श्रीऊर्ध्वपुण्ड्राणां नारायणादि नामद्वादशस्थानानि
श्रीरङ्गे द्वारकायां च श्रीकूर्मे च तथा स्थितः ।
सिंहाद्रौ च हिमाद्रौ च प्रयागे तुलसीवने ॥ १॥
गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह ।
गायत्रीमूलमन्त्राभ्यां त्रिवारमभिमन्त्र्य च ॥ २॥
धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यमाप्नुयात् ।
ललाटे केशवं ध्यायेन्नारायणमथोदरे ॥ ३॥
वक्षःस्थले माधवञ्च गोविन्दं कण्ठकूबरे ।
विष्णुञ्च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ॥ ४॥
त्रिविक्रमं कन्धरेतु वामनं वामपार्श्वके ।
श्रीधरं वामबाहौ तु हृषीकेशं तु कन्धरे ॥ ५॥
पृष्ठे तु पद्मनाभः स्यात्रिके दामोदरं न्यसेत् ।
तत्प्रक्षालनतोयेन वासुदेवेति मूर्धनि ॥ ६॥
तत्तपुण्ड्राणि तन्मूर्तिं ध्यात्वा मन्त्रेण धारयेत् ॥ ७॥
इति श्रीऊर्ध्वपुण्ड्राणां नारायणादिनामद्वादशस्थानानि समाप्तिमगुः ॥
UrdhvapuNDramantraH : The vertical line separator
below indicates column separation.
कोष्टकः -
mantra . chUrNamantra . place . number sequence of name .
times the finger needs to touch the place as mentioned in
श्रीस्वधर्माबोधे श्रीयुगलतिलक मन्त्रःसङ्क्षेपतः
ऊर्ध्वपुण्ड्रमन्त्रः । श्रीचूर्णमन्त्रः । स्थानानि । नं.। अं. प्र.
ॐ केशवाय नमः । श्रियै नमः । ललाटे । १। ४
ॐ नारायणाय नमः । अमृतोद्भवाय नमः । उदरे । २। १०
ॐ माधवाय नम । कमलायै नमः । वक्षस्थले । ३। ८
ॐ गोविन्दाय नमः । चन्द्रलोदर्यै नमः । कण्ठे । ४। ४
ॐ विष्णवे नमः । विष्णुपत्न्यै नमः । दक्षिणपार्श्वे । ५। १०
ॐ मधुसूदनाय नमः । वैष्णव्यै नमः । दक्षिणबाहौ । ६। ८
ॐ त्रिविक्रमाय नमः । वरारोहायै नमः । दक्षिणकण्ठे । ७। ४
ॐ वामनाय नमः । हरिवल्लभायै नमः । वामपार्श्वे । ८। १०
ॐ श्रीधराय नमः । शार्ङ्गिण्यै नमः । वामबाहौ । ९। ८
ॐ हृषीकेशाय नमः । देवदेविकायै नमः । वामकण्ठे । १०। ४
ॐ पद्मनाभाय नमः । सुरसुन्दर्यै नमः । पृष्ठे । ११। ४
ॐ दामोदराय नमः । महालक्ष्म्यै नमः । कण्ठपृष्ठे । १२। ४
इति श्री द्वादश ऊर्ध्वपुण्ड्रमन्त्राः सम्पूर्णतामागुः ॥
श्री राधाकृष्णार्पणमस्तु ॥
Proofread by Pallasena Narayanaswami ppnswami at gmail.com
From shrI sarasa stotrasangrahaH (Lucknow, 1909).