स्वामिविवेकानन्दोपदेशद्विशतिः

स्वामिविवेकानन्दोपदेशद्विशतिः

अवतारः स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे । अवतारवरिष्ठाय रामकृष्णाय ते नमः ॥ १॥ रामकृष्णावतारे तु स्थितं सर्वमनन्तकम् । अनन्तप्रेम, भक्तिश्चानन्ता,ज्ञानमनन्तकम् ॥ २॥ सहस्रयुगपर्यन्तं यल्लब्धं विश्वहिन्दुभिः । रामकृष्णेन तल्लब्धमेकस्मिन्नेव जन्मनि ॥ ३॥ सर्वजातीयवेदानां रामकृष्णस्य जीवनम् । विद्यते भाष्यरूपं तद्वेदार्थानां प्रकाशने ॥ ४॥ कस्यापि देशस्य गतेतिहासे न तादृशो धर्मसमन्वयोऽस्ति । प्रत्यक्षमीशः खलु रामकृष्णो लघुर्मतोऽस्य त्ववतारवादः ॥ ५॥ यस्मिन्दिनेऽसौ नरजन्म लेभे तस्माद्दिनात्सत्ययुगं प्रवृत्तम् । भेदा विवादास्त्वखिला विनष्टाः अस्पृश्यवर्गः प्रियतामुपेतः ॥ ६॥ लुप्तो हिन्दुख्रिस्तमोहम्मदीय- बौद्धादीनां भेदभावः समन्तात् । एको वर्णो वेद एकोऽधुनास्ते शान्तिस्थानं नूतनं भारतं नः ॥ ७॥ ``भक्तिज्ञाने कर्मयोगौ समेत्या- भेदः सम्पद्येत सद्भावनानाम् । जायेतैवं नः समाजो नवीनः'' प्रेष्ठः श्रेष्ठश्चावतारोपदेशः ॥ ८॥ ``विश्वासोऽस्तु'' गुरोर्वाचि निश्चिता भारतोन्नतिः । कर्तव्याः सुखिनः सर्वे निःस्वाः साधारणा जनाः ॥ ९॥ देशभक्तिः उमानाथस्तवोपास्यः सर्वत्यागी च शङ्करः । धनजीवनसौख्यानि न सन्त्यात्मसुखाय ते ॥ १०॥ बलिस्वरूपो जनितोऽसि मातु- श्छाया विराजस्तव यः समाजः । विपन्नचण्डाल दरिद्रमूर्खा- स्त्वद्रक्तमांसान्वितबान्धवास्ते ॥ ११॥ उच्चैर्वचो ब्रूहि सधैर्यगर्वो ``भ्राता मदीयः खलु भारतीयः । स ब्राह्मणो वास्त्वथवातिशूद्रः स निर्धनो वास्तु निरक्षरो वा ॥ १२॥ ममेश्वरो भारतदेवदेव्यो मातुः शुभं यत्कुशलं मदीयम् । दत्त्वा बलं मे बलिनी पुनस्त्वं मां मातरित्थं पुरुषं विधेहि ॥ १३॥ ग्रस्यते मृत्युना जन्तुरेकवारं स्वजीवने । मातुरुन्नतये तस्मात्साहसं कुरु साहसम् ॥ १४॥ द्यौरुत्तमा भारतभूर्ममेयं दोलास्वरूपा मम बाल्यकाले । यूनस्तथा सुन्दरनन्दनं च वाराणसीयं मम वृद्धभावे ॥ १५॥ तूष्णीं रहः सिक्ततुषारसम्पत् सम्पर्कतः पाटल-कुङ्मलानाम् । विकासवत् विश्वचारधारां, प्रभाविता भारतभाववृन्दैः। ॥ १६॥ आप्लाव्यते विश्वमदम्यशक्त्या विना निनादं खलु भारतेन । ध्रुवं नवीनं युगमाविरास्ते न ज्ञायते तु प्रभवः कुतस्त्यः ॥ १७॥ नाशोन्मुखं नः किमु भारतं स्या- दहो तदाध्यात्मिकताविनाशः । गता ध्रुवं धर्मसहानुभूति- र्मृता सदाचारवार्ता ! ॥ १८॥ विनाशितादर्शजगत्प्रभावता प्रतिष्ठिता चाशु विलासिता भवेत् । प्रतारणा पाशविकं बलं विधि-। र्धनं पुरोधा बलिरस्मदात्मन ! ॥ १९॥ न भारतं रुद्धसमुन्नति स्या- न्न चैति निद्रावशतामिदानीम् । शक्तिः पुनः कालमिमं विजेतुं। सन्त्यक्तनिद्रः खलु कुम्भकर्णः ॥ २०॥ ऊर्जस्विकालायसनिर्मिताभि- र्वज्रं वपुः स्नायुशिराभिरस्तु । सेवार्थमस्मत्प्रियमातृभूमे- रीहा बलं चास्तु यद्वितीयम् ॥ २१॥ अनेन सद्यत्नपरा भवेम प्राप्तुं वयं विश्वरहस्यबोधम् । उदन्वदन्तस्तलमभ्युपेम प्राणव्ययेनाप्युदयार्थसिद्‍ध्यै ॥ २२॥ कालोऽयं कठिनश्रमस्य भवतो भ्रातर्वचः श्रूयता- मुत्थाय द्रुतमारभस्व समये मन्येऽतिनिद्रा तव । माता प्राप्तनिजासना बलवती तन्द्राभिभूता मनाक् तस्या आयतिरुज्ज्वला परमसौ युष्मत्प्रयत्नाश्रया ॥ २३॥ भविष्यन्महद्भारतं कर्तुमीहा यदि स्यादुपायत्रयं संविधेयम् । अदम्यं बल निर्मितिः सङ्घशक्ते- र्विकीर्णा समीहा तथैकत्वसूत्रा ॥ २४॥ आयान्तु मित्राणि भवन्तु वीरा बहिर्विनिर्गत्य निजान्धकूपात् । विधाय दृष्टिं परितो विशालां पश्यन्तु राष्ट्राणि कथं प्रयान्ति ॥ २५॥ प्रेमास्ति चेन्मानवजातिमात्रे स्वजन्मभूमौ च तथा त्वदीयम् । आयाहि गन्तुं पुरतो न पश्चाद् यतामहे सत्तमलक्ष्यसिद्‍ध्यै ॥ २६॥ तुदन्तु सुहृदः सर्वे रुदन्तु तव बान्धवाः । श्रेयसी न गतिः पश्चान्नित्यमग्रगतिर्भवेः ॥ २७॥ उपेक्ष्यते यज्जनताजनार्दनो महत्तदंहः क्रियते निरन्तरम् । ध्रुवं हि तन्नः पतनस्य कारणं न विस्मरातो जनतासमुन्नतिम् ॥ २८॥ निष्फला राजनीतिः स्यात्समुदायकृतेन या । तत्तच्छिक्षान्नवासानामुपायान् परिचिन्तयेत् ॥ २९॥ न तादृशे विश्वसिमीश्वरेऽहं यो मह्यमन्नं न ददाति भूमौ । प्रयोजनं स्वर्गसुखेन किं मे शिक्षान्नशून्या यदि भारतीयाः ॥ ३०॥ ईर्षां द्वेषं परित्यज्य सहान्यैर्भव सोद्यमः । स्वदेशबन्धुवर्गार्थमिदमावश्यकं परम् ॥ ३१॥ उत्थाय धारय धुरं त्वरितं जगत्यां जानासि जीवितमिदं क्षणभङ्गुरं ते । जातोऽसि यत्किमपि लक्ष्म त्यज स्वकीयं जाताः स्थिताः कति न वा पशवो म्रियन्ते ॥ ३२॥ भयं पुत्र! परित्यज्यानिशमग्रेसरो भवेः । निर्भीका एव शोभन्ते नराः केसरिणो यथा ॥ ३३॥ विमुक्त्यै देशस्य प्रयतनपरोऽथास्य जगतो भव, त्वय्येवास्ते श‍ृणु सकलसेवाभरधृतिः । उदेत्वन्तर्ज्योतिः सततमधिजीवात्मनिहितं रुचिर्वेदान्तस्य प्रतिगृहमिदानीं प्रविशतु ॥ ३४॥ आदौ समाल्पावितमस्तु भावै- राध्यात्मिकैररुन्नतभारतं नः । ततोऽनु सामाजिक राजकीय- विचारधाराभिरुदेतु कार्यम् ॥ ३५॥ आजीवनं भवत कार्यपरा, भवत्सु स्थित्वाद्य मृत्युमनु चापि भवेन्ममात्मा । आयाति याति ननु पार्थिवजीवनं नो नित्यानि किं विभवमानयशःसुखानि ? ॥ ३६॥ द्वावेव भवदादर्शौ सेवा त्यागस्तथा तयोः । चेद् भारतेन तादात्म्यं शेषं सम्पत्स्यते स्वयम् ॥ ३७॥ अभिलषसि यदि त्वं भारत! स्वां समृद्धिं विकिर जगति सर्वं रत्नजातं स्वकीयम् । अपरजनपदेभ्यः प्राप्तुमिच्छेर्यदुच्चं ग्रहणमथ च दानं लौकिको धर्ममार्गः ॥ ३८॥ प्रत्यग्गतौ यदभवन्मम हार्दपात्रं तीर्थं पवित्रमधुना मम भारतं तत् । प्रत्यागतोऽत्रजरजः शिरसा वहामि पुण्यो वहन्निह विभाति कथं समीरः ॥ ३९॥ विश्वासो बलं च अनन्तं बलमेव स्यात्परो धर्मः परेश्वरः । दौर्बल्यं परिहर्तव्यं दास्येन च सहात्मनः ॥ ४०॥ बलं जीवनं दुर्बलत्वं च मृत्यु- र्बलं शाश्वतं स्यादलं सिद्धिबीजम् । बलं सौख्यकृद् दुर्बलत्वं च दुःखं बलान्यर्जयध्वं बलान्यजयध्वम् ॥ ४१॥ ``बद्वोऽस्मि मूर्खोऽस्मि च दुर्बलोऽस्मि'' त्वयोच्यते चेत्तव दुर्भगत्वम् । दौर्बल्यचिन्ता न सखे विधेया प्रत्यात्मसंस्थं बलमाविरस्तु ॥ ४२॥ बलं परं जीवनमार्गदर्शकं क्रियाप्रधाने जगतीह सर्वशः । परित्यजेर्दुर्बलतानुसारतां समुद्यमे सा प्रतिबन्धिका यतः ॥ ४३॥ श्रद्धत्त यूयं मम वीरमित्रा- ण्यत्रागता उन्नतकार्यहेतोः । क्षुद्रश्वशब्दादथवापि वज्रा- दभीरवः कर्म निजं कुरुध्वम् ॥ ४४॥ तेजस्विनो जना अद्धा श्रद्धावन्तो बलान्विताः । निर्मलान्ता अपेक्ष्यन्ते पुरुषास्तु सपौरुषाः ॥ ४५॥ सर्वेऽपि दोषाः प्रभवन्त्यशक्ते- रशक्तिरंहःकरणेऽपि शक्ता । स्वार्थस्य मूलप्रभवोऽप्यशक्ति- स्तयैव लोकाः कलहे प्रवृत्ताः ॥ ४६॥ भ्रातर्वृथायं भवदश्रुपात- स्त्वय्येव नास्ते निहितं बलं किम ? । स्वां चेद्विजानासि बलिष्ठ! शक्तिम् । सर्वं जगत्त्वत्पदलग्नमेव ॥ ४७॥ सप्रेमभावैः सबलैर्मनुष्यैः सत्यानुरागैरधुनास्ति कार्यम् । प्रतारकैः किं क्रियते सुकार्यं तस्मात्सखे दर्शय पौरुषं ते ॥ ४८॥ शैत्यं क्षुधा पार्थिवजीवनं च न किञ्चिदीशो बलनायको नः । अदम्यविश्वाससहानुभूती आस्तां पुरस्तादनिशं पुरस्तात् ॥ ४९॥ कदापि पश्चान्न विलोकनीयं चिन्त्यं न ``कर्तव्यपथे पतेत्कः'' । नित्यं वयं भोः पुरतो व्रजामः कश्चित्पतत्यन्यतरोऽभ्युपैति ॥ ५०॥ असीमधैर्यं च समुद्यमश्च महांश्च कार्यक्षमता गुणोऽपि । आज्ञाकरत्वं मिलितानि सन्ति व्यक्तेश्च राष्ट्र्स्य यशस्कराणि ॥ ५१॥ अपेक्ष्यते व्यक्तिबलिष्ठतादौ श्रद्धाथ लक्ष्यं प्रति तत्परत्वम् । एतत्समग्रं त्वयि विद्यते चे- त्कश्च्यावयेत्त्वां निजकार्यमार्गात् ॥ ५२॥ त्यागः दानशीलता च श्रूयतां निश्चिते मृत्यावादर्शोऽस्तु महांस्तव । वरं मृत्युमुखे वासो महादर्शस्य पालने ॥ ५३॥ विकिरतितरां कोऽस्मिंल्लोके प्रकाशपरम्परां ? गतयुगगतो धर्मस्त्यागः पुनः समुदेष्यति । जगति सदयाः स्वात्मोत्सर्गप्रसक्तहृदो ध्रुवं बहुजनहितश्रद्धा बुद्धाः शतं प्रभवन्तपि ॥ ५४॥ निस्वार्थः सर्वदा कर्मण्यधिकं फलमश्नुते । तथा त्वाचरणं कर्तुं नरा धैर्यं न कुर्वते ॥ ५५॥ आस्ते जीवनमेव भङ्गुरमिदं तुच्छोऽभिमानस्तथा यत्सांसारिकभोगजातमखिलं नानाविलासान्वितम् । यो जीवेदपरार्थसाधनकृते तस्यैव जन्मोज्ज्वलं प्राणन्तोऽपि मृतोपमाः खलु नरा ये स्वार्थिनः केवलम् ॥ ५६॥ कल्याणाय स्वराष्ट्रम्य सर्वस्य जगतस्तथा । स्वात्मोत्सर्गविधेरयन्महत्कार्यं न विद्यते ॥ ५७॥ हिन्दो स्वाभाविकी श्रद्धा जीवितं शाश्वतं तव । तदर्थं चिन्तितः कस्मात्कल्याणं जगतां वरम् ॥ ५८॥ कल्याणं जगतां विधातुमनिशं वाञ्छन्ति ये सज्जना- रते सम्पत्सुखलाभमानयशसामीहां त्यजन्तु द्रुतम् । तेषां पोट्टलिकां विधाय सहसाऽगाधे क्षिपन्त्वम्बुधौ कुर्वन्त्वीशपदाम्बुजं स्वशरणं वाक्यं सतामीदृशम् ॥ ५९॥ औदार्यं प्रियतापि जन्तुषु भवेन्मित्रेष्वमित्रेषु च स्वान्तेऽनन्तसहानुभूतिरनिशं दुःखाभिभूते जने । सद्विद्याधनसम्पदन्वितनरेऽसूयानिवृत्तिस्ततथा दोषाविष्करणाद्विरक्तिरपरस्यैतत्सतां लक्षणम् ॥ ६०॥ सेवा प्रतिष्ठितश्चारुशरीरमन्दिरे त्वयात्मदेवः सततं निषेव्यताम् । प्रभुर्न चेत्त्वं प्रभुमत्र सेवितुं प्रयोजनं तेऽस्ति किमन्यमन्दिरैः ॥ ६१॥ नारीं नरं चाखिलजीवलोकं सेवस्व नारायणभावतस्त्वम् । दयाप्रदाने ननु कोऽसि तेषां सेवाप्रदानं चर धर्ममर्म ॥ ६२॥ शिवं सखे वन्दितुमीहसे चिरं शिवात्मजानां क्रियतां समर्चनम् । सम्पूजयेद्यः परमेशपुत्रकान् स एव साक्षाज्जगदीशपूजकः ॥ ६३॥ दुर्भिक्षदुःखगदपीडितलोकशोकं हर्तुं प्रयात भुवने भुवनेशतुष्ट्यै । प्राणव्ययादपि जनाः सुखिनः क्रियन्तां जाता हि पश्यत वृथा शतशो म्रियन्ते ॥ ६४॥ उच्चैः स्थितः करगुहीतपणो विनोदा- न्मा ब्रूहि ``भिक्षुक गृहाण दयापरोऽहम् ।'' दाता भवत्युपकृतोऽत्र परं ग्रहीत्रा सौभाग्यमेतदिह ते स्वसहायकर्तुः ॥ ६५॥ ईशः स्थितो दलितदुर्बलदुःखितेषु येऽर्हन्ति सेवनमलं प्रियबान्धवास्ते । तान्मृगयसे कथमोशमन्यं गङ्गातटे खनितुमिच्छति कोऽपि कूपम् ॥ ६६॥ यावज्जनाः सन्ति सहस्रशोऽन्ये शिक्षाविहीनाश्च बुभुक्षिताश्च । अर्थे न तेषां यदि शिक्षिताः स्मो तदा कृतघ्नात्खलु धिग्धिगस्मान् ॥ ६७॥ दुर्गतान्वीक्ष्य यत्स्वान्तं द्रवीभवति तत्क्षणात् । स महात्मा स्तुतेः पात्रं। निर्विकारस्त्वसज्जनः ॥ ६८॥ परोपकारः सत्कार्यं यद्यपि स्यात्सकारणः । शिवज्ञानाज्जीवसेवा कार्यं पुण्यतमं परम् ॥ ६९॥ न केवलं मूर्तिषु विद्यते शिवः परं दरिद्रेषु च दुर्गतेषु च । शुभाकृतिर्निर्मल ! तत्कृते कृता समर्चना सारमतोऽवधार्यताम् ॥ ७०॥ यावज्जीवसमष्टिकारणवशादेको महाकाशवत् यावद्वर्गविभिन्नजातिषु ततो यो दीनहीनेषु च । यो दुष्टेषु च दुःखितेषु च पुनर्व्याप्तः समानोऽनिशं तस्याराधनहेतुना जनिततौ कष्टं समीहे महत् ॥ ७१॥ प्रेम तथा निःस्वार्थता मयानुभूतं निजजीवनेऽस्मि- न्निर्व्याजमन्तःकरणं नराणाम् । सद्भावना शाश्वतिकं च हार्दं जेतुं जगत्सर्वमलं त्रयं स्यात् ॥ ७२॥ एकोऽपि युक्तस्त्रिगुणैरमीभिः सहस्रशोऽपि च्छलनापराणाम् । नृणां पशूनामपवित्रमर्थं भवे भवेन्नाशयितुं समर्थः ॥ ७३॥ अस्मदाशावलम्बोऽस्ति हीनदीनजनाः परः । एत एव नितान्तं हि यान्ति विश्वासपात्रताम् ॥ ७४॥ विश्वासस्त्वीश्वरे कार्यी न च्छलेन प्रयोजनम् । परदुदुःखैर्दुःखितानां भवेदीशः सहायकृत् ॥ ७५॥ भव्यो निःस्वार्थभावोऽत्र सदाचारो विभाव्यते । परं स्वार्थपरत्वं च दुराचारो विचार्यते ॥ ७६॥ वसुना यशसा च विद्यया प्रियतायाः सफलत्वमाप्यते । चरितेन सता विदार्यते- ऽदमनीया ननु भित्तिरापदाम् ॥ ७७॥ साफल्यस्य रहस्यं स्यादहम्भावान्निवर्तनम् । तेन सिद्‍ध्यन्ति कार्याणि प्रभावोऽपि महान्भवेत् ॥ ७८॥ विस्तारो जीवनं प्रोक्तं सङ्कोचो मृत्युरेव च । स्नेह एवास्ति विस्तारः स्वार्थः सङ्कोच उच्यते ॥ ७९॥ प्रेमैव नो जीवनधर्म एको यः स्निह्यति प्राणिति स प्रकाशम् । यः स्वार्थसक्तः स मृतोऽस्ति जीवनं स्नेहेन मृत्युश्चिरजीवितत्वम् ॥ ८०॥ धार्यते यद्वदस्माभि। श्वासोच्छ्वासेन जीवितम् । तथैवाहेतुकं प्रेम भवेज्जीवनकारणम् ॥ ८१॥ चरित्रहीनत्वमवाप्य लोका धर्मं गतप्राणमकार्पुरद्य अपार्थहार्दं चरितं त्वपेक्ष्यं सौहार्दभावः कुलिशप्रभावः ॥ ८२॥ पवित्रता चेतसि धैर्यमग्र्यं तथा स्वधर्माध्यवसायता च । गुणत्रयं स्यात्सफलत्वहेतु- स्तथापि सर्वोपरि हार्दभावः ॥ ८३॥ शिक्षा मानवान्तःस्थितायास्तु पूर्णताया विकासिता । सच्छिक्षा प्रोच्यते सद्भिर्नो चेच्छिक्षा निरर्थिका ॥ ८४॥ या स्वावलम्बं न ददाति शिक्षा ``शिक्षाभिधानं'' कथमाप्नुयात्सा । विद्यार्थिनः पाठगृहेष्वजीर्ण- रुजाधुनाक्रान्ततया विशीर्णाः ॥ ८५॥ साधारणेष्वथ पुनर्वनितासमाजे शिक्षासमः किमपरोऽस्ति परोपकारः । विद्याबलं प्रसृतमत्र यदा प्रतीच्यां लोकोन्नतिः समभवत्परितस्तदानीम् ॥ ८६॥ मस्तिष्कं परिपूरितं यदि भवेदावेदनाराशिभिः सम्बोधानुभवौ विना परिणमेत्तत्केवलं सङ्करे । साङ्कर्येण भवेदशक्तिरनिशं नाशोन्मुखी, त्वं ततः शिक्षामाश्रय सच्चरित्रनरताधीपाकविद्याकरीम् ॥ ८७॥ स्त्रीशिक्षा न स्यात्स्त्रीणां सुधारेण विना संसारमङ्गलम् । एकपक्षाः पक्षिणः किमुड्डयन्ते विहायसि ॥ ८८॥ स्वोपज्ञमार्गैर्महिलाः स्वकीयाः कुर्वन्तु सर्वाः सरलाः समस्याः । नान्यस्तदर्थं यततां स्त्रियः किं न भारतीयाः सुतरां समर्थाः ॥ ८९॥ स्यादाद्यशक्तेर्जगतो जनन्या विनोन्नतिं नोन्नतिरद्य नॄणाम् । इत्येव हेतोः किल रामकृष्णै- र्गुरुकृता स्त्री परिपूजिता च ॥ ९०॥ सावित्री दमयन्ती च सीता च जनकात्मजा । आदर्शभूतास्ताः सन्ति श‍ृणु भारत! भारतोम् ॥ ९१॥ यस्मिन्समाजे किल भारतीये जगत्यसामान्यगुणान्वितायाः। । जाता जनिः सा जनकात्मजाया जानाति कर्तुं ललनादरं सा ॥ ९२॥ आसीत् स्त्रीणां ज्ञानलाभाधिकारः पूर्वं कस्मादद्य ता वञ्चिताः स्युः । यद्वत्त्यक्ता ब्राह्मणैरन्यवर्णा- स्तद्वन्नार्यश्छिन्नसर्वाधिकाराः ॥ ९३॥ पूर्वं चासीदग्निहोत्रादिकार्ये साकं पत्या स्थित्यपेक्षा वधूनाम् । अद्यत्वे ता हन्त नार्हन्ति गेहे शालिग्रामस्पर्शमात्रं विधातुम् ॥ ९४॥ कुत्रापि शास्त्रे विहितं किमस्ति ``स्त्री ज्ञानभक्त्योरधिकारशून्या'' । सीता पदाङ्कानुकृतिः परं तत् समुन्नतेरद्य विशेषमार्गः ॥ ९५॥ निन्दन्ति नारीरनिशं नरा ये तासां कृते विहितं किमस्ति ? क्षिप्ताः परं ताः स्मृतिकारबालैः ``स्वातन्त्र्यहीना'' ``नरकस्य पन्थाः'' ॥ ९६॥ यदि स्युर्घृणिताः कीटा इव नार्यस्ततः कथम् । मनुनोक्तं यत्र नार्यः पूज्यन्ते तत्र देवताः ॥ ९७॥ पाश्चात्त्यकृत्यनुकृतिर्यदि भारतस्य नारीजनेन विहिता त्यजता स्वलक्ष्यम् । ताभिः सहैव भविताऽवनतिर्नराणां सर्वो भविष्यति पुनर्विफलः प्रयत्नः ॥ ९८॥ धर्मः न कोऽपि धर्मो ``नरदिव्यभावं'' यथोच्चकैर्गायति हिन्दुधर्मः । स एव चित्रं बत! दुर्बलेषु पादप्रहार कुरुते नितान्तम् ॥ ९९॥ आदर्शेऽस्मिञ्जीवने मानवानां शिक्षा भक्तिज्ञानयोगत्रयस्य । धर्माणां सल्लक्ष्यमेतत्समेषां वेदान्तस्तत्सिद्धये स्यात्समर्थः ॥ १००॥ स्पर्शास्पर्शौ नास्ति हिन्दुत्वचिह्नं संस्कारोऽयं केवलं निन्दनीयः । दृष्टं नाम क्वापि शास्त्रप्रमाणं सामाजिक्यास्तून्नतेर्विघ्न एषः ॥ १०१॥ न धर्मदोषोऽस्त्यथवात्र कोऽपि पाखण्डिनो यच्छलनापराश्च । परार्थनाम्ना विविधैरुपायैः प्रतारयन्ति च्छलशून्यचित्तान् ॥ १०२॥ पुराणधर्मात्तु पुरोहितानां त्यागाद्भवेदुत्तमहिन्दुधर्मः । तेनाथ पाश्चात्यसमाजवर्गः प्रभावितः स्यादिति निश्चयो मे ॥ १०३॥ धर्मं विनास्माकसमाजवर्गो भवेदरण्यं पशुभिर्विकीर्णम् । भोगा विलासा न मनुष्यधर्मो ज्ञानं परं जीवनसाध्यमुच्चैः ॥ १०४॥ धर्मस्त्वलौकिकोपायः पशुर्येन नरायते । नराश्चापीश्वरायन्ते विना धर्मं नरः पशुः ॥ १०५॥ प्रत्यक्षं शाश्वतं यत्प्रकटयति पुनर्जीवनं मानवानां ज्ञानादज्ञानसान्द्रं पशुमपि मनुजं द्राक्करोति प्रभावात् । तं साक्षादीश्वरेऽयं विपरिणमयति स्वेन्द्रजालादिवान्ते धर्मः किं किं न कुर्याज्जगदुपकृतये कल्पवृक्षेण तुल्यः ॥ १०६॥ सर्वगं परमं तत्त्वं नासि चेद् द्रष्टुमीश्वरः । अध्यात्मज्ञानसूर्यस्य नोदयस्तव मन्दिरे ॥ १०७॥ त्वयीश्वरो यः सकलेऽपि विद्यते न बुध्यते चेदियमज्ञता तव । समग्रमेकं यदि भिन्नता कुतः परं हितत्वं प्रति जीवमन्दिरम् ॥ १०८॥ ``ईश्वरः खलु जगत्पिता'' स्वयं प्रार्थनासु भवतेदमुच्यते । प्रत्यहं व्यवहृतौ परं परं मन्यसे न किमिति स्वबान्धवम् ॥ १०९॥ त्वमंशभूतोऽस्यविनाशिवस्तुनः समष्टिरेषाप्यविनाशिनी मता । अतः स्वकीयां प्रकृतिं विभावयन् समष्टिसेवामिह कर्तुमर्हसि ॥ ११०॥ मानवे मानवे मान्या दिव्यता यादितः स्थिता । प्रकटीकरणं तस्या धर्म इत्युच्यते बुधैः ॥ १११॥ नोच्चैर्वादा नापि सिद्धान्तधारा नाप्यस्माकं चारुनानामतानि । धर्मः, किन्तु स्वानुभूतेरवाप्तिः किं चैतस्याः कार्यजाते प्रकाशः ॥ ११२॥ मूर्तिर्ग्रन्था मन्दिरे प्रार्थनायाः सिद्धिप्राप्त्यै केवलं सन्त्युपायाः । साक्षात्कारः स्वात्मनो दिव्यताया उच्चैर्ध्येयं या हि नित्यं पुरस्तात् ॥ ११३॥ यदा सन्तोषः स्यात्क्षणिकसुखतुच्छेन जगता घृणा दृष्ट्वा लोके कपटपरिपूर्णा व्यवहृतिम् । यदा च द्वेषः स्यादनृतवचने नास्तिकजने तदा धर्मापेक्षं भवति खलु सश्रद्धहृदयम् ॥ ११४॥ अवाप्य ज्ञानमीशस्य चिन्तनं तस्य नित्यशः । प्रत्यक्षं तेन सम्भाषा प्रोच्यते धर्मलक्षणम् ॥ ११५॥ स्नेहः सम्पूर्णसंसारे स्थितप्राणिषु निर्मलः । उदारता तथा तेषु धर्मस्य निकषः स्मृतः ॥ ११६॥ पावित्र्यं निर्मलत्वं सुकृतिततिरतिः सर्वभूतानुकम्पा धर्मस्यैकस्य सम्पन्न खलु समभवन् किं च सर्वत्र सन्तः । ``अन्ये लुप्यन्तु धर्मा मम भवतु पुनः सर्वधर्मप्रधानो'' यद्येवं कोऽपि वाञ्छत्यखिलजनदयापात्रमेतं धिगस्तु ॥ ११७॥ श्रूयतामधुना मित्र! धर्म-भेदो विनङ्क्ष्यति । सर्वधर्मपताकासु वञ्चनं लिखितं भवेत् ॥ ११८॥ ``सहयोगो विरोधो न'' ``स्वीकृतिर्न विनाशनम्'' । ``शान्तिः समन्वयश्चापि'' ``न कलिर्न मते भिदा'' ॥ ११९॥ मतानि शास्त्राणि च मन्दिराणि क्रियाकलापाः समनुष्ठितिश्च । यदङ्गभूतानि स मुक्तिलाभो धर्मस्य सर्वस्वमिदं ब्रुवन्ति ॥ १२०॥ धर्माश्रयं त्वं कलहं न कुर्या अज्ञानमूलः कलहोऽनिशं स्यात् । असारतत्त्वाश्रयमेव नूनं किं धार्मिकस्यास्ति कलेर्न बीजम् ॥ १२१॥ पावित्र्यमाध्यात्मिकता विधातुं स्वं नीरसं दूरमितो यदैव । तदैव धर्मे कलहा भवन्ति भवत्यशान्तिश्च जगत्यनन्ता ॥ १२२॥ न वैदिकास्तान्त्रिकाश्च न च वेदान्तिनो वयम् । पौराणिकास्तथा न स्मः केवलं ``स्पृश मा'' वयम् ॥ १२३॥ धर्मोऽस्माकं शिष्यते पाकगेहे देवोऽस्माकं पाकपात्रस्वरूपः ! । ध्येयं चास्ते ``मा पवित्रं स्पृशेर्मा''- मित्थं सर्वे स्वात्मनाशं व्रजामः ! ॥ १२४॥ धर्मोपदेशस्तु बुभुक्षितानां वैधेयता स्यादथ वा प्रमादः । रिक्तोदराणां किमु धर्मभावः ? क्षुत्पीडितांस्तोषय भोजनेन ॥ १२५॥ व्यष्टेर्यथा जीवनलक्ष्यमेकं तथा समष्टेरपि निश्चितं स्यात् । अङ्गीकृतं भारतवासिभिर्य- ल्लक्ष्यं पुरा तैर्न कृतः प्रमादः ॥ १२६॥ विविधम् भारतमहिमा प्राच्यां तु भारतादेव सर्वं प्राचीनकालतः । प्रससारात्र संसारे प्रीतिर्ज्ञानं तपः शिवम् ॥ १२७॥ धर्मस्यावासभूमिः प्रभवपदमिदं नित्यशो दर्शनानां नानावीरैः सुधीरैरविरतमवनात्स्वस्तिकालादनादेः । विश्वप्रेमप्रकर्षः प्रकृतिमधुरिमा मार्दवं भावनाना- मेभिर्लोकस्य कर्तुं प्रभवति सततं नेतृतां भारतं नः ॥ १२८॥ आघातप्रतिघातसङ्कटशतैरुद्यत्समाजप्रथा- चाराणां ततिभिश्च सङ्कुलमभूदाक्रान्तमेत्यारिभिः । आस्ते प्राणबलान्वितं तदपि यत्तुङ्गाद्रिश‍ृङ्गोपमं मन्ये भारतजीवनं खलु जगत्याद्यन्तशून्यं ध्रुवम् ॥ १२९॥ न ज्ञातो ग्रीसदेशोऽभवदवनितले रोमवार्तापि नासीत् यूरोपस्थाश्च लोका गहनवनगता दीर्घमासन्नसभ्याः । ध्वान्तच्छन्नेतिहासं जगदिदमखिलं, दुर्बला किंवदन्ती तत्रासीदच्चशैलस्थिरतरवसतिः संस्कृतिर्भारतीया ॥ १३०॥ आदर्शानां जन्मभूर्विश्रतानां सद्भावानामाकरो भारतं नः । अस्मादेवाध्यात्मिकज्ञानधारा- पूरः पूर्वं प्रस्थितौऽभूज्जगत्याम् ॥ १३१॥ संसारे पुनरप्यस्मिन्पूरोऽयं प्रसरिष्यति । नवजीवनसञ्चारो ध्रुवं येन भविष्यति ॥ १३२॥ का पुण्यभूमिरुचिता जगतीतलेऽस्मिन् किं स्थानमत्र परमीश्वरलाभसिद्‍ध्यै ? । नॄणां च कर्मफलभोगपदं किमास्ते ? तत्रोत्तरं श‍ृणुत भारतभूरियम् ॥ १३३॥ क्षेत्रं किमस्ति बलशीलदयागुणाना- मन्तर्दृशोऽप्यजनि यत्र परो विकासः । जाता च यत्र परमात्मविचारचर्चा तत्रोत्तरं श‍ृणुत भारतभूरियं नः ॥ १३४॥ महामहिममण्डिता भवति भारती भूः पुरा समुज्ज्वलतरा ध्रुवं स समयोऽचिरादेष्यति । गृहीतजनुषोऽत्र संश्रुतमहर्षयः पूर्ववत् समग्रजगतो जनान् सुपथगान्विधास्यन्ति ते ॥ १३५॥ (बन्धुसेवा) आनन्दिता भवत बान्धवसेवनार्थं युष्माभिरेव मधुरोऽवसरोऽद्य लब्धः । आप्लावितं त येन जगत्समग्रं वृद्धिं स याति खलु धर्मसमुद्रपूरः ॥ १३६॥ निःस्वान्नित्यं दुःखितानीशपुत्रान् ये सेवन्ते पापिनस्तापिनश्च । तेषां जिह्वाग्रस्थिता भारती स्याद् देवी चास्ते मानसे शक्तिरूपा ॥ १३७॥ परार्थं त्यक्तसर्वस्वो मुक्तस्तिष्ठति मानवः । इतो भ्रष्टस्ततो भ्रष्टो ``मुक्तिर्मे स्यादिति ब्रुवन्'' ॥ १३८॥ (धर्ममहत्ता) धर्मः परो भारतपुण्यभूमौ जातीयशक्तेरवलम्बरूपः । देशस्य नो जीवनगीतशास्त्रे धर्मः प्रधानस्वरतामुपैति ॥ १३९॥ नार्हा वयं त्यक्तुमतः स्वधर्म- मादर्शभूत-स्वबलं कदापि । असावधाना यदि तं त्यजेम प्रतिक्रिया तस्य भवेददम्या ॥ १४०॥ (भारतस्य अवनतिः) यस्मिन्दिने ``म्लेच्छ''पदं प्रसिद्धं छिन्नं विजातीयजनैः सखित्वम् । तस्मिन्दिने भारतभाग्यसूर्यो- ऽप्यस्ताचलं गन्तुमिव प्रवृत्तः ॥ १४१॥ (कर्म अकर्म च) आत्मभावविकासस्य कारणं कर्मसंज्ञितम् । अनात्मभावो येन स्यात् तदकर्मेति संस्मृतम् ॥ १४२॥ सबलाः कार्यकर्तारो विश्वं जेतुमलं दश । सहस्रशोऽपि वैधेय न समर्था भवन्ति ते ॥ १४३॥ पशुनरत्वमाप्नोति सत्कर्मवशतः परम् । नरः पशुत्वं लभतेऽसत्कर्मवशतोऽवशः ॥ १४४॥ (स्त्री-महिमा) जातान्यजातिषु जगत्यबलोन्नतिर्या सा योषितां किल सुयोग्यपदस्य लाभात् । याधोगतिश्चिरमभूदिह भारतेऽस्मिन् सा शक्तिरूपमहिलासु निरादरेण ॥ १४५॥ (मानवोन्नतिः) समानाधिकारा जना जीवने स्युः परं दुःखिता जन्मतो जातिभेदात् । अतः कर्मणो वर्ण इत्येव सत्यं समाजोन्नतावस्ति धर्मोच्चतत्त्वम् ॥ १४६॥ अयि! कठोरतरं खलु जीवनं तनुतरं क्षणजीवि च तत्फलम् । पिहितमस्ति तवाग्रमथाप्रभं तदपि धीरतयाग्रसरो भवेः ॥ १४७॥ उत्तिष्ठ जागृहि द्राक्त्वं स्वप्रेनालं तवाधुना । स्वलक्ष्यप्राप्तिपर्यन्तमुद्यमं न परित्यजेः ॥ १४८॥ सहानुभूतेरथ कार्यशक्ते- रभाव एवास्ति विपन्निदानम् । दोषं तमादौ परिहृत्य शीघ्रं कुरुष्व कार्यक्षममात्मदेहम् ॥ १४९॥ असीमशक्तिर्निहिता शिवेन व्यक्तौ, विजानाति नरः कथं ताम् । सर्वेऽपि तुल्यावसरं लभन्तां बलीयसीतः परमेश्वरेच्छा ॥ १५०॥। विजयः प्रकृतेरस्या मुख्यं लक्ष्यं नृजन्मनः । न जातो मनुजो जातु गन्तुं प्रकृतिदासताम् ॥ १५१॥ सश्रद्धकर्मठजनस्य ससीमबुद्‍ध्या विज्ञानभौतिकविचारवशालतायाः । कर्तुं समन्वयमहं हृदयं समीहे गम्भीरमब्धिरिव यच्च नभो विशालम् ॥ १५२॥ सुखं नराणां पुरतोऽभ्युपैति प्रायो विपच्छेखरितोत्तमाङ्गम् । प्रयोजनं यस्य सुखेन तस्मा- त्स तत्परः स्याद्विपदोऽनुगन्तम् ॥ १५३॥ कल्याणमध्यात्मसमाजनीति- त्रयेऽवलम्बेत विशुद्धभावम् । सर्वेषु देशेष्वथ सर्वकाले- ष्वभिन्नता स्मासु च बान्धवेषु ॥ १५४॥ (ज्ञानमहिमा) गम्यमुच्चतमं तत्त्वं जीवनस्य श्रुतं स्मृतम् । तत्त्वमन्वेषय भ्रातः! ध्रुवं लाभो भविष्यति ॥ १५५॥ ज्ञानं परं प्रतिगृहं प्रविशेदितीत्थं चक्रं प्रवर्तयितुमिच्छति मानसं मे । येन स्त्रियश्च पुरुषाश्च जगत्यमुष्मिन् । स्वात्मेषुनिर्णयविधिं परिभावयन्तु ॥ १५६॥ (सेवाभावः) यथाहं भारतीयोऽस्मि तथा संसारसेवकः । सन्देहकल्पनाजालप्रसारोऽत्र निरर्थकः ॥ १५७॥ (सदाचारः) आचारवान् भव सुहृद् बलवान्कृतान्त- स्याह्वानतोऽपि गतभीरमलान्तरस्त्वम् । व्यर्थैव धार्मिकविवादपरम्पराऽऽस्ते दुष्कर्मजातमिति कातरकार्यमेतत् ॥ १५८॥ (सत्यं उपकारश्च) अपकारादुपकारोऽसत्यादपि चातिरिच्यते सत्यम् । अनन्तगुणमेतत्खलु यस्यास्ते तस्य जीवितं सफलम् ॥ १५९॥ (भारतोन्नतिः) भारताभ्युदयोऽवश्यं भवितेशविधानतः । अरुणोदयवेलासावुत्थातव्यं गता निशा! ॥ १६०॥ (बलमहत्ता) शुष्काद् गीतापाठात्पदकन्दुकखेलनं तु भद्रतरम् । शक्तेर्महत्यपेक्षा, गीतापठनं भवेत्ततः सफलम् ॥ १६१॥ (व्यक्तिमहत्ता) भ्रातस्त्वमेहि बलवाननुभूय ``सोहं'' भस्मीभविष्यति मनोमलिनत्वमस्मात् । जागर्ति शक्तिरनिशं त्विह या प्रसुप्ता त्वं च प्रचण्डदलमूर्तिरिव स्वयं स्याः ॥ १६२॥ (दलितवर्गः) श्रमिका भारतस्यैते दलिताश्चिरकालतः अपूर्वकार्यकर्तारोऽप्यहं तानभिवादये ॥ १६३॥ दरिद्राणां कुटीरेषु भारतं वसति ध्रुवम् । परमुन्नतये तेषामस्माभिर्वत किं कृतम् ? ॥ १६४॥ सांसारिकेषु विषयेतषु भवन्त्यसुज्ञा निःस्वा जनास्तदपि दुर्जनताविहीनाः । ते सन्ति श्रद्धहृदयाश्छलशून्यभावा हिंसाविचाररहिता हितकार्यसक्ताः ॥ १६५॥ निम्ना जना जेतृनिपीडनेन त्रस्ताः स्वकीयैरवमानिताश्च । चिरात्स्वकार्यप्रसितास्तथापि श्रमस्य नापुः फलमद्य यावत् ॥ १६६॥ (पुराणाभिमानः) केचिद्वदन्त्यवनतेः किल कारणं नो व्यर्थं ममत्वमतिपूर्वपरम्परासु । ज्ञातं भया परमिदं विपरीतमेव त्यागः पुराणविभवस्य महान्प्रमादः ॥ १६७॥ (हनूमदादर्शः) सर्वदास्तु तवादर्शो हनूमान्बलवान्सुधीः । जीवितं मरणं वास्तु स न दध्यौ जितेन्द्रियः ॥ १६८॥ (ज्ञानी भक्तश्च) अगाधप्रेमहृदयोऽद्वैतानुभववान्स्वयम् । ज्ञानीश्वरेण तादात्म्यवांश्च भक्तो निगद्यते ॥ १६९॥ निन्दको ज्ञानिनो भक्तो ज्ञानी भक्तस्य निन्दकः । द्वावप्येतौ मतौ धूर्तौ न भेदो ज्ञानिभक्तयोः ॥ १७०॥ (ईश्वरः) यदीश्वरस्य सत्तायां विश्वासो विद्यते तव । पदे पदे तत्स्मृतिः स्यात्स्मृतिरेवेशसेवन ॥ १७१॥ यदीश्वरः स्यान्नरदेहधारी हानिर्भवेत्किं तदनन्तशक्तेः ? चैतन्यरूपस्य शरीरलाभो न बाधकः स्यात्तदनन्ततायाम् ॥ १७२॥ (भक्तिः) भक्तिनिरन्तरमसौ मनुजान्तरस्था या कामकाञ्चनपिधानवशाददृश्या । दूरीकुरु त्वमिदमावरणं क्षणेन स्वान्तः स्थिताथ भवति स्वयमेव दृश्या ॥ १७३॥ (बन्धः) सौवर्णो वाप्यायसो वास्तु बन्ध- श्च्छेद्यो, द्वन्द्वं द्वेषरागाद्यपास्यम् । हैमो बन्धोऽप्यस्तु तुल्यः कठोरो दासो दासः पूजितस्ताडितो वा ॥ १७४॥ (मुक्तिः) अन्वेष्टव्या कुत्र मुक्तिः सखे! सा लभ्या नेहामुत्र वा मान्दिरे वा । शास्त्रग्रन्थे वा न मा दुःखितो भू र्यस्मादेकस्त्वं तदालम्बभूभिः ॥ १७५॥ (उपासना) अनुष्ठानानि शास्त्राणि सम्प्रदायास्तथैव च । साक्षात्कारस्य सिद्‍ध्यर्थं साधनानीव केवलम ॥ १७६॥ (अहम्भावः) देहमानससंयोगादहम्भावोद्भवो भवेत् । ``जानामी''त्युपलब्धिस्तु प्रमाणं स्या''दहं''स्थितौ ॥ १७७॥ (वेदमहत्ता) दृष्टो विरोधो यदि वेदवाक्यैः शास्त्रं पुराणं न भवेत्प्रमाणम् । विश्वेऽत्र वेदाननुभासितं य- ज्जानीहि वेदोद्भवमेव सर्वम् ॥ १७८॥ (शिक्षाप्रचारः) शिक्षा-संस्था-माध्यमेन प्रचारः कर्तव्यः स्याल्लोकसाधारणेन । गत्वा पश्चात्तैरितः प्रत्यगारं बोद्धव्याः स्युर्बान्धवा निर्धनास्ते ॥ १७९॥ (मूर्तिपूजा) साक्षादियं चेन्न विमुक्तिहेतु- स्तथापि निन्द्या न हि मूर्तिपूजा । अद्वैतबोधागमसाध्यसिद्धि- योग्यं मनः सा कुरुते जनानाम् ॥ १८०॥ (अध्यात्मम्) नरस्य दिव्यां प्रकृतिं पुरस्ता- ० दुद्धार्य्य तज्जीवनकार्यवृन्दे । प्रवेशनीयं कथमित्युपायः सङ्क्षेपतो लक्ष्यमिदं मदीयम् ॥ १८१॥ अध्यात्मतत्त्वविभवस्य भुवि प्रसारो नित्यं विधेय इति भारतधर्मकार्यम् । यद्ग्रीक-हूण-शक-मोघल-तुर्कयानैः सम्पीडितं भवदपि स्थिरसंविदास्ते ॥ १८२॥ वैज्ञानिकाविष्कृतिमात्रमस्मिन् कथं जगत्यर्हति सभ्यताख्याम् । मनुष्यजातौ कियतीश्वरस्य व्यक्तिः प्रमाणं खलु सभ्यतायाः ॥ १८३॥ आत्माव्यक्तब्रह्म सर्वोऽपि बाह्यः स्वान्तःसंस्थो यः प्रकृत्यन्तरायः । तं संयम्य ब्रह्मभावप्रकाशो लक्ष्यं लोके जीवनस्योच्चमास्ते ॥ १८४॥ कर्मोपास्तिज्ञानचेतोजयाना- मेकोपायेनाथ वा तैरनेकैः । व्यक्तीकृत्य स्वात्मनो दिव्यरूपं मुक्तेर्लाभं कर्तुमर्हस्यनन्तम् ॥ १८५॥ नय त्वं मामम्ब! त्वरितमतिदीप्तं परपदं निशानाथो यस्मिन्द्युमणिरपि खद्योतसदृशः । वृथा स्वप्नानेतांस्तिरय मम लीलान्तसमये विभिद्येदं दीर्घं निगडमधुना मोचय सुतम् ॥ १८६॥ व्यष्टिः परं ब्रह्म विभाग शून्यं मायावशादेव पृथक्त्वमेति । मायापि चैकीभवितुं स्वभावा- त्तद्भेदशून्यं यतते प्रयातुम् ॥ १८७॥ ``अहं'' पूर्णशक्तिप्रकाशस्वरूपं तथा भावनेयं जननै''र्ज्ञान''मुक्तम् । स्वरूपं तु सापेक्षमेतेन सिद्धये- दपेक्षायुता शुद्धसंवित्कृतः स्यात् ?॥ १८८॥ ज्ञानातीता पूर्णता सत्स्वभावा ज्ञानाज्ञाने पूर्णतांशस्वरूपे । सापेक्षत्वं पूर्णतातोऽस्ति नीचै- रज्ञानेन ज्ञानमेतादृशं स्यात् ॥ १८९॥ बन्धनात्सदसतोर्विमोचनं मुक्तिरित्यभिहिता मनीषिभिः । अस्तु हैममथवाप्ययोमयं वस्तुतस्तु निगडं तदुच्यते ॥ १९०॥ माया सादिरनादिर्वा सान्ता सा व्यष्टिरूपतः । समष्टिरूपतोऽनन्ता तथानादिश्च मन्यते ॥ १९१॥ वस्त्वेकमेव न द्वैतं चैतन्यं वाप्यचेतनम् । अज्ञानाख्या परं माया द्वैतभेदकरी भवेत् ॥ १९२॥ आदौ यदा स्याद्विषयाक्षयोगो न द्वैतबोधस्य तदावकाशः । क्षणे द्वितीये सविकल्पभानं सत्यादिसंवित्खलु निर्विकल्पा ॥ १९३॥ घनान्धकारः परितो विसर्पन् दृष्टिं विलुम्पन्नयमन्तमेतु । मृत्योर्न यन्मृत्युमथाभिलाषः ``स्व''-नाशको नश्यतु दीर्घशान्त्यै ॥ १९४॥ एको मुक्तः सर्ववेद्यस्य वेत्ता, नाम्ना रूपेणापि हीनः समानः । साक्षी सर्वस्वप्नजातस्य बीजं मायाधारो विश्वरूपोऽयमात्मा ॥ १९५॥ तातो माता पुत्रजाये च मित्रं स्वप्नं सर्वं नास्ति किञ्चिद्यथार्थम् । यद्येकस्त्वं कः पिता कश्च मित्रं त्वत्तो भिन्नं नास्ति सर्वं त्वमेव ॥ १९६॥ आध्यात्मिकत्वं खलु नः समाजे रक्तप्रवाहोऽमलजीवनस्य । ओजोऽन्वितो यावदसौ प्रवाहो निष्कण्टकस्तावदयस्य पन्थाः ॥ १९७॥ न कोऽप्यभावः परिपीडयेन्नो दरिद्रता मानसदुर्बलत्वम् । अध्यात्मधर्माश्रयतास्ति याव- न्नाशोन्मुखं स्यात्किमु भारतं नः ॥ १९८॥ शुद्धोऽसि पूर्णोऽसि बलान्वितोऽसि यदस्ति पापं न तवास्ति किञ्चित् । दौर्बल्यचिन्ता न सखे विधेया प्रत्यात्मसंस्थं बलमाविरस्तु ॥ १९९॥ कदाप्युच्चैर्गच्छन्समयजलधेर्वीचिवशतो लुठन्नीचैस्तूर्णं तदपि निजधारामनुसरन् । इतः श्रान्तो मातः क्षणिकसुखदुःखात्मजगत- स्तथा दूराद् द्रष्टुं परमपरतीरं त्वपरतः ॥ २००॥ (जनताजनार्दनः) त्वत्सम्मुखो विविधरूपधरो य ईश- स्तं सन्त्यजन्नु कुह मार्गयसे वृथैव । यः स्नेहतत्परमनाः खलु जीववृन्दे जानाति सेवितुमसावनिशं परेशम् ॥ २०१॥ (स्वामिजीवनलक्ष्यम्) जीर्णं वस्त्रमिव त्यजामि सुखतस्तूर्ण स्वकीयं वपुः पूर्णं कर्तुमथापि कार्यमनिशं लोके यतिष्ये धुवम् । यावद्ब्रह्ममयं समग्रमिति न ज्ञानं जगत्यां जनैः तावत्प्रेरयितुं प्रयत्नपरता मन्ये मदीयं तपः ॥ २०२॥ (समर्पणम्) स्वामिशब्दैर्विरच्येदं नव्यं श्लोकशतद्वयम् । त्वदीयं वस्तु भगवन्! तुभ्यमेव समर्पये ॥ २०३॥ इति साहित्याचार्य-एम्०ए०-भण्डारकरोपाह्व त्र्यम्बकशर्मणा विरचिता श्रीस्वामिविवेकानन्दोपदेशद्विशती समाप्ता । Encoded and proofread by Sunder Hattangadi
% Text title            : vivekAnandopadeshadvishatI
% File name             : vivekAnandopadeshadvishatI.itx
% itxtitle              : vivekAnandopadeshadvishatI (bhANDArakaravirachitA)
% engtitle              : SwAmi Vivekananda Upadesha Dvishati
% Category              : deities_misc, gurudev, dvishatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Tryambak Bhandarkar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Indexextra            : (stotramAlA, yugAchArya)
% Latest update         : March 21, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org