पूर्वम्: ७।२।२५
अनन्तरम्: ७।२।२७
 
सूत्रम्
णेरध्ययने वृत्तम्॥ ७।२।२६
काशिका-वृत्तिः
णेरध्ययने वृत्तम् ७।२।२६

ण्यन्तस्य वृत्तेर् निष्ठायाम् अध्ययनार्थे वृत्तम् इति इडभावः णिलुक् च निपात्यते। वृत्तो गुणे देवदत्तेन। वृत्तं पारायणं देवदत्तेन। अध्ययने इति किम्? वर्तितम् अन्यत्र। वृतिरयम् अकर्मकः, स ण्यर्थे वर्तमानः सकर्मको भवति। तेन निर्वृत्तम् इति हि प्रकृटेरेव कर्मणि क्तप्रत्ययो दृश्यते। तद्वदिह अपि ण्यर्थवृत्तेरेव च वृतेः वृत्तो गुणो देवदत्तेन इति भविष्यति इति निपातनम् अनर्थकम्? तत् क्रियते यदापि णिचैव ण्यर्थो ऽभिधीयते तदावर्तितम् इत्यध्ययने मा भूतिति केचित्। अपरे तु वर्तितो गुणो देवदत्तेन इत्यपि इच्छन्ति।
न्यासः
णेरध्यायने वृत्तम्?। , ७।२।२६

"अध्ययनम्()" इति। "कृत्यल्युटो बहूलम्()" ३।३।११३ इति ल्युट्()। अधीयत इत्यध्ययनम्()--कर्मसाधनोऽध्ययनशब्दः। भावसाधने हि वृत्तो गुणो देवदत्तेनेति न स्यात्(), वृत्तं गुणस्य देवदत्तेनेति स्यात्()। निष्ठाविशेषणञ्चैतत्()। अध्येतव्याभिधायिन्यां निष्ठायामित्यर्थः। "णिलुक्? च" इति। णिलुग्निपातनं प्रत्ययलक्षण प्रतिषेधार्थम्()। लोपे हि प्रतययलक्षणेन गुणः स्यात्()। लुकि सति "न लुमताङ्गस्य" १।१।६२ इति प्रत्ययलक्षणप्रतिषेधाद्गुणो न स्यात्()। "वृत्तो गुणः" इति। गुणः कश्चिदेवाध्ययनविशेष इहोच्यते। "वृत्तिरयमकर्मकः" इति। दृतं गुणस्य, वृत्तं पारायणस्येति भावे निष्ठादर्शनात्()। अकर्मकाणां हि भावे निष्ठा भवति, न सकर्मकाणाम्()। "स ण्यर्थे" इत्यादि। सोऽन्तर्भावितण्यर्थो यदा भवति तदा प्रकृत्यन्तो ण्यर्थे वत्र्तमानः सकर्मको भवति, यथा--वद्र्धन्तु त्वां सुष्टुतय इत्यत्र वृधिः। कथमेतद्विज्ञायते? इत्याह--"तेन निर्वृत्तम्()" इत्यादि। न चैतद्वक्तव्यम्()--अकर्मका इति। "धातवः सोपसर्गाः सकर्मका भवन्ति" इति सोपसर्गत्वादिह वृत्तेः सकर्मकत्वम्()। न तु ण्यर्थवृत्तित्वादिति कृतो ण्यर्थावगतिः? यदि सोपसर्गात्वादिह वृत्तेः सकर्मकत्वं स्यान्न ण्यर्थवृत्तित्वात्(), ततो यथानुभूतः क्मबलो देवदत्तदेनेत्यत्र ण्यर्थो न गम्यते, तथा तेन निर्वृत्तः इत्यत्रापि न गम्येत; गम्यते च, तस्माण्णयर्थवृत्तित्वादेव वृत्तेः सकर्मकत्वम्()। यदा च ण्यर्थवृत्तर्भवति तदा प्रयोजकव्यापारापेक्षयाऽस्य कत्र्ता कर्मभावभापद्यत इति। तेन प्रयोज्येन कर्मणा सकर्मको भवति। "तद्वदिहापि" इत्यादि। यस्मादेवाकर्मकोऽपि स न प्रकृत्यन्त एव ण्यर्थे वत्र्तमानः सकर्मको भवति तस्माद्()वृत्तो गुणो देवदत्तेनेत्यत्रापि ण्यर्थवृत्तेरेव कर्मणि क्तप्रत्ययो भविष्यति। ततश्च निपातनमनर्थकं स्यात्()। विनाऽपि तेन सिद्धत्वात्()। कथमिति चेत्()? वृत्तेः क्वाप्रत्यये "उदितो वा" ७।२।५६ इतीङ्()विकल्पे कृते निष्ठायाम्(), "यस्य विभाषा" ७।२।१५ इति प्रतिषेधात्()। यद्येवम्(), किमर्थं तदित्याह--"तत्? क्रियते" इत्यादि। कदाचिण्ण्यर्थोऽन्तर्भावितण्यर्थतया प्रकृत्यैवाभिधीयते, तत्र यदि निपातनं न क्रियेत, तदाध्ययनेऽपि वर्त्तितमिति स्यात्। तस्मादेतन्निवृत्त्यर्थं तदित्येके प्रतिपन्नः। "अपरे तु" इत्यादि। अन्ये तु वत्तितो गुण इत्यपीच्छन्ति। ण्यन्तस्याण्यन्तस्य च--वृत्तो गुण इति। तन्मतेन निपातनं न कत्र्तव्यमेव। क्रियमाणं वैचित्र्यार्थं वेदितव्यम्()॥
बाल-मनोरमा
णेरध्ययने वृत्तम् ८७३, ७।२।२६

णेरध्ययने। णिलुक् चेति। णिलोपे तु लघूपधगुणः स्यादिति भावः। अधीयमान इति। सूत्रे अध्ययनशब्दः कर्मणि ल्युडन्त इति भावः।

तत्त्व-बोधिनी
णेरध्ययने वृत्तम् ७१७, ७।२।२६

णेः। अधीयत इति अध्ययनम्। "कृत्यल्युटः" इति बहुलवचनात्कर्मणि ल्युट्। णिलुक् चेति। "निपात्यते" इति शेषः। लोपे हि प्रत्ययलक्षणेन गुणः स्यादिति भावः।