पूर्वम्: १।१।६०
अनन्तरम्: १।१।६२
 
प्रथमावृत्तिः

सूत्रम्॥ प्रत्ययलोपे प्रत्ययलक्षणम्॥ १।१।६१

पदच्छेदः॥ प्रत्ययलोपे ७।१ ६२ प्रत्ययलक्षणम् १।१ ६२

समासः॥

प्रत्ययस्य लोपः प्रत्ययलोपः, तस्मिन् प्रत्ययलोपे, षष्ठीतत्पुरूषः। प्रत्ययः लक्षणं यस्य कार्यस्य, तत् प्रत्ययलक्षणम्, बहुव्रीहीः।

अर्थः॥

प्रत्ययस्य लोपे सति, प्रत्ययनिमित्तं (प्रत्ययहेतुकं) कार्यं भवति।

उदाहरणम्॥

अग्निचित्। सोमसुत्। अधोक्।
काशिका-वृत्तिः
प्रत्ययलोपे प्रत्ययलक्षणम् १।१।६२

प्रत्ययनिमित्तं कार्यम् असत्यपि प्रत्यये कथं नु नाम स्यातित् सूत्रम् इदम् आरभ्यते। प्रत्ययलोपे कृते प्रत्ययलक्षणं प्रत्ययहेतुकं कर्यं भवति। अग्निचित्, सोमसुत्, अधोक्, इत्यत्र सुप्तिङोः लुप्तयोः सुप्तिङन्तं पदम् १।४।१४ इति पदसंज्ञा भवति। अधोकिति दुहेः लङि तिपि शब्लुकि तिलोपे घत्वभष्भावजश्त्वचर्त्वेषु कृतेषु रूपम्। प्रत्यय इति वर्तमाने पुनः प्रत्ययग्रहणं किम्? कृत्स्नप्रत्ययलोपे यथा स्यात्। इह मा भूत् आघ्नीय। सङ्ग्मीय। हनिगम्योर् लिङात्मनेपदे लिङः सलोपो ऽनन्त्यस्य ७।२।७९ इति सीयुट्सकारलोपः प्रत्ययैकदेशलोपः, तत्र प्रत्ययलक्षणेन झलि इत्यनुनासिकलोपो न भवति ६।४।३७ प्रत्ययलक्षणम् इति किम्? रायः कुलं रैकुलम्। गवे हितम् गोहितम्। आयवादेशौ न भवतः वर्णाऽश्रयत्वात्।
लघु-सिद्धान्त-कौमुदी
प्रत्ययलोपे प्रत्ययलक्षणम् १९०, १।१।६१

प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते॥
न्यासः
प्रत्ययलोपे प्रत्ययलक्षणम्। , १।१।६१

"प्रत्ययलक्षणम्" इति। प्रत्ययो लक्षणं यस्येति कार्येऽन्यपदार्थे बहुव्रीहिः। प्रत्ययनिमित्तमित्यादिना सूत्रारम्भस्य प्रयोजनमाह। ननु च स्थानिवद्भावनाप्येतत् सिध्यति, नैतदस्ति; अलाश्रयमपि हि प्रत्ययलोपे प्रत्ययलक्षणं कार्यमिष्यते। तथा ह्रग्निचिदित्यत्र "ह्यस्वस्य पिति कृति तुक्" ६।१।६९ इत्यलाश्रयोऽपि तुग् भवत्येव। "अग्निचित्" इति। "अग्नौ चेः" ३।२।९ इति क्विप्। अधोगिति हल्ङ्यादिसूत्रेण तिलोपः; अदादित्वाच्छपो लुक् २।४।७२ "दादेर्धातोर्घः" ८।२।३२ इति धत्वम्, "एकाचो बशो भष्" ८।२।३७ इत्यादिना भष् धकारः, "झलाञ्जशोऽन्ते" ८।२।३९ इति जश्त्वम्, घकारस्य गकारः,तस्य "वावसाने" ८।४।५५ इति चर्त्वं ककारः। "प्रत्ययः" इति। "वर्तमाने" इति पूर्वसूत्रात्। "आहो यमहनः" १।३।२८इत्या-त्मनेपदम्। "गमहन" ६।४।९९ इत्यादिनोपधालोपः। "हो हन्तेः" ७।३।५४ इति घःष। " संग्मीय" इति। संपूर्वाद् गमेः "समो गमि" १।३।२९ इत्यादिनात्मनेपदम्। "इटोऽत्" इत्यद्भावः। "बहुलं छन्दसि" २।४।७३ इति शपो लुक्। पूर्ववदुपधालोपः। "अनुनासिकलोपो न भवति" इति। "अनुदात्तोपदेश" ६।४।३७ इत्यादिना। "रैकुलम्" इति। षष्ठीसमासः। "गोहितम्" इति। "चतुर्थी" २।१।३५ इत्यादिना। अस्त्यत्र षष्ठीचतुर्थ्येकवचनयोः प्रत्ययर्लोपः; किं त्वयावादेशयोरचि विधानात् तद्विधौ वर्ण आश्रयीते, न तु प्रत्ययः। तेन वर्णनिमित्तकौ तौ न प्रत्ययनिमित्त- काविति न भवतः। ननु च चात्र प्रत्ययस्य लोपः क्रियते, किं तर्हि? लुक्, नैतदस्ति; लोपशब्दोऽपि सामान्येन तद्भावितस्यातद्भावितस्य चाऽदर्शनस्य संज्ञा। तस्माल्लुगपि लोपो भवत्येव॥
बाल-मनोरमा
प्रत्ययलोपे प्रत्ययलक्षणम्। २६०, १।१।६१

जसि लुप्तेऽपि "जसि चे"ति गुणमाशङ्कितुमाह-प्रत्यय-लोपे प्रत्यय। प्रत्ययो लक्षणं=निमित्तं यस्य तत्-प्रत्ययलक्षणम्। प्रत्ययस्य लोपे सति प्रत्ययनिमित्तकं कार्यं स्यादित्यर्थः। फलितमाह--प्रत्यये लुप्तेऽपीत्यादिना। स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं सूत्रम्। यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थं चेति भाष्यादिषु स्पष्टम्। इति जसि चेतीति। अनेन सूत्रेण लुप्तं प्रत्ययमाश्रित्य "जसि चे"ति गुणे प्राप्ते इत्यर्थः।

तत्त्व-बोधिनी
प्रत्ययलोपे प्रत्ययलक्षणम् २२०, १।१।६१

प्रत्ययलोपे प्रत्यय। विशेषविहिता अपि लुगादिसंज्ञा लोपसंज्ञां न बाधन्ते, एकसंज्ञाधिकारदन्यत्र संज्ञायां बाध्यबाधकभावानङ्गीकारादिति भावः। स्थानिवत्सूत्रेण सिद्धे नियमार्थमिदं सूत्रं,"प्रत्ययस्याऽसाधरणं रूपरं यत्र प्रयोजकं, तदेव कार्यं प्रत्ययलोपे सति भवति न तु प्रत्ययाऽप्रत्ययासाधरण"मिति। तेन शोभना दृषदो यस्य सुदृषत्प्रासाद इत्यत्र "नञ्सुभ्यां"मित्यन्तोदात्ततां बाधित्वा "सोर्मनसी अलोमोषसी"इत्युत्तरपदाद्युदात्तत्वम्, "अत्वसन्तस्ये"ति दीर्घश्च न भवति। यद्वा,--यत्र प्रत्ययः प्राधान्येनाश्रीयते तत्राऽल्विधावपि विध्यर्थसिद्धम्। तेन "अतृणे"डित्यत्र हलादौ पिति सार्वधातुके विहित इम् लुप्तेऽपि तस्मिन्भवति। "वर्णाश्रये नास्ति प्रत्ययलक्षण"मिति तु वर्णप्राधान्यविषयकम्, तेन गवे हितं "गोहित"मित्यत्राऽवैदेशोन। यद्यपीदं पक्षद्वयमाकरारूढं, तथापि नियमपक्ष एव प्रबल इति यड्लुगन्ते मनोरमायां स्थितम्। स्यादेतत्-सूत्रस्याऽस्याऽवश्यकत्वेऽपि "प्रत्ययलोपे तल्लक्षण"मित्येव सूत्र्यतां किमनेन द्वितीयप्रत्ययग्रहणेन? अत्राहुः-"प्रत्ययस्याऽसाधारणं रूपं यत्रे"त्यादिलाभाय द्वितीयप्रत्ययग्रहणमिति।