पूर्वम्: ७।३।१७
अनन्तरम्: ७।३।१९
 
सूत्रम्
जे प्रोष्ठपदानाम्॥ ७।३।१८
काशिका-वृत्तिः
जे प्रोष्ठपदानाम् ७।३।१८

ज इति जातार्थो निर्दिश्यते। तत्र यः तद्धितो विहितः तस्मिन् ञिति, णिति, किति च परतः प्रोष्थपदानाम् उत्तरस्य अचामादेः अचः वृद्धिर् भवति। प्रोष्ठपदा नाम नक्षत्रम्, ताभिः युक्तः कालः इत्यण्। तस्य लुबविशेषे ४।२।४ इति लुप्। प्रोष्ठपदासु जातः, ऋतुनक्षत्रेभ्यो ऽणित्यण्, प्रोष्थपादः माणवकः। जे इति किम्? यदा प्रोष्थपदो मेघो धरणीमभिवर्षति, प्रोष्थपदासु भवः प्रौष्ठपदः। प्रोष्थपदानाम् इति बहुवचननिर्देशात् पर्यायो ऽपि गृह्यते भद्रपादः इति।
न्यासः
जे प्रोष्ठपदानाम्?। , ७।३।१८

"संख्यायाः" ७।३।१५ इति निवृत्तम्()। ""जे" इति जातार्थो निर्दिश्यते" इति। जातशब्दैकदेशस्य "जे" इति, तस्यायं प्रयोगः। भवति हि पदैकदेशस्यापि प्रयोगः, यथा--भोमो भीमसेनः, सत्यभामा भामेति। तस्माज्जातशब्दस्यैकदेशस्य प्रयोगेण जातार्थो निर्दिश्यत इति विज्ञेयम्()। "प्रोष्ठपदासु" इति। "लुपि युक्ततवद्व्यक्तिवचने" १।२।५१ इति युक्तवदभावः। "भद्रयादाः" इति। भद्रपदेन युक्तः काल इति अणादिकार्यं पूर्ववद्विधेयम्()॥
बाल-मनोरमा
जे प्रोष्ठपदानाम् १३८८, ७।३।१८

जे प्रोष्ठपदानाम् आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम्। तदाह--प्रोष्ठपदानामिति। जशब्देन जातार्थप्रत्ययो विवक्षितः। तदाह--जातार्थे इति। "प्रोष्ठपदाना"मिति बहुवचनस्य प्रयोजनमाह बहुवचनेति। भद्रपाद इति। भद्रपदासु जात इत्यर्थः।