पूर्वम्: ७।२।८५
अनन्तरम्: ७।२।८७
 
सूत्रम्
युष्मदस्मदोरनादेशे॥ ७।२।८६
काशिका-वृत्तिः
युष्मदस्मदोरनादेशे ७।२।८६

युष्मदस्मदित्येतयोः अनादेशे विभक्तौ परतः आकारादेशो भवति। युष्माभिः। अस्माभिः। युष्मासु। अस्मासु। अनादेशे इति किम्? युष्मत्। अस्मत्। हलि इत्यधिकारादप्यत्र न स्यात्। उत्तरत्र तु अनादेशग्रहणेन प्रयोजनम् यो ऽचि ७।२।८९ इति, तदिहैव क्रियते।
लघु-सिद्धान्त-कौमुदी
युष्मदस्मदोरनादेशे ३२३, ७।२।८६

अनयोरात्स्यादनादेशे हलादौ विभक्तौ। युवाभ्याम्। आवाभ्याम्। युष्माभिः। अस्माभिः॥
न्यासः
युष्मदस्मदोरनादेशे। , ७।२।८६

"युष्मत्(), अस्मत्()" इति। "पञ्चम्या अत्()" ७।१।३१ इति पञ्चमीभ्यसोऽदादेशः, "शेषे लोपः" ७।२।९ इत्यन्तलोपे कृते "अतो गुणे" ६।१।९४ पररूपत्वम्()। यदि च हलीत्यधिकारादत्राप्यात्त्वं न स्यात्(), तत्? किमर्थमनादेशग्रहणम्()? इत्याह--"उत्तरत्र तु" इत्यादि। उत्तरत्र "योऽचि" ७।२।८९ इति सूत्रेऽनादेशस्य प्रयोजनमिति। यद्येवं तत्रैव कत्र्तव्यम्(), इह किमर्थं क्रियते? विस्पष्टार्थमित्यभिप्रायः॥
बाल-मनोरमा
युष्मदस्मदोरनादेशे , ७।२।८६

युष्मदस्मदोरनादेशे। "अष्टन आ विभक्तौ" इत्यत आ इति विभक्ताविति चानुवर्तते। "रायो हली"त्यतो हलीत्यनुवृत्तं विभक्तिविशेषणम्। तदादिविधिः। तदाह-अनयोरिति। युष्मदस्मदोरन्त्यस्येत्यर्थः। वस्तुतस्तु हलीति नानुवर्तनीयम्। "योऽचि" इत्यजादौ यत्वविधानेन परिशेषादेव तत्सिद्धेः। युवाभ्याम् आवाभ्यामिति। युष्मद् भ्याम्, अस्मद् भ्यामिति स्थिते युवावादेशयोर्दकारस्य आत्वे सवर्णदीर्घ इति भावः।?त्र हलीत्यनुवृत्तौ "योऽची"त्यज्ग्रहणं मास्तु। हलादावात्वस्य विशेषविहितत्वादेव यत्वनिवृत्तिसिद्धेरिति भाष्ये स्पष्टम्। युष्माभिः अस्माभिरिति। "युष्मदस्मदोरनादेशे" इत्यात्वे सवर्णदीर्घ इति भावः। अथ चतुर्थी। युष्मद् ए, अस्मद् ए इति स्थितौ "त्वमावेकवचने" इति प्राप्ते-।

तत्त्व-बोधिनी
युष्मदस्मदोरनादेशे ३५०, ७।२।८६

युष्मदस्मदोरमादेशे। आदेशे किम्()युष्मभ्यम्। न चाऽभ्यम्पक्षे आदेशो हलादिर्नत्यनादेशग्रहणं त्यक्तु शक्यमिति वाच्यं, "योऽचीच्यच्त्राऽनुवृत्त्यर्थं तस्यावश्यकत्वात्। हलादौ परे इति। "योऽची"त्यज्ग्रहणात्परिशेषसिद्धमिदम्, "रायौ हली"त्यतोऽनुवृत्त्या लब्धं वा।