पूर्वम्: ७।४।११
अनन्तरम्: ७।४।१३
 
सूत्रम्
शृदॄप्रां ह्रस्वो वा॥ ७।४।१२
काशिका-वृत्तिः
शृ̄दृ̄प्रां ह्रस्वो वा ७।४।१२

शृ̄ दृ̄ पृ̄ इत्येतेषां अङ्गानां लिटि परतो वा ह्रस्वो भवति। शृ̄ विशश्रतुः, विशश्रुः। विशशरतुः, विशशरुः। दृ̄ विदद्रतुः, विदद्रुः। विददरतुः, विददरुः। पृ̄ निपप्रतुः, निपप्रुः। निपपरतुः, निपपरुः। ह्रस्ववचनम् इत्वोत्वनिवृत्त्यर्थम्। केचिदेतत् सूत्रं प्रत्याचक्षते। श्रा पाके, द्रा कुत्सायां गतौ, प्रा पूरणे इत्येतेषाम् अनेकार्था धातवः इति शृ̄दृ̄प्रामर्थे वर्तमानानां विशश्रतुः, विशश्रुः, विदद्रतुः, विदद्रुः, निपप्रतुः, निपप्रुः इत्येतानि रूपाणि साधयन्ति। तथा च सति क्वसौ विशशृवानित्येतद् रूपं न स्यात्।
लघु-सिद्धान्त-कौमुदी
शॄदॄप्रां ह्रस्वो वा ६१६, ७।४।१२

एषां लिटि ह्रस्वो वा स्यात्। पप्रतुः॥
न्यासः
शृ?दृ?प्रां ह्यस्वो वा। , ७।४।१२

"शृ? हिंसायाम्()" (धा।पा।१४८८) "दृ? विदारणे" (धा।पा।१४९०) "पृ? पालनपूरणयोः" (धा।पा।१४८९)--एषां पूर्वसूत्रेण नित्यो गुणो भवत्येव। "विशश्रतुः" इति। ह्यस्वत्वे कृते यणादेशः। "ह्यस्ववचनम्()" इत्यादि। असति ह्यस्वग्रहणे वाश्चनेन विकल्पिते यस्मिन्? पक्षे गुणो नास्ति तस्मिन्? पक्षे "ऋत इद्धातोः" ७।१।१०० इतीत्त्वं प्रसज्येत, "उदीष्ठ()पूर्वस्य" ७।१।१०२ इत्युत्त्वञ्च। तस्मात्? तन्निवृत्त्यर्थ ह्यस्व इत्युच्यते? ऋदिति कत्र्तव्ये ह्यस्वग्रहणमुत्तरार्थम्()। केचित्? इत्यादि। कथं पुनरस्य प्रत्याच्यमाने विशश्रतुः--इत्येवमादीनि रूपाणि सिध्यन्ति? इत्याह--"श्रा पाके" इत्यादि। यद्यपि "आतो लोप इटि च" ६।४।६४ इत्यकरलोपे कृते श्रादीनां विशश्रतुरित्येवमादीनि रूपाणि सिध्यन्तीति, तथाप्यर्थमेवो भवति; तदाऽयुत्त्तमस्य प्रत्याख्यानमित्याशङ्क्यानेकार्थत्वाद्धातूनामित्युक्तम्()। "तथा च सति" इत्यादिना प्रत्यादिना प्रत्याख्यानं प्रत्याचष्टे। यदि सूत्रस्य प्रत्याख्यानं क्रियते, क्वासौ कृते विशशृषानिति रूपं न सिध्यति, तथा हि--यदि शृणातेह्र्यस्वो न क्रियते, तदा विशशर्वानिति रूपं स्यात्()। अथ श्रातेः, विशश्रिवानिति। तस्मादयुकतमस्य प्रत्याख्यानम्()॥
बाल-मनोरमा
शृ?दृ?प्रां ह्यस्वो वा ३२५, ७।४।१२

शृ()दृ()प्राम्। शृ? दृ? पृ? एषां द्वन्द्वः। लिटीति। "दयतेर्दिगि लिटीटत्यतस्तदनुवृत्तेरिति भावः। यद्यपि पूर्वसूत्रेषु क्वापि कितीति न दृष्टं तथापि अस्य "ऋच्छत्यृ()ता"मिति गुणाऽपवादत्वाद्गुणस्य च तस्य किदर्थत्वात्कितीत्युक्तम्। पप्रतुरिति। पपृ? अतुस् इति स्थिते ऋकारस्य ह्यस्वे तस्य यणिति भावः। गुणपक्षे आह---पपरतुरिति। गुण एव तु न विकल्पितः, गुणाऽभावे "वार्णादाङ्गं बलीयः" इति यणं बाधित्वा "उदोष्ठ()ए"त्युत्त्वप्रसङ्गात्। पपरिथ पप्रथुः--पपरथुः पप्रपपर। पपार पपर पप्रिव पपरिव। "वृ()तो वा" इति दीर्घविकल्पं मत्वा आह---परिता परितेति। परिष्यति-- परीष्यति। पिपर्तु--पिपूर्तात् पिपूर्ताम् पिपुरतु। पिपूर्हि--पिपूर्तात् पिपूर्तम् पिपूर्त। पिपराणि पिपराव पिपराम। लङ्याह-- अपिपरिति। अपि पृ? त् इति स्थिते गुणे रपरत्वे हल्ङ्यादिना तकारलोपे रेफस्य विसर्गः। अपिपरुरिति। अभ्यस्तत्वात् जुस्। कृते "जुसि चे"ति गुणे रपरत्वम्। अपिपः अपिपूर्तम् अपिपूर्त। अपिपरम् अपिपूर्व अपिपूर्म। केचिदिति। अन्ये आचार्या इत्यर्थः। ह्यस्वान्तत्वपक्षे "उदोष्ठ()ए"त्युत्त्वं नेति मत्वा आह---पिपृत इति। ह्यस्वान्तस्य अनिट्त्वाल्लुडादौ पर्तेत्यादि। पिपृहि। अपार्षीदिति। ह्यस्वान्तस्य अनिट्त्वान्न सिज्लोप इति भावः। नन्वाचार्यान्तरसंमतं ह्यस्वान्तत्वं कुतोऽस्माभिरादर्तव्यमित्यत आह--पाणिनीयेति। पाणिनिसंमतदीर्घान्तत्वस्यैवाश्रयणे "तं रोदसी पिपृत"मित्यादौ "उदोष्ठ()"त्युत्त्वापत्त्या"ऋकारस्य ह्यस्वस्य श्रवणाऽनापत्त्या तद्विषये छान्दसत्वमेव शरणमनुसरणीयं स्यादत्यर्थः। डुभृञिति। अनिडयम्। ञित्त्वादुभयपदी। श्लौ सति द्वित्वनादौ बिभर्तीत्यादि स्थितम्।

तत्त्व-बोधिनी
शृ?दृ?प्रां ह्यस्वो वा २८१, ७।४।१२

शृ()दृ()प्रां। शृ? हिंसायाम्। दृ? विदारणे। इमौ क्र्यादी। पक्षे गुण इति। "ऋच्छत्यृ()ता"मित्यनेन। पप्रतुरिति। ह्यस्वपक्षे यण्। ननु ह्यस्वग्रहणमिह मास्तु, गुणानुवृत्त्या तस्यैव विकल्पोऽस्तु। तथा च यणादेसेन पप्रतुः शश्रतुरित्यादि सिध्यत्येव। गुणपक्षेतु पपरतुः शशरतुरित्याद्यपि सिध्यतीति चेत्, मैवम्। गुणाऽभावपक्षे "ऋत इद्धातो" रितीत्त्वप्रसङ्गात्। न चान्तरङ्गत्वाद्यणेव स्यादिति वाच्यं, वार्णादाङ्गसय् बलीयस्त्वात्। डुभृढ्। "ड्वितः क्रिः"। भृत्रिमम्।