युपेयेति। तथा हि--"द्व्येकयोर्द्विवचनैकवचने" १।४।२२ इत्यत्र त्वेकशब्दः संख्यायामेव प्रयुक्तो न संख्येये द्रव्ये। "लिङ्गविशिष्टस्य" इत्यादि। पुंल्लिङ्गो य एकशब्दः स स्वभावत एव ह्यस्वान्त इति न तद्ग्रहणं प्रयोजयति, अपि तु स्त्रीलिंगविशिष्टस्यैव। तस्यैव हि ह्यस्वत्वं विधीयमानमर्थवद्भवति। ननु नैतस्याप्येकशब्दस्य य एकारस्तस्य ह्यस्वत्वं विधीयमानमर्थवद्भवति, तत्? किमुच्यते लिङ्गविशिष्टस्यैकशब्दस्य ग्रहणं प्रयोजयति? इत्याह--"अचा गृह्रमाणम्()" इत्यादि। विशेषणविशेष्यभावं प्रति कामचारः। तथा ह्रुक्तम्()--विशेषणविशेष्यभावयोर्यथेष्टत्वादिति। तत्र यदि गृह्रमाणेनैकशब्देनाज्विशिष्यते--एकशब्दस्य योऽजिति, तदैकसम्बन्धिन एकारस्य हरस्वत्वं विधीयमानमर्थवद्भवति। पुंल्लिङ्गस्याप्येकशब्दस्य ग्रहणं प्रयोजति। न चात्र गृह्रमाणेनाज्विशिष्यते; एकारस्य ह्यसवस्यानिष्टत्वात्()। न ह्रनिष्टार्था शास्त्रे प्रक्लृप्तिर्युक्ता (भो।प।सू।१०७), तस्मादाचा गृह्रमाण एकशब्दोऽत्र विशिष्यते। तेन लिङ्गविशिष्टस्य ग्रहणम्()। एकशब्दस्य ह्यस्वो भवति, किं विशिष्टस्चाचः? अजन्तस्येत्यर्थः। तत्रालोऽन्त्यस्यैव ह्यस्वत्वेन भवितव्यम्(), तच्च टाबन्तस्यैव सार्थकम्(), न पुंल्लिङ्गस्य; न हि ह्यस्वस्यैव ह्यस्वे विधीयमाने कश्चिदर्थः सिध्यति। इतिकरणो हेतौ। यत एव#आचा गृह्रमाण एकशब्दोऽत्र विशिष्यते, तेन लिङ्गविशिष्टस्य ग्रहणमेकशब्दस्य प्रयोजयति॥
बाल-मनोरमा
एकतद्धिते च ९८५, ६।३।६१

एक तद्धिते च। एकेति लुप्तषष्ठीकम्। तदाह--एकशब्दस्येति। "स्त्रीप्रत्ययान्तस्ये"ति शेषः, अन्यथा ह्यस्वविधिवैयथ्र्यात्। उत्तरपदे चेति। चकारात्तदनुकर्ष इति भावः। एकरूप्यमिति। "हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः"। एकक्षीरमिति। एकश्याः क्षीरमिति विग्रहः।

तत्त्व-बोधिनी
एकतद्धिते च ८३९, ६।३।६१

एक तद्धिते च। "एके"ति लुप्तषष्ठीकं, तदाह---एकशब्दस्योति। ह्यस्वविधानमस्य टाबन्ते एवोपयुज्यते न तु केवले, स्वभावत एव ह्यस्व त्वादतो व्याचष्टे---एकस्या आगतमित्यादि।