पूर्वम्: ८।१।२६
अनन्तरम्: ८।१।२८
 
सूत्रम्
तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः॥ ८।१।२७
काशिका-वृत्तिः
तिङो गोत्रादीनि कुत्सनाऽभीक्ष्ण्ययोः ८।१।२७

तिङन्तात् पदात् पराणि गोत्रादीनि कुत्सने आभीक्ष्ण्ये चार्थे वर्तमानानि अनुदात्तानि भवन्ति। पचति गोत्रम्। जल्पति गोत्रम्। आभीक्ष्ण्ये पचति पचति गोत्रम्। जल्पति जल्पति गोत्रम्। ब्रुवः पचति ब्रुवम्। जल्पति ब्रुवम्। पचति पचति ब्रुवम्। जल्पति जल्पति ब्रुवम्। ब्रुवः इति ब्रुवः कन्निपातनाद् वच्यादेशाभावश्च। गोत्र। ब्रुव। प्रवचन। प्रहसन। प्रकथन। प्रत्ययन। प्रचक्षण। प्राय। विचक्षण। अवचक्षण। स्वाध्याय। भूयिष्थ। वा नाम। नाम इत्येतद् वा निहन्यते। पक्षे आद्युदात्तम् एव भवति। पचति नाम। पठति नाम। तिङः इति किम्? कुत्सितं गोत्रम्। गोत्रादीनि इति किम्? पचति पापम्। कुत्सनाभीक्ष्ण्ययोः इति किम्? खनति गोत्रं समेत्य कूपम्। कुत्सनाभीक्ष्ण्यग्रहणं च पाठविशेषणं द्रष्टव्यम्। तेन अन्यत्र अपि गोत्रादिग्रहणेन कुत्सनाभीक्ष्ण्ययोरेव कार्यं भवति।
न्यासः
तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः। , ८।१।२७

यथायथमुदात्तादिषु प्राप्तेष्विदमारभ्यते। "पचति गोत्रम्()" इति। यः स्वपुरुषकारेण जोविकां कल्पयितु मशक्तो गोत्रखकककक्यापनेन तां कल्पयति स एवमुच्यते। "पचति" इति। व्यक्तीकरीतीत्यर्थः। "पचि व्यक्तीकरणं" (धा।पा।१७४) "पचतिपचति गोत्रम्()" इति। नित्येऽर्थे द्विर्वचनम्()। यस्त्वाभीक्षण्येन गोत्रं ख्यापयति स एव मुच्यते। "वाच्यादेशाभावश्च" इति। "ब्राउवो वचिः" २।४।५३ इति वच्यादेशः प्राप्नोति, तस्याभावो निपातनादव। "विचक्षण" इति। अत्रापि "चक्षिङः ख्याञ" २।४।५४ इति प्राप्तस्य ख्याञादेशस्याभावो निपानादेव वेदितव्यः। "नामेत्येतदवा निहन्यते" इति। विभाषाग्रहणस्यानुवृत्तेः। न च तदनुवृत्तावतिप्रसङ्गो भवति; व्यवस्थित विभाषाविज्ञानात्()। "पक्षे आद्युदात्तमेव भवति" इति। "नब्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इति नामशब्दस्याद्युदात्तत्वात्()। "कुत्सितं गोत्रम्()" इति। "गुङ्? अव्यक्ते शब्दे" (धा।पा।९४९) इत्यस्मादौणादिके ष्ट्रनि विहिते गोत्रमिति भवति। तस्मान्नित्स्वरेण गोत्रशब्दोऽत्राद्युद्त्तः। "पचति पापम्()" इति। पापश्ब्दः कुत्सने वत्र्तते, सिङन्ताच्च परो भवति, न तु गोत्रादिरिति न निहन्यते। इह कुत्सनाभिक्ष्ण्यग्रहणे, एतदनुदात्तविशेषणं वा स्यात्()--तिङः पराणि गोत्रादीन्यनुदात्तानि भवन्ति कुत्सनाभीक्ष्ण्ययोरिति, उत गोत्रादीनां पाठविशेषणं वा स्यात्()--एतयोरर्थयोर्गोत्रादीनि भवन्ति, तानि च तिङः पराण्यनुदात्तानि भवन्तीति? अनयोरर्थयोर्गोत्रादिव्यपदेशमासादयन्तीति योऽसौ तेषां प्रातिपदिकेषु विशिष्टानुपूर्वीकः पाठः, स एव तयोरर्थयोवंत्र्तमानानां भवतीति यावत्()। तत्र पूर्वस्मिन्? पक्षे "चनचिदिवगोत्रादितद्धिताम्रेडितेध्वगतेः" ८।१।५७ इत्यत्र "कुत्सने च सुप्यगोत्रादौ" ८।१।६९ इत्यत्र च कुत्सनाभीक्ष्ण्ययोरपि वत्र्तमानानं कार्यं प्राप्नोति; विशेषानुपादानात्()। इतर()स्मस्तु पक्षे न भवत्येष दोषः। यानि हि न कुत्सनाभीक्ष्ण्ययोर्वत्र्तन्ते तेषां गोत्रादिव्यपदेश एव नास्ति; कुत्सनाभीक्ष्ण्यवृत्तीनामेव गणे पठितत्वात्()। एतत्? सर्वं चेतसि कृत्वाऽ‌ऽह--"कुत्सनाभीक्ष्ण्यग्रहणं च" इत्यादि। पठ()त इति पाठः, सन्निवेशविशेषः। सद्विशेषणमेव तद्वेवितव्यम्()। तेन किमिष्टं भवतीत्याह--"तेन" इत्यादि। कथं पुनरेकेन यत्नेन गोत्रादीनां पाठश्च शक्यो विशेषयितुमनुदात्तत्वञ्चैषां विधातुम्()? एवं मन्यते--योगविभागः कत्र्तव्यः, तिङः पराणि गोत्रादीन्यनुदात्तानि भवन्ति; ततः "कुत्सनाभीक्ष्ण्ययोः", गोत्रादीनीत्येव। न चात्र द्वितीयेयोगे विधेयमन्यदस्तीति गोत्रादीन्येव कुत्सनाभीक्ष्ण्यग्रहणेन विशिष्यन्ते। अथ वा--उभयथा सूत्रमाचार्येण शिष्याः प्रतिपादिताः, उभयञ्चैतत्? प्रमाणम्(), अत उभयं ग्रहीष्यन्तीति। वृत्तिग्रन्थस्तु तिङन्तात्? पदादुत्तराणि गोत्रादीनीत्यादिको वाक्यभेदेनैव नेयः--गोत्रादीनि कुत्सने चामीक्ष्ण्ये च भवन्ति, तान्येव तिङन्तात्? पदादुत्तराण्यनुदात्तानि भवन्तीति। ननु च गोत्रादयः शब्दा गोत्रादावेवानर्थान्तरे वत्र्तन्ते, ते कथं कुत्सनाभीक्ष्ण्ययोर्वत्र्तरन्()? तमेव स्वार्थं यदा तु कुत्सनाभीक्ष्ण्यविशिष्टमाचक्षते तदा तयोर्वर्तन्त इत्यदोषः॥