पूर्वम्: ८।१।५६
अनन्तरम्: ८।१।५८
 
सूत्रम्
चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः॥ ८।१।५७
काशिका-वृत्तिः
चनचिदिवगोत्रादितद्धिताऽम्रेडितेष्वगतेः ८।१।५७

चन चिदिव गोत्रादि तद्धित आम्रेडित इत्येतेषु परतः अगतेः उत्तरं तिङन्तं नानुदात्तं भवति। चन देवदत्तः पचति चन। चित् देवदत्तः पचति चित्। इव देवदत्तः पचतीव। गोत्रादि देवदत्तः पचति गोत्रम्। देवदत्तः पचति ब्रुवम्। देवदत्तः पचति प्रवचनम्। इह अपि गोत्रादयः कुत्सनाभिक्ष्ण्ययोः एव गृह्यन्ते। तद्धित देवदत्तः पचतिकल्पम्। देवदत्तः पचतिरूपम्। अनुदात्तः तद्धित इह उदाहरणम्, अन्यत्र तद्धितस्वरेण तिङ्स्वरो बाध्यते, पचतिदेश्यः। आम्रेडित देवदत्तः पचति पचति। अगतेः इति किम्? देवदत्तः प्रपचति चन। अत्र अगतिग्रहणे, सगतिरपि तिङित्यत्र च उपसर्गग्रहणं द्रष्टव्यम्। इह मा भूत्, शुक्लीकरोति चन। यत् काष्ठं शुक्ली करोति। यत् काष्ठं कृष्णीकरोति।
न्यासः
चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः। , ८।१।५७

"इहापि गोत्रादयः कुत्सनाभीक्ष्ण्ययोरेव गृह्रन्ते" इति। न केवलं "तिङो गोत्रादीनि" ८।१।२७ इत्यादो सूत्र इत्यपिशब्दार्थः। यथा चात्रापि कुत्सनाभीक्ष्ण्ययोरेव गोत्रादीनि गृह्रन्ते, तथा तत्रैवोपपादितम्()। "पचतिकल्पम्()" इति। "ईषदसमाप्तौ कल्पप्()" ५।३।६७। तत्र हि "तिङश्च" ५।३।५६ इत्यनुवत्र्तते, "अनुदात्तस्तद्धित इहोदाहरणमिति कस्मान्न भवति? इति प्रश्नावसरे आह--"अन्यत्र तद्धितस्वरेण तिङ्स्वरो वाच्ये, इति तद्धितस्योदात्तत्वे सति "अनुदात्तं पदमेकवर्जम्? ६।१।१५२ इति चानुदात्तत्वापतत्तिः। एवञ्चान्यत्र निघातः सिद्ध एवेति। अनुदात्त एव तद्धित इहोदाहरणम्()। "अत्र इत्यादि। कथं पुनरुपसर्गग्रहणं शक्यं द्रष्टुम्()? उत्तरसूत्रे "चादिषु च" ८।१।५८ इति चशब्देनास्य सूत्रस्य द्वितदीयो व्यापार उच्यते, स आनन्तर्याद्गतेरित्यस्य विशेषणार्थो भविष्यति--चादिषु यो गतिरिति। चादिष्विति सामीप्यलक्षणमधिकरणम्()। कश्चादिषु गतिः? चादिसमीपे य उदितः। तेनायं प्रादीनामेवेपसर्गसंज्ञानां प्रतिषेधो विज्ञायते। एवं तावदस्मिन्? सूत्रे गतिग्रहणेनोपसर्गस्य ग्रहणं विज्ञायते। "सगतिरपि तिङ्()" इति। अत्रापि "चादिलोपे विभाषा" (८।१।६३) इति सूत्रात्? मण्डूकप्लुतिन्यायेन विभावेत्यनुवत्र्तते, सा च व्यवस्थितविभाषा। तेनोपसर्गसंज्ञेन गतिना यो गतिः सः। तस्यैवानुदात्तत्वेन भवितव्य मित्युपसर्ग९स्यैव गतेग्र्रहणं विज्ञायते। अथ वा--द्वयोरप्येतयोर्बोगयोः "विभाषितं सोपसर्गमनुत्तमम्()" ८।१।५३ इत्यत उपसर्गग्रहणं मण्डूकप्लुतिन्यायेनानुवत्र्तते, गतिग्रहणमनर्थकं स्यात्(); उपसर्गग्रहणानुवृत्त्यैव सिद्धत्वात्()। नानर्थकम्(); विस्पष्टार्थत्वात्()। "उपसर्गाच्छन्दसि धात्वर्थे" ५।१।११७ इत्यत्र ह्रुपसर्गग्रहणं प्राद्युपलक्षणार्थम्()। तत्रासति गतिग्रहणे, इहाप्युसर्गग्रहणं प्राद्युपलक्षणार्थमिति कस्यचित्? सन्देहः स्यात्()। प्राद्युपलक्षणे च सति को दोषः? अनुपसर्गाणामपि प्रादीनां ग्रहणं विज्ञायेत। ततः शुक्लौकरोतीत्यत्र निघातप्रतिषेधो भवत्येव। "अभूततद्भावे" (५।४।५०।वा।१) इत्यादिनेह च्दिः, तस्य "ऊर्यादिच्विडाचश्च" १।४।६० इति गतिसंज्ञा, "अस्य च्वौ" ७।४।३२ इतीत्त्वम्()। "यत्? काष्ठं शुक्लीकरोति" इति। अत्र "सगतिरपे तिङः" ८।१।६८ इति निघातो न वत्र्तते। तेन "निपातैर्यद्यदि" ८।१।३० इत्यादिना निघातप्रतिषेध एव भवति॥