पूर्वम्: ६।४।१५२
अनन्तरम्: ६।४।१५४
 
सूत्रम्
बिल्वकादिभ्यश्छस्य लुक्॥ ६।४।१५३
काशिका-वृत्तिः
बिल्वकाऽदिभ्यश् छस्य लुक् ६।४।१५३

नडादिषु बल्वादयः पठ्यन्ते। नडादीनां कुक् च ४।२।९० इति कृतकुगागमा बिल्वकादयो भवन्ति। तेभ्यः उत्तरस्य छस्य भस्य तद्धिते परतो लुग् भवति। बिल्वा यस्यां सन्ति बिल्वकीया, तस्यां भवाः बैल्वकाः। वेणुकीया वैणुकाः। वेत्रकीया वैत्रकाः। वेतसकीया वैतसका। तृणकीया तार्णकाः। इक्षुकीया ऐक्षुकाः। काष्ठकीया काष्ठकाः। कपोतकीया कापोतकाः। क्रुञ्चायां ह्रस्वत्वं च। क्रुञ्चकीया क्रौञ्चकाः। छग्रहणम् किम्? छमात्रस्य लुग् यथा स्यात्, कुको निवृत्तिर् मा भूतिति। अन्यथा हि संनियोगशिष्टानाम् अन्यतरापाये उभयोरपि अभावः इति कुगपि निवर्तेत। लुग्ग्रहणं सर्वलोपो यथा स्याद्, यकारमात्रस्य मा भूत्।
न्यासः
बिल्वकादिभ्यश्छस्य लुक्?। , ६।४।१५३

"बिल्वकदिभ्यः" इति। आगन्तुकेनाकारेण निर्देशः। "बिल्वकीया" इति। "उत्करादिभ्यश्छः" ४।२।८९ "नडादीनां कुक्च" ४।२।९० इति चातुरर्थिकश्छः, कुगागमः। "बैल्वकाः" इति। "प्राग्दीष्यतेऽण्()" ४।१।८३। अथ छग्रहणं किमर्थम्(), यावता कृतकुगागमा बिल्वकीदयो गृहीताः, एभ्यश्छप्रत्ययः सम्भवतीत्यन्तरेणापि छग्रहणं छस्यैव लोपो भवितव्यतीति? अत आह--"छग्रहणम्()" इत्यादि। यदि छग्रहणं न क्रियेत, तदा सन्नियोगशिष्टपरिभाषया (ह।भा।१४) छकारे निवर्तमाने कुको निवृत्तिः स्यात्()। तस्याश्च परिभाषया एतेदेव छग्रहणं ज्ञापकम्()। अथ लुग्ग्रहणं किमर्थम्(), प्रकृत एव लोपो विधीयते? इत्यत आह--"लुग्ग्रहणम्()" इत्यादि। यकारग्रहणमेकदेशोपलक्षणार्थं द्रष्टव्यम्()। स हि लोप उपधाया इत्यनेन सम्बद्ध इति तस्मिन्ननुवर्तमाने "य उपधायाः" ६।४।१४९ इत्येतदप्युनुवत्र्तेत, छस्येयादेशे कृते यकारमात्रस्य स्यात्()। अथापि "उपधायाः" इत्येतन्नानुवत्र्तेत? एवमपि "आदेः परस्य" १।१।५३ इतीकारमात्रस्य स्यात्()। "लुग्ग्रहणम्()" इति। लुगिति प्रत्ययादर्शनस्यैषा संज्ञा, न तु प्रत्यस्यैकदेशस्यादर्शनस्येति। लुग्ग्रहणे सति सर्वस्यैव लुक्? सिद्ध्यति। तद्रथं हि लुग्ग्रहणम्()॥
बाल-मनोरमा
विल्वकादिभ्यश्छस्य लुक् ३८९, ६।४।१५३

बिल्वरादिभ्यः। षाष्ठमिदं सूत्रम्। बिल्वकादीति-नडाद्यन्तर्गबिल्वादीनां कृतकुगागमानां निर्देशः। ककारादकार उच्चारणार्थः। तद्धिते इति। "आपत्यस्य च तद्धिते" इत्यतस्तदनुवृत्तेरिति भावः। बिल्वकीयेति। "नडादीनां कुक्चे"ति छः। प्रकृते कुक्च। बैल्वका इति। बिल्वकीयशब्दाद्भवार्थे अण्। तस्मिन्परे छस्य लुगिति भावः। वेत्रकीया इति। वैत्राणि अस्यां सन्तीत्यर्थे नडादित्वाच्छः, प्रकृते कुक्चेति भावः। वैत्रका इति। वेत्रकीयायां भवा इत्यर्थः। वेत्रकीया शब्दादणि छस्य लुगिति भावः। छस्य किमिति। एभ्यः परस्य छस्यैव संभव इति प्रश्नः। संनियोगेति। "संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्ति"रिति न्यायेनेत्यर्थः। "ढे लोपोऽकद्र्वाः" इत्यतो लोप इत्यनुवृत्त्यैव सिद्धे लुग्ग्रहणं किमर्थमित्यत आह--लुग्ग्रहणं सर्वलोपार्थमिति। प्रत्ययाऽदर्शनस्यैव लुक्शब्दार्थत्वात्कृत्स्नस्य ईयस्य लोपो लभ्यते इति भावः। लोपविधौ तु नैवं लभ्यते इत्याह--लोपो हीति। लोपविधौ "सूर्यतिष्ये"त्यतो "य उपधायाः" इत्यनुवृत्तौ बिल्वादिभ्यः परस्य छादेशभूतस्य ईयस्य उपधाभूतो यो यकारस्तस्य लोप इत्यर्थलाभाद्यकारमात्रस्य लोपः स्यात्। "यः उपधायाः" इत्यननुवृत्तौ तु "आदेः परस्ये"ति ईकारस्यैव लोपः स्यादिति भावः। द्यकारमात्रस्य लोपः स्यात्। "य उपधायाः" इत्यनननुवृत्तौ तु "आदेः परस्ये"ति ईकारस्यैव लोपः स्यादिति भावः।

*****इति बालमनोरमायाम् चातुरर्थिकाः।*****

तिङन्ते चुरादयः

अथ स्वार्थिकणिजन्ताश्चुरादिधातवो निरूप्यन्ते। चुर स्तेये इति। रेफादकार उच्चारणार्थः, न त्वित्संज्ञकः, प्रयोजनाऽभावात्, "णिचश्च" ति पदव्यवस्थाया वक्ष्यमामत्वाच्च। एवमग्रेऽपि।