दृक् दृश वतु इत्येतेषु परतः समानस्य स इत्ययम् आदेशो भवति। सदृक्। सदृशः। त्यदादिषु दृशो ऽनालोचने कञ्च
३।२।६० इत्यत्र समानान्ययोश्चेति वक्तव्यम् इति कञ्क्विनौ प्रत्ययौ क्रियेते।
दृक्षे चेति वक्तव्यम्। सदृक्षः।
दृशेः क्षप्रत्ययो ऽपि तत्र एव वक्तव्यः। वतुग्रहणम् उत्तरार्थम्।
समानमात्मानं पश्यतीति सदृक्(), उपपदसमासः, "क्विन्प्रत्ययस्य कुः"
८।२।६२ इति कुत्वम्()। कथं पुनरिह कञ्क्विनौ, यावता त्यदादिषूपपदेषु तौ विहितौ,
न च समानशब्दस्त्यदादिषु पठ()ते? इत्यत आह--"त्यदादिषु" इत्यादि।
"वृक्षे चेति वक्तव्यम्()" इति। दृक्षशब्दे चोत्तरपदे समानस्य सभावो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः।
तत्रेदं व्याख्यानम्()---पूर्वकाद्योगविभागाद्? दृक्षिऽपि भविष्यतीति। अत एव तत्र
६।३।८३ वृत्ति कृतोक्तम्()--एवमादयः सिद्धा भवन्तीति।
केन पुनरतर दृशेः क्सप्रत्ययो विहितो येन दृक्षशब्द उत्तरपदं भवति? इत्यत आह--"दृशेः क्सप्रत्ययोऽपि" इत्यादि। "तत्रैव" इति। "त्यदादिषु"
३।२।६० इत्यादौ सूत्रे। अथ वतुग्रहणं किमर्थम्(),
यावता समानशब्दादुत्तरो वतुप्? न सम्भवत्येव, स हि "यत्तदेतेभ्यः परिमाणे वतुप्()" (५।२।
३९) इति यदादिभ्य एव विहतः? इत्याह--"वतुब्ग्रहणमुत्तरार्थम्()" इति॥
दृग्दृषवतुषु। "समानस्य स" इति शेषः। सदृक् सदृश इति। समानो दृश्यते इत्यर्थे "समानाऽन्ययोश्चे"ति दृशेः क्विन्, कञ् च।
दृक्षेचेति। "समानस्य सत्व"मिति शेषः। सदृक्ष इति। क्सोऽपि इति दृशेः क्सः। वतुरुत्तरार्थ इति। यत्तदेतेभ्यः परिमाणे वतुपः समानशब्दादसंभवादिति भावः।