मोक्षगीता

मोक्षगीता

१ सत्यशोधनम्

Chapter I THE SEARCH FOR TRUTH शिष्य उवाच । भगवन् करुणासिन्धो नमामि त्वामहं गुरो । त्वमेवार्हसि मे दुःखं भेत्तुं ध्वान्तं यथा रविः ॥ १॥ संसारसागरे घोरे पतनान्नष्टचेतनम् । तापत्रयेण निर्दग्धं सन्त्रायस्व च मां प्रभो । यथा सन्तरणीयोऽयं भवाब्धिः शाधि मां तथा ॥ २॥ गुरुरुवाच । मा भैषीर्वत्स ते नास्ति तत्त्वतो मरणं ध्रुवम् । उपायश्चास्ति संसारसागरोत्तरणे तथा ॥ ३॥ अमृतत्वस्य सम्प्राप्तौ परमानन्दभोजने । अतस्त्वामुपदेक्ष्यामि ब्रह्मविद्यामिमां श‍ृणु ॥ ४॥ इति प्रथमोऽध्यायः सम्पूर्णः ।

२ ब्रह्मस्वरूपम्

Chapter II The Nature of Brahman गुरुरुवाच । अनाद्यन्ताय शान्ताय शुद्धायाऽऽत्मप्रकाशिने । आद्याचार्याय निर्धूतकल्मषायाविकारिणे ॥ १॥ अदेशकालकामाय सच्चिदानन्दरूपिणे । अखण्डशाश्वतश्रेष्ठनिर्गुणब्रह्मणे नमः ॥ २॥ प्राणेन्द्रियमनोदेहजगतामाश्रयो हि यत् । वेदयोनिस्तथा सर्वव्यापकं सर्वहृद्गृहम् ॥ ३॥ अवर्णरसगन्धं च नामरूपविवर्जितम् । तत्तत्त्वं परमं किञ्चित्साधु शश्वत्प्रकाशते ॥ ४॥ अनश्वरमजं भीतिक्षयसञ्चारवर्जितम् । अनिर्वाच्यं परं तत्त्वमप्रमेयं च किञ्चन । पुराणमद्वितीयं यत्तज्जागार्येव नापरम् ॥ ५॥ यन्न हस्वं न वा दीर्घं नापीयत्तावदेव नो । न कृष्णं नापि वा शुक्लं न स्थूलं नापि वा कृशम् । न साधु वा चासाधु तद्ब्रह्मेति विबुध्यताम् ॥ ६॥ यन्न सूक्ष्मं न वा सान्द्रं यस्य जातिर्न नाम वा । विदेहममरं यच्चानवाङ्मनसगोचरम् । यच्च नैति विपर्यासं तद्ब्रह्मेति विबुध्यताम् ॥ ७॥ स्थूलसूक्ष्मशरीराभ्यां तथा कारणविग्रहात् । भिन्नं ह्रह्म सदा मुक्तं गतिकर्मविवर्जितम् ॥ ८॥ अनिर्वाच्यं खलु ब्रह्म यतो निर्वचनं विदुः । निराकरणमस्यैव निषेधालिर्न नेत्यतः ॥ ९॥ समर्थं केवलं तस्य ब्रह्मणो हि निरूपणम् । श्रुतिशीर्षमिमं मार्गं हेतोरस्मात्समश्नुते ॥ १०॥ इति द्वितीयोऽध्यायः सम्पूर्णः ।

३ मायास्वरूपम्

Chapter III The Nature of Maya गुरुरुवाच । मायां नामेश्वरस्याहुरुपाधिं ब्रह्मणस्तु सा । स्वकीयेन विभर्त्यद्धा लीलामाश्चर्यकारिणी ॥ १॥ सेयं मायाऽसती नैव यतो नः प्रतिभासते । सतीयं नापि यज्ज्ञानोदये नश्यति सत्वरम् ॥ २॥ एवं माया हि तच्छब्दवाच्या नैव प्रकीर्त्यते । सैषाऽनिर्वचनीयं हि भानं किञ्चन कथ्यते ॥ ३॥ सा माया वर्णनातीता सदसद्भ्यां विलक्षणा । अनिर्वाच्योच्यते नूनमनादिर्भावरूपयोः ॥ ४॥ अनादिरपि सान्तेयमृषेरेवात्मवेदिनः । शुद्धसत्त्वस्वरूपां तां मायामाहुर्मनीषिणः ॥ ५॥ मायां विजित्य यो मर्त्य आत्मज्ञानं तु विन्दते । स एव प्रभवेत्तस्या ज्ञातुमुत्थानसंलयौ ॥ ६॥ विषया पञ्च भूतानि तन्मात्राण्यवधारय । उत्पादीनीति मायाया विकारा वेति तत्त्वतः ॥ ७॥ धूमेन मनुजैः सत्ता यथाग्नेरनुमीयते । तथा सत्ता च मायायास्तन्नानाव्यक्तिभिर्ननु ॥ ८॥ माया मनोमयी प्रोक्ता या सृजत्यसकृद्भ्रमान् । नानारूपांश्च सर्वत्र सर्वं व्याप्नोति निश्चितम् ॥ ९॥ यदा ते निहतं चित्तं सविचारविवेचनैः । तदाप्रभृति माया त्वां पीडयत्येव नो दृढम् ॥ १०॥ विषयान् भोक्तुकामं तन्मायाबीजं स्मृतं मनः । अतो मनो निहन्तव्यं तत्प्रणाशाय सुव्रतः । अधिगत्य परां शान्तिं ब्रह्मज्ञानं तदैष्यसि ॥ ११॥ इति तृतीयोऽध्यायः सम्पूर्णः ।

४ अविद्यास्वरूपम्

Chapter IV The Nature of Avidya गुरुरुवाच । अविद्या मलिनं सत्त्वं जीवात्मोपाधिरुच्यते । तस्य कारणमूर्तिः सा कोशश्चानन्दतुन्दिलः ॥ १॥ अविद्या स्यादसद्बोधो येन जीवोऽवगच्छति । अज्ञो बुद्धिं तनुं शुद्धां सुखयोनिं च शाश्वतीम् ॥ २॥ स्वेच्छया च यथा राजा नाटके भिक्षभूमिकाम् । आधत्ते सच्चिदानन्दब्रह्मायं जीवभूमिकाम् । जगन्नाटकरङ्गेऽस्मिंस्तथा लीलाकुतूहलात् ॥ ३॥ पाण्डुरं पुरुषो वस्तु कामलापीडितो यथा । पीतं पश्यत्यविद्यातस्तथाऽऽत्मानं स विग्रहम् ॥ ४॥ आत्मबोधोद्गमे तात सैवाऽविद्या विनश्यति । अतोऽविद्या विनाशो हि ब्रह्मास्पदमुदीर्यते ॥ ५॥ यथाऽऽदर्शो मलेनान्ध्यं याति तद्वदविद्यया । ब्रह्माऽऽवृतं ततो मर्त्या विमुह्यन्ति मुहुस्तया ॥ ६॥ इन्द्रियाणि मनोऽहन्ता बुद्धिर्वर्ष्मेत्यमूनि च । कार्याणि विद्ध्यविद्यायास्ततस्तत्कारणं जहि । कार्याणि स्वयमृच्छन्ति प्रणाशं कारणात्यये ॥ ७॥ इति चतुर्थोऽध्यायः सम्पूर्णः ।

५ विश्वस्वरूपम्

Chapter V - The nature of the Universe गुरुरुवाच । नामरूपात्मकं चैतद्विश्वमज्ञानमूलकम् । विद्धि तद्विलयं याति स्वात्मबोधार्यमोदये । आत्मभिन्नमसद्विश्वं मरीचिस्वप्नसन्निभम् ॥ १॥ रज्ज्वामध्यास्यते सर्पः शुक्तौ च रजतं यथा । स्थाणौ चौरोऽभ्रवृन्दे पूर्मृगतृष्णासु चोदकम् । गगने नीलिमा चैव ब्रह्मण्यारोप्यते जगत् ॥ २॥ जलमेव यथा चोर्मिफेनबुद्बुदरूपतः । विवर्तते सुवर्णं च कर्णिकावलयात्मना ॥ ३॥ मृदेवमत्रकुम्भादिरूपतस्तन्तवो यथा । वस्त्रोत्तरीयकौपीनकञ्चुकाद्यात्मनानघ । तथा ब्रह्मैकमेवात्र विश्वरूपं बिभर्ति हि ॥ ४॥ भावयन्त्यर्भका दारुद्विपं सत्यं हि यूथपम् । प्रौढास्तु तदसत्यत्वं जानते बालिशास्तथा ॥ ५॥ अनात्ममात्रमीक्षन्ते किन्तु पश्यन्ति पण्डिताः । केवलं ब्रह्म सर्वत्र विवेकोऽस्यायमाद्दतः ॥ ६॥ तत्त्वं जानीहि यत्कृत्स्नं विश्वं ब्रह्मण्यवस्थितम् । मायया तद्बहिर्भाति वपुस्ते मुकुरे यथा ॥ ७॥ स्वप्नदृष्टं यथा वस्तु प्रबोधे नेक्षते नरः । जीवन्मुक्तस्तथा विश्वं ब्रह्मज्ञाने प्रतिष्ठिते ॥ ८॥ इति पञ्चमोऽध्यायः सम्पूर्णः ।

६ मनसः स्वरूपम्

Chapter VI The Nature of the Mind गुरुरुवाच । स्रष्टुं संहर्तुमप्येतन्निमेषेणाखलं जगत् । मनः शक्नोत्यतो हीदं विचारेण जहि द्रुतम् । वासनाहननेनैवं तच्चाञ्चल्यजयेन च॥ १॥ मनो हि वासनापुञ्जं ब्रुवते तत्त्ववेदिनः । जनयन्ति च ता बन्धं वासनास्तद्वधस्ततः ॥ २॥ विमुक्तिमिच्छतावश्यं कार्यः सर्वात्मना भुवि । वासनासु विनष्टासु प्रदीप इव विन्दते । उपभुक्ताखिलस्नेहो मनः शान्तिमनुत्तमाम् ॥ ३॥ यथाऽऽत्मनः कृमिः कोशे बध्यतेऽन्तस्तथा नरः । संसाराख्यमहाजाले सङ्कल्पैर्वासनागणैः ॥ ४॥ चञ्चलं मन एवेह बलवानात्मनो रिपुः । सृजत्यसङ्ख्यसङ्कल्पवासनास्तत्स्ववृत्तिभिः । अतो ब्रह्मविचारेण जहि तास्त्वं निरन्तरम् ॥ ५॥ द्वैतवृत्तिष्वलुप्तासु ब्रह्म भाति न चेतसः । अतो नाशय ताः सर्वा ब्रह्मतेजोऽभिवृद्धये ॥ ६॥ सर्वोपद्रवयोनेश्चाऽहङ्कृतेरास्पदं मनः । अहङ्कारविनाशे तु मनोनाशः प्रसिद्ध्यति । मनोनाशे ह्यहङ्कारनाशः सञ्जायते ध्रुवम् ॥ ७॥ ममता तवता चेति मनःसृष्टिरुभे अपि । विचारेण हते चित्ते नश्यन्तीदृशभावनाः । निबोध वत्स मनसः प्रणाशो मोक्ष एव हि ॥ ८॥ सङ्कल्पनाशमेवाहुः सार्थं चित्तलयं बुधाः । अपुनर्भवमुत्सादं सङ्कल्पानां मनीषिणः । अक्षरं भास्वरं चाहुरवर्ण्यं ब्रह्मणः पदम् ॥ ९॥ विशोध्यते यथा हेम पावकेन तथा मनः । ध्यानाग्निना हि निर्दग्धं निर्मलं तात जायते ॥ १०॥ इति षष्टोऽध्यायः सम्पूर्णः ।

७ साधनाप्रणालिः

Chapter VII The Process of Sadhana गुरुरुवाच । आच्छाद्यते यथा वह्निर्भस्मना च कृपाणकः । कोशेन च रविमेधैर्गर्भश्चोल्बेन हीरकः । मृदा तल्पश्छदेनैवं ब्रह्म मांसास्थिभिर्वृतम् ॥ १॥ यदापनीयते भस्म तदाग्निः साधु दृश्यते । यदाभ्राणि निरस्यन्ते तदाऽऽदित्यः प्रकाशते ॥ २॥ यदापनीयते कोशः कृपाणो दृश्यते तदा । यदास्तरणमुत्सृष्टं तदा तल्पो नु दृश्यते ॥ ३॥ तथैवाज्ञानसंवारे निरस्ते ब्रह्मरोधिनि । ब्रह्मबोधेन सम्भास्वद्ब्रह्मसाक्षात्कृतिर्भवेत् ॥ ४॥ दुग्धे न नवनीतं त्वं व्यापकं परिपश्यसि । तदेव लभसे किन्तु मथिते पयसि स्वयम् ॥ ५॥ तथा न ब्रह्म शक्नोषि सन्द्रष्टं चर्मचक्षुषा । ध्यानेन द्रक्ष्यसि ब्रह्म सर्वव्यापि त्वसंशयम् ॥ ६॥ स्वीयमाधेहि चित्तं च निरस्ताखिलकल्मषम् । अवसादय सम्बन्धान् मनसो बाह्यवस्तुभिः ॥ ७॥ समूलं जहि कामांश्च सङ्कल्पांस्त्यज सर्वशः । विनाशयाखिलास्तृष्णा ब्रह्मध्यानैकमानसः । अवर्ण्यप्रभमद्वैतं ब्रह्मपीठं तदैष्यसि ॥ ८॥ अपि तत्त्वमसीत्यस्य महावाक्यस्य तत्त्वतः । अर्थ बुध्यस्व जिज्ञासो स स्यानिःश्रेयसाय ते ॥ ९॥ ब्रह्मात्मैक्यानुभूतिश्च महावाक्योद्भवा पुनः । संसारसागरोत्तारे तात नौकायते खलु ॥ १०॥ समदृष्ट्या विवेकेन सत्सङ्गेन स्थिरेण च । चित्तेन न तद्विचारेण सुलभं परमं पदम् ॥ ११॥ यद्भावयति चित्तेन नरः सर्वात्मना सदा । तदेव जायते शीघ्रं यथा कीटो मृदालये ॥ १२॥ स्थिरासने समासीनो नियम्येन्द्रियजालकम् । पञ्चकोशानतिक्रम्य शान्तो ध्याय च सन्ततम् ॥ १३। स्वयम्प्रकाशमेवाहं सच्चिदानन्दकोऽद्वयम् । ब्रह्मास्म्याधारभूतं च विश्वकोशसमूहयोः ॥ १४॥ इत्येवं ब्रह्मास्म्याभावं त्वं तैलधारानिभं कुरु । स्नायन्नश्नन् श्वसन् गच्छन् स्वपन् क्रीडंश्च संलपन् ॥ १५॥ यावद्ब्रह्मावबोधं हि विन्दसे तावदाचर । विचारं ब्रह्मणोऽप्येवं सद्वृत्तमृषिसङ्गतिम् ॥ १६॥ अहम्ब्रह्मास्मिवाक्यस्य ध्यायं ध्यायमनुत्तमम् । यदर्थं सततं ब्रह्माकारवृत्तिं च पुष्यसि ॥ १७॥ आत्मान्तःकरणाच्छुद्धसत्त्वात्तर्हि प्रसिद्धयति । ब्रह्मज्ञानं स्वयं सर्वनिगमाखिलशीर्षकम् ॥ १८॥ ओमित्येकाक्षरं प्राहुः प्रतीकं ब्रह्मणः परम् । तदेव व्याहृतिः शक्तेस्त्रयीसारश्च विश्रुतः ॥ १९॥ निर्भयामरतातीरप्रापणे तरणिश्च तत् । ध्यायतो भक्तिभावेन प्रणवं वत्स सर्वदा ॥ २०॥ अभ्यासेनात्मनो ब्रह्मविचारं सहजं कुरु । तदैव ते मनस्तिष्ठेदात्मनो निपुणं वशे । नश्यन्ति मनसो ब्रह्मविचारेण मलानि हि ॥ २१॥ कोऽहं कुतो जगज्जातं कथं जन्ममृती पुनः । बन्धमोक्षौ च कावेवं मीमांसामनिशं कुरु । तदा हि शाश्वतानन्दपदं यास्यसि चाक्षतम् ॥ २२॥ यदि ते ब्रह्मसंलिप्सा लक्ष्यतृष्णां विनाशय । दूरीकरोषि चात्मानं विषयेभ्यो यथा यथा । तथा तथा त्वयि ब्रह्मतेजो वत्स प्रदीप्यते ॥ २३॥ रागद्वेषरुषाऽहतामानैर्यदि न मुच्यसे । पद्माद्यासन संविष्टोऽप्येकाहं नैव शक्नुयाः । समाधिं तर्हि निर्वेष्टं कदापीह निबोध तत् ॥ २४॥ विलापय वचश्चित्ते चित्तं बुद्धौ च शेमुषीम् । तत्साक्षिणि परां शान्तिमुपभुक्ष्व ततः परम् ॥ २५॥ सन्नियम्येन्द्रियग्रामं सदोद्यद्भावनां जहि । निमज्जय मनोऽन्तस्थे ब्रह्मण्येवमतन्द्रितः । येनानुभवितुं स्वस्य ब्रह्मणैक्यं त्वमर्हसि ॥ २६॥ चतुःसाधनसम्पत्या युक्तो वाचं नियम्य च । संहृत्य सकला आशाः श‍ृणु वेदसरस्वतीम् । विचिन्तय श्रुतं सम्यग्ध्यायंश्चैह्यात्मवेदनम् ॥ २७॥ निर्विकल्पे समाधौ हि सुबोधं ब्रह्म निश्चितम् । ब्रह्मण्येव विलीने स्यात्समाधिः शुद्धमानसे ॥ २८॥ परे ब्रह्मणि विज्ञाते निर्विकल्पसमाधिना । भिद्यते हृदयग्रन्थिः कामोऽविद्या च कर्म च ॥ २९॥ विना सम्पूर्णवैराग्यात्समाधिस्ते न सिद्ध्यति । समाधिं चात्मनो बोधो विना ते नैव जायते । अन्तरा चात्मसंवेदं सम्यङ्मोक्षो न सिद्ध्यति ॥ ३०॥ इति सप्तमोऽध्यायः सम्पूर्णः ।

८ ज्ञानाज्ञानस्वरूपम्

Chapter VIII Ignorance and Wisdom गुरुरुवाच । अहं कायो मदीयोऽयं देहश्चेयं सती मम । पुत्रोऽसौ मे च विप्रोऽहं स्थूलोऽहं पण्डितोऽप्यहम् । कृष्णोऽहमिति मन्येत यः स बद्धोऽज्ञ एव च ॥ १॥ नाहं देहस्त्वहं सर्वव्याप्यमयोऽविकार्यहम् । अखण्डश्च स्वतन्त्रोऽस्मि सच्चिदानन्द एव च ॥ २॥ स्वयम्भूर्ब्रह्म चास्मीति यो भावयति तत्त्ववित् । स ज्ञानी च महर्षिश्च स मुक्तो भवबन्धनात् ॥ ३॥ कर्माकार्षमिदं चाहं सोऽहं यामि सुरालयम् । उपाभुजीदृशान् भोगान् इति यो वेत्ति सोऽबुधः ॥ ४॥ नाहं कर्ता न भोक्तापि साक्षी केवलमस्मि तु । करोति प्रकृतिः कर्मेत्याह यः स ऋषिर्बुधः ॥ ५॥ इति अष्टमोऽध्यायः सम्पूर्णः ।

९ पञ्चकोशः

Chapter IX The Five Sheaths गुरुरुवाच । असावन्नमयः कोशः पञ्चभूतात्मकः स्मृतः । आद्यन्तवान् जडः कार्यस्तत्त्वं न प्राणकोशकः ॥ १॥ मलसान्द्रोऽप्यतो न त्वं कोशोऽयं पार्थिवाङ्गभृत् । त्वमस्य वर्ष्मणः साक्षी तद्रहस्यमिदं श‍ृणु । नाहं शरीरमेवास्मि ब्रह्माहं केवलं त्विति ॥ २॥ अथ प्राणमयः कोशो रजोगुणसमुद्भवः । आगन्तवान् जड कार्यस्तत्त्वं न प्राणकोशकः ॥ ३॥ अस्य कोशस्य साक्षी त्वं तद्रहस्पमिदं श‍ृणु । नाह प्राणमयः कोशो ब्रह्माहं केवलं त्विति ॥ ४॥ योऽयं मनोमयः कोशः स च सत्वगुणोद्भवः । आद्यन्तवान् जडः कार्यस्तत्त्वं नैव मनोमयः ॥ ५॥ अस्य कोशस्य साक्षी त्वं तद्रहस्यमिदं श‍ृणु । नाहं मनोमयः कोशो वह्माहं केवलं त्विति ॥ ६॥ यो विज्ञानमयः कोशः सोऽपि सत्त्वगुणोद्भवः । आद्यन्तवान् जहः कार्यस्त्वं विज्ञानमयो न तत् ॥ ७॥ अस्य कोशस्य साक्षी त्वं तद्रहस्यमिदं श‍ृणु । नाहं विज्ञानकोशो हि ब्रह्माह केवलं त्विति ॥ ८॥ य आनन्दमयः कोशः स च प्रकृतिसम्भवः । अविद्याकर्मजन्योऽपि व्यभिचारिगुणान्वितः ॥ ९॥ जडश्चायं त्वमानन्दकोशो नैव भवस्यतः । अस्य कोशस्य साक्षी त्वं तद्रहस्यमिदं श‍ृणु । नाहमानन्दकोशोऽपि ब्रह्माहं केवलं त्विति ॥ १०॥ इति नवमोऽध्यायः सम्पूर्णः ।

१० जीवनमुक्तिरवस्था

Chapter X The State of Jivanmukti गुरुरुवाच । पदेऽक्षरे तुरीये यो जीवन्मुक्तः प्रतिष्ठितः । सुखदुःखादिभिर्द्वन्द्वैर्न कदापि स पीड्यते ॥ १॥ आत्मीयसच्चिदानन्दस्वरूपेऽनारतं स हि । विश्राम्यातितरामेवं सुखेनात्मेच्छयाटति ॥ २॥ शरीरत्रितयात्कोशपञ्चकादप्यहं परः । अवस्थात्रयसाक्षी च शुद्धचैतन्यकेवलः । इत्येव साधुसंवित्ते जीवन्नपि विमुक्तिभाक् ॥ ३॥ आत्मैव सर्वभूतानीत्येवं यस्तु विजज्ञिवान् । जीवन्मुक्तस्य तस्यर्षेर्मोहः शोको न कोऽपि वा । न विद्यते द्वितीयोऽपि यतस्तस्य महात्मनः ॥ ४॥ निर्दग्धसर्वकामो यो निहताहङ्कृतिर्यतिः । अरूपभेददृक् शान्तः सर्वभूतेषु यः समः । मायाऽज्ञानतमोमुक्तः स परं भासते महान् ॥ ५॥ जीवन्मुक्तः सदानन्दे परब्रह्मण्यवस्थितः । निरुद्धचित्तवृत्तिश्च स्फटिकस्वच्छमानसः । सोऽहन्त्वम्भेदभावैश्च नोपलिप्तः कदाचन ॥ ६॥ विमुक्तो यो यतीन्द्रश्च जिताज्ञानमहारिपुः । सदानन्दरहस्यज्ञः स करार्पितभैक्ष्यभुक् । मूलेषु शाखिना चापि स्वपित्यानन्दनिर्भरः ॥ ७॥ स महर्षिर्न लोकस्य स्तुतिनिन्दे समीक्षते । यस्यापि ताड्यमानस्य शान्तमेव मनः स्थितम् ॥ ८॥ अनुगृह्णति यः पापानात्मपीडाकरान्मुदा । सर्वत्र केवलं स्वीयमात्मानं चानुपश्यति ॥ ९॥ यस्य दुःखेष्वनुद्विग्नं सुखेष्वप्रमदोज्ज्वलम् । मनश्च सोऽप्यसन्देहं जीवन्मुक्तः प्रकीर्त्यते । मनस्तस्य प्रशान्तं च ब्रह्मात्मैक्यानुभावतः ॥ १०॥ जीवन्मुक्तो हि संस्काररूपं जानाति विग्रहम् । विदेहमुक्तिभागन्यो नेति भेदं निबोध तम् ॥ ११॥ इति दशमोऽध्यायः सम्पूर्णः ।

११ ब्रह्मोपदेशः

Chapter XI Brahma-Upadesha गुरुरुवाच । न त्वं क्षरमिदं गात्रं नापीदं चञ्चलं मनः । नापीन्द्रियाणि बुद्धिर्नो नापि कारणविग्रहः । त्वं व्यापकाक्षरं ब्रह्मेतीदं बुद्धवैधि मुक्तिभाक् ॥ १॥ त्वं प्रज्ञानघनो ह्यात्मा ब्रह्म त्वं चिद्घनं तथा । त्वमानन्दघनश्चात्मा त्वं विज्ञानघनः पुमान् । अनुबुध्य परं तत्त्वमेतच्च भव मुक्तिभाक् ॥ २॥ अखण्डैकरसं ब्रह्म त्वं च चिन्मात्रपूरुषः । अलिङ्गस्त्वमनङ्गात्मा त्वमरागो निरञ्जनः । अनुभूय परं तत्त्वमेतच्च भव मुक्तिभाक् ॥ ३॥ देशकालातिगस्त्वं चानाद्यन्तोऽगश्च निःस्पृहः । अविकार्यमरोऽकर्मा त्वमेव ब्रह्म केवलम् । संविज्ञाय परं तत्त्वमेतच्च भव मुक्तिभाक् ॥ ४॥ अभेद्यस्त्वमनंशो च निर्जन्ममरणोऽव्ययः । स्वतन्त्रस्त्वं स्वयञ्ज्योतिरमेयस्त्वं सनातनः । एतबुद्ध्वा परं तत्त्वं विमुक्तिं निर्विशानघ ॥ ५॥ त्वमानन्दमयः साक्षात्पुरुषो ब्रह्म चिन्मयम् । ज्योतिर्मयस्त्वमात्मा च बुद्ध्वेदं भव मुक्तिभाक् ॥ ६॥ कायत्रयाच्च भिन्नस्त्वमन्यस्त्वं कोशपञ्चकात् । अवस्थात्रयसाक्षी त्वमेतबुद्ध्वैधि मुक्तिभाक् ॥ ७॥ दोषक्षयविनिर्मुक्तो भेदरोगविवर्जितः । अजरापरिणामस्त्वं चैतबुद्ध्वैधि मुक्तिभाक् ॥ ८॥ सर्वेषामन्तरात्मा यच्चानाद्यक्षरमव्ययम् । अमेयं परमं वस्तु ब्रह्मावाङ्मनसास्पदम् । तद्ब्रह्मैव त्वमस्यङ्ग ध्यायंस्तन्मुक्तिभाग्भव ॥ ९॥ इति एकादशोऽध्यायः सम्पूर्णः ।

१२ आत्मानुसन्धानम्

Chapter XII Realisation of the Self गुरुरुवाच । कच्चिद्विनष्टो मोहस्ते कच्चित्ते गलितं भयम् । साम्प्रतं वत्स सन्देहो निरस्तः कच्चिदेव ते ॥ १॥ कच्चित्त्वं सच्चिदानन्दस्वरूपे ह्यवतिष्ठसे । इदानीमात्मनो यस्माद्रहस्यं परमं मया । वेदान्तस्य तवाख्यातं सारभूतं त्रयीनिधेः ॥ २॥ शिष्य उवाच । भगवन्नधुनात्मानं गुरो जानामि निश्चितम् । अहमेव स्वयञ्ज्योतिरद्वयं चाविकारि च ॥ ३॥ अरूपं शाश्वतं विश्वव्यापकं केवलं विभो । अखण्डैकरसं ब्रह्म तेजोरूपमहं परम् ॥ ४॥ ब्रह्माहं सच्चिदानन्दं शुद्धोऽहममरोऽव्ययः । अमेयो निर्भयोऽकालो विरक्तो गतिवर्जितः । अदेहचित्तसम्बन्धो निष्कर्माहमतीन्द्रियः ॥ ५॥ नमस्ते भगवत्पाद त्वयाहं परिरक्षितः । संसारचक्रतो घोरात् त्वत्प्रसादेन शाश्वतः ॥ ६॥ आनन्दश्चामृतत्वं च संसिद्धमधुना प्रभो । सन्देहाज्ञानसम्मोहाः सर्वे मे विलयं गताः । प्रणामाः कोटिशः सन्तु भगवस्ते दयानिधे ॥ ७॥ गुरुरुवाच । य इमां मोक्षगीतां च नित्यमेकाग्रमानसः । प्रयतश्च युतो भक्त्या पठनेवानुतिष्ठति ॥ ८॥ उपदिष्टानि सर्वाणि सोऽमृतत्वं व्रजेल्लघु । आनन्दं शाश्वतं चापि परमां शान्तिमव्ययाम् । यत्रास्ते ब्रह्मजिज्ञासा तत्र स्युः शान्तिसम्पदः ॥ ९॥ इति द्वादशोऽध्यायः सम्पूर्णः । इति स्वामी शिवानन्दविरचिता अद्वैतवेदान्ततत्त्वज्ञसारदर्शका मोक्षगीता समाप्ता । ॐ शान्तिः शान्तिः शान्तिः ॥ Thus ends Moksha Gita which gives the essence of the Advaita Vedanta Philosophy. Hari OM Tat Sat! OM Shanti! Shanti!! Shanti!!! Encoded and proofread by PSA Easwaran
% Text title            : The Moksha Gita by Swami Sivananda
% File name             : mokShagItA.itx
% itxtitle              : mokShagItA (svAmI shivAnandavirachitA)
% engtitle              : mokShagItA
% Category              : giitaa, gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Swami Sivananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : See corresponding stotram
% Indexextra            : (Text and Meaning, PDF)
% Latest update         : August 15, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org