पूर्वम्: ७।२।६०
अनन्तरम्: ७।२।६२
 
सूत्रम्
अचस्तास्वत् थल्यनिटो नित्यम्॥ ७।२।६१
काशिका-वृत्तिः
अचस् तास्वत् थल्यनिटो नित्यम् ७।२।६१

तासौ ये नित्यानिटो धातवः अजन्ताः, तेभ्यस्तासाविव थलि इडागमो न भवति। याता ययाथ। चेता चिचेथ। नेता निनेथ। होता जुहोथ। अचः इति किम्? भेत्ता बिभेदिथ। तास्वतिति किम्? लूत्वा लुलविथ। थलि इति किम्? याता ययिव। ययिम। अनिड्ग्रहणं नित्यम् इत्यनेन विशेषणार्थम्। नित्यग्रहणं किम्? विधोता, विधविता विदुधविथ। तासि विभाषितेट्, थलि नित्यम् इडागमो भवति। तास्वतिति वतिनिर्देशः किमर्थः? तासौ ततस्थलि प्रतिषेधार्थः। यो हि तासावसन्, असत्त्वाच् च नित्यानिट्, तस्य थलि प्रतिषेधो न भवति। जघसिथ। उवयिथ। उत्तरसूत्रे ऽपि तास्वदिति वर्तते। अदादेशो हि घसिः, वेञादेशश्च वयिस्तासौ न अस्ति।
लघु-सिद्धान्त-कौमुदी
अचस्तास्वत्थल्यनिटो नित्यम् ४८२, ७।२।६१

उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण्न॥
न्यासः
अचस्तास्वत्थल्यनिटो नित्यम्?। , ७।२।६१

क्रादिनियमादिटि प्राप्तेज्जन्तानां तासौ नित्यानिटां थलि प्रतिषेधो विधीयते। "पाता" इत्यादि। लुडुपन्यासस्तासौ नित्यानिट्त्वप्रदर्शनार्थः"; अनिट्त्वं ["अनिट्प्रतिषेधात्()"--इत्येव मुद्रितः पाठः] च "एकाचः" (७।२।१०) इत्यादिनेट्? प्रतषेधात्()। "लूत्वा, लुलविथ" इति। तास्वदिति वचनादिह न भवति प्रतिषेधः। त()स्मस्वनुच्यमान["त()स्मसत्वनुच्यमान इहापि प्रतिषेध स्यात्()--भवति, लुनाति। किति नित्यमनिटः "श्रयुकः किति" इति प्रतिषेधात्()"---इति मुद्रितः पाठः] इहापि प्रतिषेधः स्यात्()। भवति लुनातिः किति नित्यमनिट्()। "श्रयुकः किति" (७।२।११) इति प्रतिषेधात्? "पपिव, पपिम" इति। "आतो लोप इटि च" ६।४।६४ इत्याकारलोपः। "अनिङ्ग्रहणं नित्यमित्यनेन" इत्यादि। नित्यमित्यनेनानिट्त्वं धातोः कथं नाम विशेष्येतेत्येवमर्थमनिङ्ग्रहणमित्यर्थः। अथ सविता, लुलवथेति तासौ सेटस्थलौट्प्रतिषेधो मा भूदित्येवमर्थमनिड्ग्रहणं कस्मान्न भवति? नार्हत्येवमर्थं भवितुम्()। तथा हि--तास्वत्? थलीण्न भवतीत्युच्यते; न च यस्तासौ सेट्? तस्य प्रतिषेधो भवंस्तास्वदिति व्यपदेष्टुं शक्यते, यो ह्रमिजभावस्थलि विधीयते तस्य तासाविडमावेनैव सादृश्यं वतिराचष्टे। एवं तु वतिग्रहणादेव तासौ सेटस्थलि प्रतिषेधो न भविष्यति; अन्यथा वतिना यत्? सादृश्यं समाख्ययते तन्न स्यात्()। तस्माद्युक्तमुक्तेमेवानिद्ग्रणस्य प्रयोजनम्()। अथाक्रयमाणेऽनिङ्ग्रहणे नित्यमिति कस्य विशेषणं विज्ञायते? प्रतिषेधस्य। ननु च नित्य एव प्रतिषेधः प्रकृतः, तत्र यदि नित्यग्रहणे न प्रतिषेधो विशिष्येत, तदा नित्यग्रहणमनर्थकं स्यात्()? नैतदस्ति; पूर्वसूत्रे प्रतिषेधस्यानित्यत्वं यथा स्यादित्येवमर्थं स्यात्()। अवं च पूर्वसूत्रेण पक्ष इडागमः स्यादेव। तस्मात्? पूर्वोक्तमेवानिड्ग्रहणस्य प्रयोजनम्()। "तासौ विबाषितेट्()" इति। स्वरत्यादिसूत्रेम (७।२।४४) धूञ इङ्? विकल्पितः। तस्य नित्यग्रहणाद्विभाषितेटस्थलि नित्यमिडागमो भवति। असति च नित्यग्रहणे प्रतिषेधः स्यादेव। पाक्षिकेणापीडभावेनानिङ्व्यपदेशो भवत्येव। तथा हि--गुहेर्विभाषितेटोऽपि "शल इगुपधादनिटः क्सः" ३।१।४५ इति क्सो भवत्येव--अधुक्षदिति। अथ वतिना निर्देशः किमर्थः, न तासावित्येवोच्येत? इत्यत आह--"तास्वत्()" इत्यादि। असति वतिना निर्देशे योऽपि तासावसन्? असत्त्वाच्च नित्यमनिट्(), तस्यापि थलि प्रतिषेधः स्यात्()। वतिना निर्देशे तु सति, वतेः सर्वसादृश्यार्थत्वाद्यथाभूतस्य तासाविण्न भवति तथाभूतस्यैव थल्पपीटा न भवितव्यमिति न भवत्येव दोषप्रसङ्गः। यदि हि यस्तासावसत्? असत्त्वाच्च नित्यमनिट्? तस्यापि थलि प्रतिषेधः स्यात्()। एवं च सति तसावसत इडभावः, इतरत्र तु सत इति यथाभूतस्य तासादिडभावस्तथाभूतस्थापि थलि न स्यात्()। यो हि तासावसन्नसत्त्वाच्च नित्यमनिट्(), तस्य थलि प्रतिषेदो न भवति--जघसिथेति--उत्तरसूत्रेणेत्यभिप्राय इत्यत आह--"उत्तरसूत्रेऽपि" इत्यादि। तदेवमुत्तरार्थो वतिना निर्देशोऽयं भवति। इह तु नार्थो वतिनिर्देशेन, अनजन्तत्वादेव घसेर्वयेश्च परतिषेधो न भवतीति। "जघसिथ" इति। "लिट()न्यतरस्याम्()" (२।४।४।०) इत्यदेर्घस्लादेशः। "उदयिथ" इति। "वेञो वयिः" २।४।४१ इति वयिरादेशः; "लिट()भ्यासस्योभथेषाम्()" ६।१।१७ इति सम्प्रसरणम्()। कस्मात्? पूनर्घसेः, वयेश्च तासावसत्त्वान्नित्यानिट्त्वम्()? इत्याह--"अदादेशो हि" इत्यादि। नास्तित्वं तयोः पुनस्तासावविधानाद्वेदितव्यम्()॥
बाल-मनोरमा
अचस्तास्वत्थल्यनिटो नित्यम् १३७, ७।२।६१

अत तस्य थलीडागमस्य भारद्वाजनियमाद्विकल्पं वक्ष्यस्तदुपयोगत्वेन सूत्रद्वयमुपन्यस्यति---अचस्तास्वत्। अधातोस्थलोऽभावाद्धातोरिति लभ्यते। "अच " इति तद्विशेषणम्। तदन्तविधिः। "उपदेशेऽत्वत" इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इति "ऋतो भारद्वाजस्ये"ति सूत्रभाष्ये स्थितम्। उपदेशे अजन्तादित्यन्वयः। "अनिट" इति बहुव्रीहेः पञ्चमी। नित्यमिड्विहीनादित्यन्वयः। "तासि च क्लृप" इत्यतस्तासीत्यनुवर्तते। तासौ नित्यमनिट इत्यन्वयः। थलीति षष्ठ()र्थे सप्तमी। "गमेरिट् परस्मैपदेष्वि"त्यत इडिति, "न वृद्भ्यश्चतुभ्र्य" इत्यतो नेति चानुवर्तते। "तास्व"दिति सप्तम्यान्तद्वतिः। तदाह--उपदेशे योऽजन्त इत्यादि, इण्न स्यादित्यन्तम्। "तास्व"-- दिति सेषः। यथा तासि नेट् तथा थल्यपि नेडित्यर्थः। चिचेथ जुहोथेत्याद्युदाहरणम्। अत्र क्रादिनियमप्राप्त इण्न भवति। अजन्तात्किम्?। बिभेदिथ। उपदेश इति किम्?। "ह्मञ्" जहर्थ। इह गुणे रपरत्वेऽजन्तत्वाऽभावादिण्निषेधो न स्यादित्युपदेशग्रहणम्। नित्यग्रहणं किम्?। "स्वृ गतौ" सस्वरिथ। "स्वरितसूती"ति तासौ विकल्पितेट्कत्वान्न निषेधः। तासौ किम्?। लूत्वा लुलविथ। थलः किम्?।पपिव पिम। इह तासीत्यनुव#ऋत्त्यैव सिद्धेः "तास्व"दिति नातीवोपयुज्यत इति केचित्। वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इण्निषेधार्थ तास्वदित्यावश्यकम्। तेन "लिट()न्यतरस्या"मित्यदो घस्लृभावे जघसिथेत्यत्र न निषेधः, घसस्तासावभावादति--अद भक्षम इति धातौ मूल एव वक्ष्यते। "यस्तासावस्ति अनिट् चे"ति भाष्यम्। एव वेञो वयादेशेऽपि न निषेध ति बोध्यम्।

तत्त्व-बोधिनी
अचस्तास्वत्थल्यनिटो नित्यम् ११२, ७।२।६१

अचस्तास्वत्। उत्तरसूत्रादुपदेश इत्यपकृष्यते, तच्चाऽजन्तस्य विशेषणमित्याह-- उपदेशेऽजन्त इति। धातुरित्याक्षेपाल्लभ्यते। न ह्रधातोस्थल् संभवति। नित्यग्रहणमनिटो विशेषणम्। क्व नित्यमनिडित्यपेक्षायां संनिधानात्तासावेवेति विज्ञायते, "तासि च क्लृपःर" इति सन्निहितं वाऽनुवर्तते। "न वृद्भ्यः" इत्यस्मान्नेत्यनुवर्तते , तदाह-- तासौ नित्यानिट् ततः परस्येत्यादि। तासाविव तास्वदिति सप्तम्यन्ताद्वतिः। यथा तासौ न भवति एवं थल्यपीत्यर्थः। अच इति किम्?। बिभेदिथ। रुरोधिथ। उपदेशे इति किम्?। जहर्थ। इह परत्वान्नित्यत्वच्च गुणे रपरत्वे च कृते अजन्तत्वाऽभावादेतस्याऽप्रवृत्ताविट् प्रसज्येतेत्युपदेश इत्युक्तम्। थलीति किम्?। पपिव पपिम। नित्यमनिटः किम्()। सस्वरिथ। सस्वर्थ। नाऽयं तासौ नित्यमनिट्, "स्वरतिसूती"ति विकल्पितेट्()त्वात्। इह तासीति नेति चानुवृत्त्यैवेष्टसिद्धेस्तास्वदित्येतन्नातीवोपयुज्यत इति केचित्। अन्ये तु --यस्य तासौ विद्यमानत्वं तस्मादेव परस्य थल इण्निषेध इत्येतल्लाभार्थं तत्।तेन उवयिथ, जघसिथेत्यत्र न निषेध इत्याहुः।