कोऽहम् ?

कोऽहम् ?

॥ हृदयकमलवासिने श्रीमते रमणाय नमः ॥ आमुखम् भूमण्डलहृदयात्मके स्मरणान्मुक्तिदेऽस्मिन्नरुणाचलदिव्यक्षेत्रे विरूपाक्षगुहायां भगवतः श्रीरमणस्याद्भुत कठिन मौनतपस्समाधि- योगेन स्वनिकटमाकृष्टेषु बहुषु जनेष्वन्यतमेन शिवप्रकाशं पिळ्‍ळै नामकेन केनचिद्भक्तेन १९०१-१९०२ क्रिस्तु शकाब्दे महर्षीनभिगम्य मम तत्त्वोपदेशेनानुग्रहः कर्तव्य इति भक्तिश्रद्धाविनयादि पुरस्सरं प्रार्थनां कृत्वा परिपृष्टानां प्रश्नानां, तदा तदा मौनिना महर्षिणा द्राविडभाषायां लिखित्वा दत्तमुत्तरमिदं प्रश्नोत्तराकारं केरळादि नानादेशभाषानूदितमपीदानीं गीर्वाण वाण्यामनूद्यमानं विजयतेतमाम् ॥ ॥ शुभम् ॥ ॥ ॐ नमो भगवते श्रीमते रमणाय ॥ कोहम् ? सर्वेषामपि जीवानां दुःखानुषङ्गं विनाऽऽत्यन्तिक सुखित्वकामनायास्सत्वेन सर्वेषां स्वस्मिन्परमप्रेम्णो विद्यमानत्वेन च, प्रेम्णश्च सुखनिदानत्वेन, मनोविहीनायां निद्रायां दिने दिने स्वयमनुभूयमानं स्वस्वाभाविकं तत्सुखमुपलब्धुं स्वेन स्वस्य ज्ञानमावश्यकम् । तस्य `` कोहम् '' इति विचार एव मुख्यं साधनम् । प्रश्नः १ ॥ कोहम् ? उत्तरम् ॥ सप्तधातुभिर्निष्पन्नोऽयं स्थूलदेहो नाहम् । शब्दस्पर्शरूपरसगन्धाख्यान्पञ्चविषयान्पृथक्पृथग्विजानन्ति श्रोत्रत्वङ्गेन जिह्वाघ्राणाख्यानि ज्ञानेन्द्रियाणि पञ्चापि नाहम् । वचनगमनादानविसर्गानन्दाख्य पञ्चकृत्यकराणि वाक्पादपाणि- पायूपस्थरूपाणि पञ्चकर्मेन्द्रियाणि च नाहम् । श्वासादि पञ्चकार्यकराणि प्राणादयः पञ्चवायवोऽपि नाहम् । सङ्कल्पात्मकं मनोऽपि नाहम् । सर्वविषय सर्वकार्यशून्यं, सर्वविषयवासनामात्रवासितमज्ञानमपि नाहम् । प्रश्नः २ ॥ एतत्सर्वं नाहमितिचेत्तर्हि कोहम् ? उत्तरम् ॥ एवमेतत्सर्वं नाहमिति नेति कृत्वाऽवशिष्ट ज्ञप्तिरेवाहम् । प्रश्नः ३ ॥ ज्ञप्तेस्स्वरूपं किम् ? उत्तरम् ॥ ज्ञप्तेस्स्वरूपं सच्चिदानन्दम् । प्रश्नः ४ ॥ स्वरूपदर्शनं कदानुलभ्येत ? उत्तरम् ॥ दृश्ये जगति निवारिते दृग्स्वरूपदर्शनं जायेत । प्रश्नः ५ ॥ दृश्ये जगति (प्रतिभासमाने) सति स्वरूपदर्शनं न जायेत किन्नु ? उत्तरम् ॥ न जायेत । प्रश्नः ६ ॥ कुतः ? उत्तरम् ॥ दृक्, दृश्यं च रज्जुवत्सर्पवच्च भवति । कल्पित सर्पज्ञानविनाशाभावे तदधिष्ठान रज्जुज्ञानं यथा नोदेति, तथा कल्पित जगद्दृष्टि विनाशाभावे तदधिष्ठान स्वरूपदर्शनं न जायेत । प्रश्नः ७ ॥ दृश्यं जगत्कदा विनष्टं स्यात् ? उत्तरम् ॥ सर्वविज्ञानानां, सर्वकार्याणां च साधारण कारणे मनसि लीने जगल्लीनं स्यात् । प्रश्नः ८ ॥ मनसस्स्वरूपं किं तर्हि ? उत्तरम् ॥ आत्मस्वरूपनिष्ठा काचनातिशयित शक्तिरेव मन इत्येतन्नाम । तदेव सकलस्मरणान्यपि जनयति । सर्वाण्यपि स्मरणानि निषिध्य निरोधेकृते न पृथङ्मनसस्स्वरूपं किञ्चिदुपलभ्यते । ततश्च स्मरणमेव मनसस्स्वरूपम् । स्मरणानि विहाय नान्य- त्किञ्चिज्जगत्तत्त्वमस्ति । निद्रायां स्मरणं नास्ति, जगदपि नास्ति । जाग्रत्स्वप्नयोस्स्मरणानि सन्ति, जगदप्यास्ते । यथोर्णनाभिस्स्वस्मा- त्तन्तून्बहिरुद्भाव्य स्वस्मिन्नेव पुनरपि समाकर्षयति, तथा मनोपि स्वस्माज्जगदुद्भाव्य स्वस्मिन्नेव पुनरपि विलापयति । मनस्स्वात्मनो यदा बहिर्मुखं भवति, तदा जगद्भायात् । ततो भाति च जगति न स्वरूपं भायात् । स्वरूपे भाति सति न जगद्भायात् । मनसस्स्वरूपे क्रमेण विचार्यमाणे, मनः स्वं भवति । स्वमात्मस्वरूपमेव । मनश्च स्थूलं किञ्चित्सततमवलम्ब्यैवं तिष्ठेत् । नानवलम्ब्य पृथक्तिष्ठेत् । मन एव सूक्ष्मशरीरमिति जीव इति च व्यवह्रियते । प्रश्नः ९ ॥ मनसस्स्वरूपं विचार्य विज्ञातुं को वा मार्गः ? उत्तरम् ॥ देहेऽस्मिन्न्``अहम्''इति यदुत्तिष्ठति, तदेव मनः । अहमिति स्मृतिश्च देहेऽस्मिन् क्व नु विभासत इति विमार्गिते `` हृदय ''- इति प्रत्यवभासेत । तदेव मनसो जन्मस्थानम् । ``अहं'' ``अहं'' इत्यावृत्ति मात्रेकृतेपि तत्रैवा (हृदय एव)-न्ततः प्राप्तिस्स्यात् । मनसि जायमानानां सर्वेषामपि सङ्कल्पानां अहमिति सङ्कल्प एव प्रथमस्सङ्कल्पः । प्रथमं मनस्सङ्कल्पे जात एवान्ये सङ्कल्पास्समुज्जृम्भन्ते । उत्तम पुरुषो (अहमि)-द्भवानन्तरं हि प्रथम मध्यमौ विज्ञायेते । उत्तम पुरुषं विना प्रथम मध्यमौ नैव भवतः । प्रश्नः १० ॥ मनः कथं विलीयेत ? उत्तरम् ॥ `` कोहम् ''इति निरन्तरविचारेणेनैव मनो विलीयेत । अहं क इति स्मृतिः स्वेतर सकलस्मृतीः प्रविलाप्य शवदाहक दण्डवत्स्वयमप्यन्ततो विलीयते । ततश्च स्वरूपदर्शनं भवेत् । प्रश्नः ११ ॥ `` कोऽहम् ''इति विचारं सर्वदावलम्बितुमुपायः कः ? उत्तरम् ॥ बाह्यसङ्कल्पेषु जातेषु, तान्परिपूरयितुमप्रयतमान एव `` एते सङ्कल्पाः कस्योदिता '' इति विचारं कुर्यात् । जायन्तां नाम कियन्तो वा सङ्कल्पाः । एकैकस्मिन्सङ्कल्पे समुद्भूते, तत्काल एव `` कस्यायमुद्भूत '' इति सावधानं यदि विचार्यते तदा `` ममेति '' प्रतिभासेत । ``अहं क''इति विचारिते च मनस्स्वजन्मस्थानं प्रत्यावर्तेत । अनवरतमेवमभ्यासे कृते तत्पाटवेन मनस्स्वजन्मस्थान एव चिरकालावस्थिति शक्तिरभिवर्धेत । सूक्ष्ममिदं मनो बुद्धीन्द्रियद्वारा बहिर्मुखी भवति चेत् स्थूलानीमानि नामरूपाणि जानाति । हृदय एव प्रत्यवतिष्ठते यदि, तदा नामरूपाणि न जानाति । बहिर्मुखविषय- प्रवृत्तेर्मनः प्रत्यावृत्य हृदयावस्थापनमेव `` अहं मुखम्''इति ``अन्तर्मुखम्''इति च गीयते । हृदयाद्बहिःप्रवृत्तिरेव `` बहिर्मुखम् ''इत्युच्यते । एवं मनसि हृदय प्रतिष्ठिते सति सकलसङ्कल्पविकल्पकारणमहं विलीनं सत्सार्वदिक स्वस्वरूपमात्रं प्रकाशेत । सर्वमपि कार्यमहङ्कारं परित्यज्य कुर्यात् । तथा कृते सर्वमपि शिवस्वरूपं भासेत । प्रश्नः १२ ॥ मनोनिग्रहार्थमन्य उपायाः किं न सन्ति ? उत्तरम् ॥ मनोनिरोधे विचारं विना नान्ये समुचितास्सन्त्वुपायाः । उपायान्तरावलम्बनेन मनोनिग्रहाय प्रवृत्तौ, मनोनिगृहीतमिव भूत्वा पुनरपि बहिरुद्भवेत् । प्राणायामेनापि मनोनिरुद्धं भवति । किन्तु प्राणरोधो यावत्कालं भवति तावत्कालपर्यन्तं मनो निरुद्धमिव भूत्वा, प्राणे (निरोधावस्थां विहाय) बहिःप्रवृत्ते स्वयमपि बहिर्मुखी भूय वासनावशान्मनोऽपि ततस्ततो धावेत् । मनसः प्राणस्य च जन्मस्थानमेकमेव । मनसस्सङ्कल्पमेव स्वरूपम् । `` अहम् ''इति सङ्कल्पनमेव मनसः प्रथमसङ्कल्पः । तदेवाहङ्कारो नाम । अहङ्कारश्च यतो निष्पद्यते तत एव प्राणोऽपि निष्पद्यते । ततश्च मनसि निगृहीते प्राणः प्राणे प्रगृहीते मनश्च विलीयते । परन्तु सुषुप्तौ मनसि प्रलीनेपि प्राणो न प्रलीयते । देहसंरक्षणनिमित्तं `` मृतोवायं देह '' इति मध्यस्थ शङ्काव्यवच्छेदनार्थं चैवं प्राणजागरणमीश्वरनियतिसिद्धं विजयते । जाग्रति, समाधौ च विलीनावस्थे मनसि, प्राणोऽपि विलीयते । मनसस्स्थूलरूपमेव प्राण इति भवति । आप्रायणाच्छरीरे प्राणमवस्थाप्य प्रायणसमये मन एव प्राणमाकृष्य गच्छति । तस्मात्प्राणस्पन्दनिरोधो मनोलयोपायो भवन्नपि न तन्नाशोपायो भवति । प्राणायाम इव मूर्तिध्यानमन्त्रजपाहारनियमाद्याश्च मनोनिरोधे साहाय्यमात्रं कुर्वन्ति । मूर्तिध्यानेन मन्त्रजपेन च मन एकाग्रतामश्नुते । मनश्च सदा चञ्चलस्वभावमेव वर्तते । वेतण्डस्य शुण्डादण्डे समर्पितायां श‍ृङ्खलायां स च यथा तामेवान्यद्वस्तु विहायावलम्बमानो गच्छति, तथा मनोऽपि किञ्चिन्नामरूपं चिराभ्यासगोचरितमेवावलम्बेत । अनवधिकासङ्ख्येय सङ्कल्पविकल्पादि वृत्तिभेदैर्मनसो विकासप्राप्तौ एकैकस्यास्सङ्कल्पव्यक्तेर्दौर्बल्यं, नैष्फल्यं च भवति । सङ्कल्पेषु क्रमेणोपशमं प्रापितेष्वेकाग्रता सिद्धिद्वारा प्राबल्यं प्राप्तस्य मनसस्स्वात्मविचारसिद्धिरति सुलभा भवति । सकलनियमश्रेष्ठेन हितमितमेध्याशननियमेनोद्भूत सत्त्वगुण भूयिष्ठं मन एवात्मविचारान्तरङ्गसाधनं भवतीति सोपि साहाय्यमश्नुते । प्रश्नः १३ ॥ विषयवासनाजनितास्सङ्कल्पाः समुद्रोच्चलत्तुङ्गतरङ्गभङ्गा इव सन्ततं हि सम्भवन्ति । ते च कथं वा कदा वा प्रशमं प्राप्नुयुः ? उत्तरम् ॥ पटुतम स्वस्वरूपध्याने क्रमेणोदिते ते सर्वे विनश्येयुः । प्रश्नः १४ ॥ अनादिकालागताखिलविषयवासनास्स्वस्मिन्प्रविलाप्य केवल स्वरूपमात्रतयावस्थानं सम्भवति वा ? उत्तरम् ॥ स्वरूपमात्रावस्थितिस्सम्भवति वा न वेति सन्देहात्मक सङ्कल्पस्याप्यवकाशमप्रदाय स्वरूपानुसन्धानमेव सुदृढतया हठादवलम्बनीयम् । अपि चेत्सुदुराचाररतः पापी कश्चित्सोऽपि `` अहं पापकारी जातः कथं वा मोक्षतीरं प्राप्नुयाम् ``इति सन्तापचिन्तां समूल्यमुन्मूल्य स्वरूपध्यानतत्परो भवति चेन्नूनं कृतकृत्यो मुक्तो भवति । शोभनं मनः अशोभनं मन इति न मनस्स्वरूपतो द्विविधं वर्तते । एकमेव मनः । किन्तु वासना एव शुभा अशुभा इति द्विविधा भवन्ति । यदि शुभवासनान्वय- वशगं मनो भवति तदा शुभमिति अशुभवासनान्वयवशगं यदा तदा तदशुभमिति व्यवह्रियते । प्रपञ्चविषयेषु अन्य कार्येषु च न मनः प्रचोदयात् । अन्येषां दुस्स्वभाववत्वेऽपि तेषु द्वेषो न कार्यः । रागद्वेषावुभावपि हेयौ स्तः । परस्य क्रियमाणस्सर्वोप्युपकारस्स्वस्यैव क्रियमाणो भवति । एतत्तत्त्वं ज्ञायते यदि, कोवान्यस्मै नोपकर्तुं प्रयतेत । अहम्युद्भूते सर्वमप्युद्भवति । अहम्युपशान्ते सर्वमप्युपशाम्यति । यावद्यावद्विनयेन सञ्चरामस्स्तावत्तावत्साधु भवति । मन उपशान्तिश्चेदाप्यते यत्र कुत्र वा निवासो न विरुद्धो भवति । प्रश्नः १५ ॥ विचारणा कियदवधि कर्तव्या ? उत्तरम् ॥ मनसि यावदवधि विषयवासना वसन्ति, तावत्कालपर्यन्तं ``कोहम्''इति विचारणानुसर्तव्या । यदा यदा विषयवासनाः प्रस्फुरन्ति, तदा तदा तदुत्पत्तिस्थान एव विचारेण विनाशं ताः प्रापणीयाः । यावत्स्वरूपमुपलभ्यते तावन्निरन्तरं स्वरूपस्मरणमेव कर्तव्यम् । तदेवालम् । प्राकारप्रविष्टाश्शत्रवो यावदन्तर्वसन्ति, तावत्ततो बहिरागच्छन्ति; बहिरागताश्च ते यदि छिद्यन्ते, तदा सात्मस्स्ववशो भवितुमर्हति । प्रश्नः १६ ॥ स्वरूपस्य कस्स्वभावः ? उत्तरम् ॥ आत्मस्वरूप एक एव यथार्थभूतः । जगज्जीवेश्वराश्शुक्ताविव रजतं तत्र कल्पिताः । जगज्जीवेश्वर त्रयमेतदेकस्मिन्नेव काल उद्भूय, एकस्मिन्नेव समये तिरोभवति । अहमिति धीः किञ्चिदपि नास्ति, तदेव स्थानं स्वरूपमुच्यते । तदेव `` मौनम् ''इति चाभिधीयते । स्वरूपमेव जगत् । स्वरूपमेवाहम् । स्वरूपमेवेश्वरः । सर्वं खल्विदं शिवस्वरूपमेव । प्रश्नः १७ ॥ सर्वमिदमीशाधीनं ननु ? उत्तरम् ॥ इच्छासङ्कल्पप्रयत्नमन्तरा समयाद्युषिते सवितरि तत्सन्निधिमात्रेणायस्कान्तस्यानलोद्वमनं तामरसकुसुमस्य विकासः सलिलानां संशोषणं लौकिकानां सर्वेषामपि जनानां स्वस्वकार्येषु प्रवृत्तिः कान्तोपलसन्निधौ सूचिकाचेष्टा च यथा भवति, तथा ईशस्य सन्निधिविशेषमात्रेण प्रवृत्तस्य सृष्ट्यादि कृत्यत्रयस्य वा पञ्चकृत्यस्य वा, जीवाः परवशीभूय स्वस्वकर्मानुसारेण चेष्टित्वा विनिवर्तन्ते । किन्तु स ईश्वरस्सङ्कल्पसहितो न भवति । न च तानि सृष्ट्यादि कर्माणि तं लिम्पन्ति । यथा सूर्यं लोककृतानि कर्माणि न लिम्पन्ति, यथा वा च चतुर्भूतगुणा आकाशं न समवयन्ते, तादृगेवैतत् । प्रश्नः १८ ॥ भक्तेषु को वा भक्तो विशिष्यते ? उत्तरम् ॥ यः खलु स्वात्मानमेव भगवति स्वेमहिम्नि स्वरूपे समर्पयति, स एव विशिष्टो भक्तिमत्सु । आत्मचिन्तातिरिक्ता नात्मचिन्तायाः किञ्चिदप्यन्तरमप्रदायात्मनिष्ठा तत्परतैव भगवत् स्वात्मसमर्पणं नाम । भगवतिसमर्पितं सर्वमपि भरन्यासं स च संवहति । पारमेश्वरी काचनशक्तिः कार्यजातं सर्वं निर्वहति । तत्र भरन्यास पुरस्सरं तदधीनतास्थितिं विहाय `` एवं कर्तव्यं, मनेवं कर्तव्यं '' इत्येवं नस्सन्तत चिन्तया किं ? धूमशकटे सकलभारवाहिनि ज्ञाते सति तदारुह्य गच्छद्भिरस्माभिस्स्वकीयमल्पमपि मूतं तत्रैव प्रक्षिप्य सुखेनावस्थातुमशक्नुवद्भिस्तन्मूत तत्रापि स्वशिरसि समुदूह्य किमर्थं दुःखमनुभोक्तव्यम् ? प्रश्नः १९ ॥ वैराग्यं नाम किम् ? उत्तरम् ॥ सर्वेषामपि सङ्कल्पानामुत्पत्तिस्थान एवाऽऽत्यन्तिक विनाश सम्पादनमेव वैराग्यं भवति । जलधिजठरगतं मुक्ताफलं गृहीतुं, कटितटे किमपि शिलाखण्डं समाबद्ध्य, जलधिजठर- मनुप्रविश्य, यथा लोके तदुपलभ्यते, तथा मुमुक्षवोऽपि वैराग्यादि साधनसम्पत्त्या स्वयमेव स्वान्तरमनुप्रविश्य स्वात्ममुक्ताफल- मुपलभेरन् । प्रश्नः २० ॥ ईश्वरेण गुरुणा च जीवा मोचयितुं शक्यन्ते वा ? उत्तरम् ॥ ईश्वरो गुरुश्च मोक्षोपयोगमार्गप्रदर्शकावेव । न खलु स्वयमेव जीवान्मोक्षं प्रापयतः । ईश्वरो गुरुश्च न परस्परं वस्तुतो भिन्नौ । व्याघ्रमुखपतितं प्राणिजातं यथा निर्जीवं भवति, तथाऽऽचार्यानुग्रह- दृष्टिनिपतितस्सर्वोपिप्राणी, निर्जीवामृतीभावसम्पादनेन संरक्ष्यत एव, न स जीवं परित्यक्ष्यते । सर्वोऽपि जीवस्स्वेन पौरुषेण प्रयत्नेन सर्वेश्वरेण गुरुणा वा सन्दर्शिते सम्यग्दर्शनमार्गे सावधानतया प्रवृत्तिं सम्पाद्य मुक्तिं प्राप्तुमर्हति । स्वेन ज्ञानचक्षुषा स्वमात्मानं स्वेनैव ज्ञातुं शक्यते । कथं खलु परेण ज्ञातुं शक्यते । न हि रामस्स्वमात्मानं राम इति ज्ञातुमादर्शमन्यमपेक्षते । प्रश्नः २१ ॥ मुक्तिकामस्य पुंसः ( प्रपञ्च ) तत्त्वविचारोप्यावश्य को वा ? उत्तरम् ॥ यथा दूरतः परित्याज्यस्यावकरनिकरस्य विपरिघट्टनेन न किमपि प्रयोजनं दृश्यते, तथा स्वात्मानं विविदिषुरपि पुमान् स्वात्मस्वरूपावारकानीमानि तत्त्वानि दूरतोऽपरित्यज्य, तानि कियन्ति, तेषां गुणाश्च कीदृश इति तेषां परिगणनेन वा विचारेण वा न किमपि फलमस्ति । अतश्च प्रपञ्चस्सर्वोऽपि स्वप्नसमानस्वभाव इति मुमुक्षिभिर्निर्णेतव्यम् । प्रश्नः २२ ॥ जाग्रतः स्वप्नस्य च परस्परं भेदो न किम् ? उत्तरम् ॥ जाग्रद्दीर्घकालं, स्वप्नः क्षणिक इति दीर्घत्व क्षणिकत्व भेदं विना नान्यो भेदोस्ति । जाग्रति जाता व्यवहारा यथा सत्याः प्रकाशन्ते, तथैव स्वप्नेऽनुभूयमानास्सर्वे व्यवहाराश्च तत्काले सत्यास्सन्दृश्यन्ते । किन्तु स्वप्ने जाग्रद्देहभिन्नं देहं मनो गृह्णाति । जाग्रत्स्वप्नयोर्द्वयोरपि विज्ञानानि, ज्ञेय नामरूपाणि च युगपदाविर्भवन्ति । प्रश्नः २३ ॥ मुमुक्षूणां शास्त्रपठनेन किमपि प्रयोजनमस्ति वा ? उत्तरम् ॥ शास्त्रेषु मुक्तिप्राप्तये मनोनिग्रहस्यैवोपाय- तयोपदेशेन, `` तेषां मनोनिग्रहोपाय प्रदर्शन एव परमं तात्पर्यम् ''इति सिद्धान्ततत्त्वे ( गुरुमुखात् ) अवगते सति बहुशास्त्राभ्यास परिश्रमेण न किञ्चिदस्ति प्रयोजनम् । स्वमनोनिग्रहार्थं स्वयमेव स्वस्मिन्स्वात्मानं `` कोऽहम् ''इति विचारं विहाय, कथं बहुशास्त्रविचारेण मनोनिग्रहस्सुलभो भवति ? स्वं स्वेनज्ञानचक्षुषा स्वस्मिन्स्वयमेव ह्यवगन्तव्यम् । स्वं च पञ्चकोशान्तरवभासते । शास्त्रग्रन्थाश्च पञ्चकोशबाह्यस्था भवन्ति । तस्मात्पञ्चकोशानपि `` नेति नेतीति '' निषिध्यान्वेष्टव्यस्स्वात्मा शास्त्रेष्वन्वेषणेन कथं ज्ञातुं शक्यते ? अतश्शास्त्रचर्चा वृथैव । अभ्यस्तमखिलं शास्त्रमपि कस्मिंश्चित्कालविशेषे विस्मरणीयतामियादेव । प्रश्नः २४ ॥ किं सुखम् ? उत्तरम् ॥ आत्मस्वरूपमेव सुखं भवति । सुखस्यात्मस्वरूपस्य च भेदो नास्ति । प्रपञ्चवस्तुषु कस्मिंश्चिदपि नास्ति सुखलेशोऽपि । तेभ्यस्सुखं भवतीति वयमविवेकादवगच्छामः । मन आत्मनो बहिरागमनकाले दुःखमनुभवति । अस्मन्मनोरथ परिपूर्तिसमयेषु सर्वेष्वप्यस्माकं मनस्स्वयथास्थानं प्राप्यैवात्मसुखमेवानुभवति । एवमेव सुषुप्ति समाधि मूर्छासु, इष्टप्राप्तिसमये, अनिष्टवस्तुवियोगक्षणे च मन अन्तर्मुखं सदात्मसुखमेवानुभवति । एवं मनः आत्मनोबहिरात्मनि च गमनागमने कुर्वदविश्रान्तं भ्रमति । तरोरधस्थाच्छाया सुखकरी भवति । तरोर्बहिः प्रदेशे भानोरूष्मा दुःखकरो भवति । बहिस्सञ्चारी पथिकः कश्चिच्छायामाश्रित्य शीतली भवति । एवं क्षणं स्थित्वा पुनरपि बहिर्गत्वा सूर्योष्मणा परिश्रान्तः पुनरपि तरुच्छायां प्राप्य सुखमनुभवति । एवं छायातः बहिर्गच्छन्, बाह्याच्छायामागच्छन् पथिको वर्तते । अयमीवं कुर्वाण एवाविवेकीति गीयते । विवेकी तु छायां परित्यज्य बहिरेव न गच्छेत् । एवमेव ज्ञानिनो मनोऽपि ब्रह्म कदाचिदपि न परित्यजति । अज्ञानिनां मनस्तु बाह्यप्रपञ्चे भ्रामं, भ्रामं दुःखमनुभूय, क्षणकालं ब्रह्म प्राप्य सुखं चानुभवति । मन एव जगत् । जगति तिरोहिते विस्मृतिं प्रापिते मनस्स्वानन्दमनुभवति । अतिरोहिते (भाति) जगति मनो दुःखमनुभवति । प्रश्नः २५ ॥ ज्ञानदृष्टिरित्येतत्किम् ? उत्तरम् ॥ तूष्णीं स्थितेरेव `` ज्ञानदृष्टि ''रिति व्यवहारः । मनसस्स्वात्मनि प्रविलापनमेव तूष्णीं भावावस्था । एवं स्थितिरेव ज्ञानदृष्टिरित्युच्यते । अन्याभिप्रायाभिज्ञता, त्रिकालज्ञातृत्वं, दूरदेशपदार्थग्रहणमित्येवमादयो न ज्ञानदृष्टि पदव्यपदेश्या भवितुमर्हन्ति । प्रश्नः २६ ॥ निराशाया ज्ञानस्य च कस्सम्बन्धः ? उत्तरम् ॥ निराशैवज्ञानम् । निराशाऽन्या, ज्ञान चान्यदिति न भवति । एतद्वयमपि वस्तुत एकमेव । आत्मनोन्यत्र मनसोऽप्रवृत्तिरेव निराशेति निरुच्यते । आत्मनोन्यस्य कस्यचिदप्रतिभास एव ज्ञानमिति व्यपदिश्यते । अन्यत्राऽप्रवृत्तिर्वैराग्यमथवा निराशा भवति । स्वस्वरूपापरित्याग एव ज्ञानम् । प्रश्नः २७ ॥ विचारस्य ध्यानस्य च को भेदः ? उत्तरम् ॥ स्वात्मनि मनसो धारणमेव विचारः । स्वात्मनः ब्रह्मेति, सच्चिदानन्दमिति च निरन्तरभावनं ध्यानं भवति । प्रश्नः २८ ॥ मुक्तिः का ? उत्तरम् ॥ बद्धः अहं क इति विचारेण स्वयथार्थस्वरूपं विदित्वा तन्निष्ठतैव मुक्तिः । ॥ शुभमस्तु ॥ ॥ श्री रमणार्पणमस्तु ॥ वि. जगदीश्वरशास्त्री ॥ ८-१०-१९४१ http://www.sriramanamaharshi.org/resource\_centre/publications/who-am-i-books/ Encoded and proofread by Sunder Hattangadi
% Text title            : Who am I ? Koham Nan Yaar
% File name             : kohamRamanaMaharshi.itx
% itxtitle              : ko.aham (ramaNamaharShI prashnottaraH)
% engtitle              : Who am I ? koham
% Category              : deities_misc, jagadIsha-shAstrI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Jagadisha Shastri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : translation of Ramana Maharshi's 'Nan-Yar' in Tamil
% Source                : http://www.sriramanamaharshi.org/resource_centre/publications/who-am-i-books/
% Indexextra            : (sriramanamaharshi)
% Acknowledge-Permission: http://www.sriramanamaharshi.org
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org