पूर्वम्: ६।४।१५१
अनन्तरम्: ६।४।१५३
 
सूत्रम्
क्यच्व्योश्च॥ ६।४।१५२
काशिका-वृत्तिः
क्यच्व्योश् च ६।४।१५२

क्य च्वि इत्येतयोश्च परतः आपत्ययकारस्य हल उत्तरस्य लोपो भवति। वात्सीयति। गार्गीयति। वात्सीयते। गार्गीयते। च्वौ गार्गीभूतः। वात्सीभूतः। आपत्यस्य इत्येव, साङ्काश्यायते। साङ्काश्यभूतः। हलः इत्येव, कारिकेयीयति। कारिकेयीभूतः।
न्यासः
क्यच्व्योश्च। , ६।४।१५२

अतद्धितार्थोऽयमारम्भः। "क्य" इति क्यच्क्यङोः सामान्येन ग्रहणम्()। "गार्गीयति इति। "सुप आत्मनः क्यच्()" ३।१।८, "क्यचि च" ७।४।३३ इतीत्त्वम्()। "गार्गीयः" इति। "कर्त्तुः क्यङ सलोपश्च" ३।१।११ इति क्यङ, "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घः। "गार्गीभूतः" इति। "अभूततद्भावे" ५।४।५० इति च्विः, "अस्य च्वौ" ७।४।३२ इतीत्त्वम्()॥
बाल-मनोरमा
क्यच्व्योश्च , ६।४।१५२

गार्गीभवतीति वक्ष्यन्नाह--क्यच्व्योश्च। "अल्लोपोऽनः" इत्यस्माल्लोप इति, "हलस्तद्धितस्ये"त्यस्माद्धल इति , "सूर्यतिष्ये" त्यतो य इति, "आपत्यस्य चे"त्यस्मादापत्यस्येति चानुवर्तते। तदाह--हलः परस्येति। गार्गीभवतीति। आगाग्र्यो गार्ग्यः संपद्यमानो भवतीत्यर्थः। यञन्ताच्च्वौ यकारस्य लोपः। वेर्लोपः। यकारस्य तु "आपत्यस्य चे"ति लोपो न सम्भवति, ईकारेण व्यवधानात्। "हलस्तद्धितस्ये"त्यपि न सम्भवति, तस्य ईति अर्थवत्येव विधानात्। अतो वचनमिति भावः।

तत्त्व-बोधिनी
क्यच्व्योश्च १५७७, ६।४।१५२

गार्गीभवतीति। इह यञन्तात्सुपि ततः च्विप्रत्यये कृते "आपत्यस्य च तद्धितेऽनाती"ति यलोपो न भवति, ईकारेण व्यवधानादिति बोध्यम्।