पूर्वम्: ६।४।८
अनन्तरम्: ६।४।१०
 
सूत्रम्
वा षपूर्वस्य निगमे॥ ६।४।९
काशिका-वृत्तिः
वा षपूर्वस्य निगमे ६।४।९

षपूर्वस्य अचः नोपधायाः निगमविषये सर्वनामस्थाने परतः असम्बुद्धौ वा दीर्घो भवति। स तक्षाणं तिष्ठन्तमब्रवीत्। स तक्षणम् तिष्ठन्तमब्रवीत्। ऋभुक्षाणमिन्द्रम्। ऋभुक्षणमिन्द्रम्। निगमे इति किम्? तक्षा, तक्षाणौ, तक्षाणः।
न्यासः
वा षपूर्वस्य निगमे। , ६।४।९

अत्र दीर्घग्रहणेन "अचश्च" (१।२।२८) इत्यस्याः परिभाषाया उपस्थाने सत्यच्? सन्निधापितः। "नोपधायाः" ६।४।७ इत्यधिकारादुपधापि। "षपूर्वस्य" इति। षः पूर्वो यस्मादिति बहुव्रीहिः। तत्र यद्युपधाऽन्यपदार्थत्वेनाश्रीयेत, "षपूर्वस्य" इत्यस्त्रीलिङ्गेन निर्देशो नोपपद्यते, तस्मादजत्रान्यपदार्थत्वेनाश्रीयत इत्याह--"षपूर्वस्याचः" इत्यादि। "उपधायाः" इत्येतदचः समानाधिकरणं विशेषणम्()। ऋभुक्षाणाम्()" इति। ऋभृक्षोऽस्यास्तीति द्वितीयैकवचनम्(), "पथिमथ्यृभुक्षाणाम्()" ७।१।८५ इत्यनुवत्र्तमाने "इतोऽत्सर्वनामस्थाने" ७।१।८६ इत्यत्त्वम्()। पूर्वग्रहणमुत्तरार्थम्()। इह तु "वा षो निगमे" इत्येतावत्युच्यमाने षकारात्? परस्याचः "नोपधायाः" ६।४।७ इति विकल्पेन दीर्घत्वं लक्ष्यत एव॥
तत्त्व-बोधिनी
ऊदुपधाया गोहः १७४, ६।४।९

ऊदुपधायाः। गुणहेताविति। एतच्च "गोह" इति विकृतनिर्देशाल्लब्धम्। "अचिश्नुधात्वि"त्यतोऽनुवृत्तेनाऽचीत्यनेनाह्गाक्षिप्तप्रत्ययो विशेष्यते। विशेषणेन तदादिविधिः। तदाह-- अजादाविति।