पूर्वम्: ८।३।१०९
अनन्तरम्: ८।३।१११
 
सूत्रम्
न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्॥ ८।३।११०
काशिका-वृत्तिः
न रपरसृपिसृजिस्पृशिस्पृहिसवनाऽदीनाम् ८।३।१०८

रेफपरस्य सकारस्य सृपि सृजि स्पृशि स्पृहि सवनादीनां च मूर्धन्यो न भवति। रपर विस्रंसिकायाः काण्डाभ्यां जुहोति। विस्रब्धः कथयति। स्पृपि पुरा क्रूरस्य विसृपः सृजि वाचो विसर्जनात्। स्पृशि दिविस्पृशम्। स्पृहि निस्पृहं कथयति। सवनादीनाम् सवने सवने। सूते सूते। सामे सामे। सवनमुखे सवनमुखे। किं स्यति किंसंकिंसम्। अनुसवनमनुसवनम्। गोसनिं गोसनिम्। अश्वसनिमश्वसनिम्। पूर्वपदातिति प्राप्ते प्रतिषेधः। अश्वसनिग्रहणम् अनिणो ऽपि षत्वम् अस्ति इति ज्ञापनार्थम्। तेन जलाषाहम्, अश्वषाहम् इत्येतत् सिद्धं भवति। क्वचिदेवं गणपाठः सवने सवने। अनुसवने ऽनुसवने। संज्ञायां बृहस्पतिसवः। शकुनिसवनम्। सोमे सोमे। सूते सूते। संवत्सरे संवत्सरे। किंसंकिंसम्। बिसंबिसम्। मुसलंमुसलम्। गोसनिमश्वसनिम्। सवनादिः।
न्यासः
सनोतेरनः। , ८।३।११०

"अनः" इति। अविद्यमानो नकारोऽस्येत्यर्थः। "गोषाः" इति। "षणु धाने" (धा।पा।१४६४)। गां सनोतीति "जनसनखनक्रमगमो विट्()" ३।२।६७, "विङवनोरनुनासिकस्यात्()" ६।४।४१ इत्यात्त्वम्()। "गोसनिम्()" इति। "स्तम्बशकृतोरिन्()" ३।२।२४ इत्यत इन्नित्यनुवत्र्तमाने "छन्दसि वनसनरक्षिमयाम्()" ३।२।२७ इतीन्प्रत्यवः। ननु "पूर्वपदात्()" ८।३।१०८ इत्येव गोषा इत्यादौ षत्वं सिद्धम्()। तत्किकर्थमिदमित्याह--"पूर्वपदादित्येव" इति। अविद्यमाननकारस्यैव भवति; नान्यस्येत्येव नियमो यथा स्यादित्येवमर्थमेतत्()। यद्येवम्(), गोसनिमिति न नियमस्य फलम्(), सवनादित्वात्()? इत्याह--"अत्र" इत्यादि। इतिकरणो हेतौ। यस्मात्सवनादिषु पाठाद्()गोसनिशब्दो नियमस्य फलं न भवति, तस्मात्? केचित्? सिसानयिवतीति प्रत्युदाहरन्ति। "सिसनीरित्यपरे" इति। सनोतेण्र्यन्तस्य सनि रूपम्()--सिसानयिषतीति। अत्र यदि नियमार्थमेतन्नोच्येत, तदा स्तौतिण्योरेव ८।३।६१ षत्वं स्यात्()। अ()स्मस्तु सति न भवतीति ण्यन्तस्मोदाहरणम्()। अम्यन्तस्य स्तीतिण्योरेव (८।३।६१) इत्यत एव नियमात्? षत्वनिवृत्तेः सिद्धत्वात्()। सिसनोरोति--सनोतेः सन्(), इट्(), द्विर्वचनम्(), सनः सकारस्य णत्वम्(); सिसनिष इति स्थिते क्किप्(), अतो लोपः ६।४।४८, षत्वस्यासिद्धत्वाद्रूत्वम्(), "र्वोरुपदाया दीर्घ हकः" ८।२।७६ इति दीर्घः। सिसनीरिति स्थितेऽत्र सनः वत्वभूतस्याभावात्? स्तौतिण्योरेव ८।३।६१ इत्येषे नियमो न प्रवत्र्तते। अत्र यदीदं नोच्येत, "आदेशप्रत्यययोः" ८।३।५९ इति मूर्धन्यः स्यात्(); अ()स्मस्तु सत#इ न भवति॥