पूर्वम्: ७।२।२६
अनन्तरम्: ७।२।२८
 
सूत्रम्
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः॥ ७।२।२७
काशिका-वृत्तिः
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ७।२।२७

णेः इत्यनुवर्तते। दम् शम् पूरी दस् स्पश् छद् ज्ञपित्येतेषां ण्यन्तानां धातूनां वा अनिट्त्वं निपात्यते। दान्तः, दमितः। शान्तः, शमितः। पूर्णः, पूरितः। दस्तः, दासितः। स्पष्टः, स्पाशितः। छन्नः, छादितः। ज्ञप्तः, ज्ञपितः। इट्प्रतिषेधो णिलुक् च निपात्यते। ज्ञप्तेस् तु भरज्ञपिसनाम् इति विकल्पविधानात् यस्य विभाषा ७।२।१५ इति नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं निपातनम्।
न्यासः
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः। , ७।२।२७

"दान्तः, शान्तः" इति। "शमु दमु उपशमे" (धा।पा।१२०१,१२०३)। हेतुमण्णिच्(), णिलुगिट्प्रतिषेधयोः कृतयोः "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इति दीर्घः। ननु च णिलोपस्य स्थानिवद्भावाद्()व्यवधाने सति न प्राप्नोति? नैतदस्ति; न हि निपातनेन लोपे सति तस्य परनिमित्तत्वव्यपदेशो विद्यते, तत्? कुतः स्थानिवद्भावः! "न पदान्त" १।१।५७ इत्यादिना दीर्घविधौ स्थानिवद्भावप्रतिषेधाच्च। "दमितः, शमितः" इति। "मितां ह्यस्वः" ६।४।९२ इति ह्यस्वत्वम्()। "पूर्णः" इति। "पूरी आप्यायने" (धा।पा।१८०३)। दिवादिश्चुरादिश्च। "दस्तः" इति। "तसु उत्क्षेपे" (धा।पा।१२१२) ["उपक्षये"--धा।पा।] "दसु च" (धा।पा।१२१३)। अत्रोपधा ह्यस्वत्वमपि निपात्यते। "स्पष्टश्छन्नः" इति। "स्पश बाधनस्पर्शनयोः (धा।पा।८८७), "छद अपवारणे" (धा।पा। १९३५)। अत्रापयुपधाह्यस्वत्वमपि निपात्यते। ज्ञप्त इति। "ज्ञप मारणतोषणनिशामनेषु" (धा।पा।१६२४)["ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु--धा।पा।] इति चुरादिः, "मारणतोषणनिशामनेषु ज्ञा मिच्च" (धा।पा।८११) इति घटादिश्च, ततो णिच्()। "इट्प्रतिषेधो णिलुक्च" इति। चकारात्? क्वचिदुपधाह्यस्वत्वमपि निपात्यते॥
बाल-मनोरमा
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ८७५, ७।२।२७

वा दान्त। "णेरध्ययने वृत्त"मित्यतो णेरित्यनुवर्तते। "दमु शमु उपशमे" ण्यन्ताभ्यामिडभावो निपात्यते। "अनुनासिकस्ये"ति दीर्घः। णिलोपस्तु न स्थानिवत्, निपातनाद्दीर्घविधौ तन्निषेधाच्च। दान्तः। शान्तः। "पूरी आप्यायने" ण्यन्तात्क्तः, इडभावो निपात्यते, णिलोपः। रात्परत्वान्नत्वं, णत्वं। पूर्णः। एतेन "न ध्याख्यापृ()मूर्च्छी"त्येव सिद्धे पूर्णग्रहणं व्यर्थमित्यपास्तम्, पूरीधातोण्र्यन्तात्पूर्णरूपार्थत्वात्। "दसु उपक्षये" ण्यन्तात् इडभावो निपात्यते, उपधावृद्ध्यभावश्च। णिलोपः। "स्पश बाधने" ण्यन्तात् क्तः, इडभावो निपात्यते, उपधावृद्ध्यभावश्च। णिलोपः। स्पष्टम्। "छद अपवारणे"। ण्यन्तात्क्तः। इडभावो वृद्ध्यभावश्च निपात्यते। णिलोपः। "रदाभ्या"मिति नत्वं, -- छन्नः। "ज्ञप मिच्चे"ति चुरादिण्यन्तात् क्तः। इडभावो णिलोप इति कैयटः। ज्ञप्तः। पक्ष इति। निपातनाऽभावपक्ष इत्यर्थः। दमितः शमित इति। अमन्तत्वेन मित्त्वाद्ध्रस्वः। ज्ञापत इति। अचौरादिकस्य रूपम्। चौरादिकस्य तु ज्ञपित इत्येव।

तत्त्व-बोधिनी
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ७१९, ७।२।२७

वा दान्त। शमु दमु उपशमे, पूरी आप्यायने, दिवादिश्चुरादिश्च। दसु उपक्षये, स्पश बाधने, छद अपवारणे। ज्ञपिर्मित्संज्ञायां "मारणतोषणनिशामनेष्वि"त्युक्तः।