पूर्वम्: ७।१।४५
अनन्तरम्: ७।१।४७
 
सूत्रम्
इदन्तो मसि॥ ७।१।४६
काशिका-वृत्तिः
इदन्तो मसि ७।१।४६

छन्दसि विषये मसित्ययं शब्दः इकारान्तो भवति। मसः सकारान्तस्य इकारागमो भवति, स च तस्यान्तो भवति। तद्ग्रहणेन गृह्यते इत्यर्थः। पुनस्त्वोद्दीपयामसि। उद्दीपयामः इति प्राप्ते। शलभं भञ्जयामसि। भञ्जयामः इति प्राप्ते। त्वयि रात्रिं वसामसि। वसामः इति प्राप्ते।
न्यासः
इदन्तो मसि। , ७।१।४६

"इदन्तः" इति। तकारोऽसन्देहार्थः। असति हि तकारे यणादेशे कृते "यन्तः" इति भवितव्यम्(), तत्र सन्देहः स्यात्()--किमयं यकारान्तः, उतेकारान्त इति। इद्? अन्तो यस्य इदन्तः। मसित्ययं शब्दोऽन्यपदार्थः। सकारान्तमसीत्यविभक्तिकोऽयं निर्द्देशः; "सुपां सुलुक्()" ७।१।३९ इति प्रथमैकवचनस्य लुप्तत्वात्()। इकार उच्चारणार्थः। भसीत्ययं शब्द इकारान्तो भवतीत्यस्यार्थं "मसः सकारान्तस्य" इत्यादिना व्यक्तीकरोति। "सकारान्तस्य" इत्यनेन मन्त्रं वोचेमेत्यत्राकारान्तस्य न भवतीति दर्शयति। कथं पुनः सकारान्तस्योपादानेऽसकारान्तस्य प्राप्नोति? एकदेशविकृतस्यानन्यत्वात्()। यद्येवम्(), कस्मान्न भवति? छन्दसि यथादृष्टानुविधानात्()। अपौत्यधिकाराद्वा। "वोचेम" इति। वचेः परस्याशिषि लिङो मस्(), यासुट्(), "लिङ्याशिषि" ३।१।८६ इत्यङ्(), "अतो येयः" ७।२।८० इतीयादेशः, वचेः परस्याशिषि लिङो मस्(), यासुट्? "लिङ्याशिषि" ३।१।८६ इत्यङ्(),तो येयः" ७।२।८० इतीयादेशः, "वच उम्()" ७।४।२० इत्युमागमः। "छन्दस्युभयथा" (३।४।११७) इति सार्वधातुकत्वात्? "लिङः सलोपोऽनन्त्यस्य" ७।२।७९ इति सलोपः, "नित्यं ङितः" ३।४।९९ इत्युत्तमस्य सलोपः, "लोपो व्योर्वलि" ६।१।६४ इति यकारसय च, "आदगुणः" ६।१।८४। "आगम इकारो भवति" इति। कथम्पुनरयमागमः? कथञ्च न स्यात्()? आगमलिङ्गाभावात्()। टित्त्व--कित्त्व-मित्त्वान्यागमलिङ्गानि, अत्र चैषामेकमपि नास्ति, ततो नासावागमः, यथा--"अस्तेर्भूः" २।४।५२ इति भूभावः। यद्येवम्(), "न य्वाभ्यां पदान्ताभ्यां पूर्वौ च ताभ्यामैच्()" ७।३।३ इत्यैजागमो न स्यात्()। अथ पूर्वग्रहणात्? तस्यागमत्वमवसीयते? अस्याप्यन्तग्रहणादवसीयताम्()। यथैव हि पूर्वशब्दोऽवयववचनो नियतदेशमदयवमाचष्टे, तथान्तशब्दोऽपीति समानमेतत्()। "स च तस्यान्तो भवति" इति। अन्त एकदेशोऽवयव इति यावत्()। अत एवासौ तद्गरहणेन गृह्रत इत्याह--"तद्ग्रहणेन च प्रयोजनम्()--पृथक्? स्वरनिवृत्तिरिति; "तिङ्ङतिङा" ८।१।२८ इति निघातश्च। "मस इक्()" इति नोक्तम्(); असन्देहार्थम्()। एवं ह्रुच्यमाने सन्देहः स्यात्()--किमिगागमः, उत प्रत्याहार इति। "दीपयामसि, जम्भयमसि" इति। "दीपी दृप्तौ" (धा।पा।११५०),जभि जृभी गात्रविनामे"["जभी, जृभि--धा।पा] (धा।पा।३८८,३८९)--आभ्यां णायन्ताभ्यां लट्(), "रधिजभोरचि" ७।१।६१ इति लुम्()। क्वचित्? भञ्जयामसीति पाठः। स च "भञ्जो आमर्दने" (धा।पा।१४५३) इत्यस्य ण्यक्तस्य वेदितव्यम्()॥