नसत्त निषत्त अनुत्त प्रतूर्त सूर्त गूर्त इत्येतानि छन्दसि विषये निपात्यन्ते। नसत्त, निषत्त इति सदेः नण्पूर्वात् निपूर्वाच् च नत्वाभावो निपात्यते। नसत्तमञ्जसा। नसन्नम् इति भषायाम्। निषत्तः। निषण्णः इति भाषायाम्। अनुत्तम् इति उन्देः नञ्पूर्वस्य निपातनम्। अनुत्तमा ते मघवन्। अनुन्न इति भाषायाम्। प्रतुर्तम् इति त्वरतेः तुर्वी इत्येतस्य वा निपातनम्। प्रतूर्तं वाजिन्। प्रतूर्णम् इति भाषायाम्। सूर्तम् इति सृ इत्येतस्य उत्वं निपात्यते। सूर्ता गावः। सृता गावः इति भाषायाम्। गूर्तम् इति गूरी इत्येतस्य नत्वाभावो निपात्यते। गूर्ता अमृतस्य। गूर्णम् इति भाषायाम्।
"सदेः" इति। "षद्लृ विशरणगत्यवसादनेषु" (धा।पा।८५४) इत्येतस्मात्()। "निषत्तः" इति। "सदिरप्रत्तेः"
८।३।६६ इतिषत्वम्()।
"अनुत्तम्()" इति। "उन्दी क्लेदने" (धा।पा।१४५७), "अनिदिताम्()"
६।४।२४ इति नलोपः।
"प्रतूत्र्तम्()" इति। यदा "ञित्वरा सम्भ्रमे" (धा।पा।७७५) इत्यस्य निपात्यते, तदा "ज्वरत्वर"
६।४।२० इत्यादिना वकारस्योपथायाश्चोत्वम्()। यदा "उर्वी तुर्वी थुर्वी हिंसार्थाः" (धा।पा।५६९,५७०,५७१) इत्यस्य, तदा "राल्लोपः"
६।४।२१ इति रकारलोपः, पूर्ववद्दीर्घः।
"सूत्र्तम्()" इति। "सृ गतौ" (धा।पा।९३५) उत्वसन्नियोगे रपरत्वम्(), पूर्वद्दीर्घः।
"गूत्र्तम्()" इति। "गुरी उद्यमाने" ["गूरी"--प्रांउ।पाठ] (धा।पा।१३९६)।