योगगीता मुद्गलपुराणे खण्डः ९ योगचरितम्
(अथ योगगीता प्रारम्भः ।)
१. सार्वभौमयोगो नाम प्रथमोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.५ सार्वभौमयोगो नाम पञ्चमोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
धन्योऽहं कृतकृत्योऽहं कृतस्त्वया महामुने ।
येन गणेशमाहात्म्यं श्रावितं योगदायकम् ॥ १॥
गणेशगीतासारादि कथितं तु विशेषतः ।
ज्ञानं योगप्रदं पूर्णं सङ्क्षेपेण त्वया परम् ॥ २॥
तन्न बुद्धं मया सर्वमतः सौलभ्यतो वद ।
योगं क्रमयुतं पूर्णं येन योगी नरो भवेत् ॥ ३॥
सूत उवाच ।
एवं पृष्टो महायोगी मुद्गलस्तमुवाच यत् ।
हर्षेण महता युक्तस्तत्तेऽहं कथयामि तु ॥ ४॥
मुद्गल उवाच ।
धन्योऽसि कृतकृत्योऽसि साक्षाद्गणपतेः किल ।
विभूतिवाचकस्तत्र न चित्रमिदमुत्तमम् ॥ ५॥
त्वया पृष्टं महाभाग लोकोपकारकारकम् ।
सर्वेषां सुलभत्वेन योगशान्तिपदप्रदम् ॥ ६॥
कथयामि च ते प्रीत्या गुह्यं वेदरहस्यकम् ।
शृणुष्वैकमना दक्ष योगं शान्तिप्रदायकम् ॥ ७॥
चित्तं पञ्चविधं प्रोक्तं तेषु पञ्चविधो रसः ।
सरसं चित्तमुत्सृज्य योगी भवति मानवः ॥ ८॥
क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
चित्तं पञ्चविधं विद्धि जगत्सु ब्रह्मसु स्थितम् ॥ ९॥
व्यष्टिभावे स्थिता ये तु जन्तवो विविधात्मकाः ।
लक्षचतुरशीतिषु योनिषु सम्भवाः किल ॥ १०॥
देहभोगादिमार्गेषु कुशलाः सम्भवन्ति ये ।
तेषु स्वस्वप्रपञ्चेषु नानाकार्यपरायणाः ॥ ११॥
तैः क्षिप्तं कार्यसिद्ध्यर्थं चित्तं कार्येषु नित्यदा ।
तत्तत्कार्यप्रकाशेन प्रकाशयति तान् हृदि ॥ १२॥
तेन कार्येषु दक्षास्ते भवन्त्यत्र न संशयः ।
तदेव क्षिप्तसंज्ञं त्वं चित्तं जानीहि मानद ॥ १३॥
केचित् स्वल्पज्ञकास्तेषु केचिज्ज्ञानाधिका मताः ।
मध्यमाः केचिदेवं तु नानाभेदाश्रिता नराः ॥ १४॥
त्रिविधेषु विभागेषु स्थिता नानाविभेदतः ।
नानाज्ञानयुतास्तेषां रूपं न कथितुं क्षमम् ॥ १५॥
लक्षचतुरशीतिषु जन्तवो विविधात्मकाः ।
व्यष्टिस्थाः सर्वकार्येषु ज्ञानहीना भवन्ति ये ॥ १६॥
ते मूढाः कथ्यते लोकैर्विषये चतुरैः सदा ।
तेषु नानाविधा भेदा अल्पाधिकसुमध्यमाः ॥ १७॥
तेषां प्रकाशकं चित्तं नानामूढस्वभावगम् ।
तदेव मूढसंज्ञाख्यं चित्तं ज्ञातव्यमञ्जसा ॥ १८॥
परैः सम्बोधितो जन्तुर्न बुबोध विचारतः ।
कार्यं नानाविधं तस्य चित्तं मूढं प्रकीर्तितम् ॥ १९॥
व्यष्टिस्था ये नरा दक्ष स्वधर्मनिरताः सदा ।
नानातपःपरा भूत्वा मुक्तिमिच्छन्ति शाश्वतीम् ॥ २०॥
विषयेषु विरज्यैव सदा ब्रह्मपरायणाः ।
कुर्वन्ति विविधं कर्माऽहर्निशं मुक्तिकारणात् ॥ २१॥
तदपि ब्रह्म हृदये न दृष्टं तैर्महात्मभिः ।
न संसारसुखे चित्तं तेषां रमति कर्हिचित् ॥ २२॥
अतो विक्षिप्तचित्तास्ते मता योगिजनैः पुरा ।
ब्रह्मार्पणक्रियाः सर्वाः कुर्वन्त्यन्तरबाह्यजाः ॥ २३॥
विशेषेणैव क्षिप्तोऽहं संसारे मायया सदा ।
विगतक्षेपणं सर्वे नानासाधनभावतः ॥ २४॥
तेषां मुक्त्यर्थमत्यन्तं प्रकाशयति भावनाम् ।
चित्तं क्रियात्मिकां तेन विक्षिप्तं तत्प्रकीर्तितम् ॥ २५॥
तत्र नानाक्रियायाश्च सामर्थ्येन विमोहितः ।
जानाति देवतां तुष्टां ममोपरि न संशयः ॥ २६॥
कदा देवप्रसादादि गृह्य विक्षेपसंयुतः ।
अनाधारां क्रियां कुर्याद्देवाज्ञावशगो मुधा ॥ २७॥
स्वप्नेषु विविधान् भावान् पश्यति तद्गतचेतसा ।
सत्यं स्वप्नं मदीयं तु मान्यं तादृशजं चरेत् ॥ २८॥
एवं विक्षिप्तभावेन मोहितः स कदाचन ।
अनाधारं करोत्येव नानातपःप्रभावतः ॥ २९॥
समष्टिव्यष्टिसंस्थं यच्चित्तं वैराटगं परम् ।
तेन व्यष्टिं समाव्याप्य भुङ्क्ते स विविधं सुखम् ॥ ३०॥
वैराटस्य क्रिया प्रोक्ता व्यापिका शास्त्रसम्मते ।
तत्र व्यापकभावस्य चित्तं प्रकाशदं मतम् ॥ ३१॥
तत्त्वेषु विविधेष्वेव स्थूलसूक्ष्मादिगेषु च ।
व्यापकभावकाशत्वाच्चित्तं तेषु स्थितं मतम् ॥ ३२॥
समष्टिव्यष्टिसंयोगेऽन्नं ब्रह्म स्थूलगं परम् ।
तथा स्वप्नगतं सूक्ष्मं सौषुप्तं समसंस्थितम् ॥ ३३॥
चेतनाभावगं पूर्णं तद्वन्नादात्मकं मतम् ।
अस्मिताख्यं परं ब्रह्म तेषु चित्तं प्रकीर्तितम् ॥ ३४॥
समष्टिव्यष्टिभागस्य तयोरैक्यस्य च प्रभो ।
प्रकाशकारकं विद्धि चित्तमेकाग्रसंज्ञितम् ॥ ३५॥
समष्टिव्यष्टिभावेषु न भिन्नं भवतीत्यहो ।
तेनैकाग्रं समाख्यातं चित्तं तज्ज्ञानकारकम् ॥ ३६॥
देहश्चतुर्विधः प्रोक्तः स्थूलः सूक्ष्मः समात्मकः ।
अस्मिताख्यश्चतुर्थश्च तेषु देही स्थितो मतः ॥ ३७॥
देहेषु मोहितो देही जीव इत्यभिधीयते ।
मोहहीनः स एवाऽपि शिवः प्रोक्तो मनीषिभिः ॥ ३८॥
जीवशिवात्मिका संज्ञा देहिनो भ्रममात्रतः ।
सदैकात्मस्वभावत्वात्तत्र भेदो न विद्यते ॥ ३९॥
तत्र जीवशिवाकारभावप्रकाशकारकम् ।
चित्तमेकाग्रसंज्ञाख्यं तिष्ठति देहिसंश्रितम् ॥ ४०॥
सास्मिताच्च परं चित्तमेकाग्रं विद्यते न वै ।
देहदेहिमयं चित्तमेकाग्रं योगिनां मते ॥ ४१॥
चतुर्णां वपुषां यत्र ब्रह्माकारेण जायते ।
संयोगो बिन्दुरूपं तज्ज्ञातव्यं ब्रह्म सर्वगम् ॥ ४२॥
चतुष्पदं बुधैः प्रोक्तं चतुर्भिर्वर्जितं सदा ।
देहानां ब्रह्म विख्यातं नानादेहस्वभावगम् ॥ ४३॥
तत्र चतुष्पदाकारभावप्रकाशकारकम् ।
चतुर्भिर्वर्जितस्यैव चित्तं तिष्ठति तद्गतम् ॥ ४४॥
देहेषु न भवेद्भिन्नं सर्वगमात्मभावतः ।
निरोधं कथ्यते चित्तं बिन्दुधर्मप्रकाशकम् ॥ ४५॥
जीवशिवात्मभावस्थं मोहहीनं सदात्मगम् ।
ब्रह्म सोऽहं समाख्यातं सदा भ्रान्तिविवर्जितम् ॥ ४६॥
तत्र जीवशिवाकारमोहहीनप्रकाशकम् ।
चित्तमात्मस्वरूपस्थं निरोधं कथ्यते बुधैः ॥ ४७॥
देहदेहिसमायोगे स्वत उत्थानमुच्यते ।
बोधाख्यं द्वन्द्वभावेन ब्रह्म खेलकरं सदा ॥ ४८॥
तत्र निरोधकं चित्तं तस्य रूपं वदाम्यहम् ।
सङ्क्षेपेण प्रजानाथ शृणु भावसमन्वितः ॥ ४९॥
बाह्यं स्थूलं समाख्यातमान्तरं सूक्ष्मगं मतम् ।
बाह्यान्तरैकभावस्थमानन्ददेहगं परम् ॥ ५०॥
त्रिभिर्हीनं त्रयाणां च चालकं ह्यस्मितात्मकम् ।
अहमानुभवेनैतज्ज्ञातव्यं योगिनां हृदि ॥ ५१॥
तेषां संयोगभावे यच्चतुर्णां वपुषां परम् ।
सर्वात्मकं भवेद्ब्रह्म पञ्चमं बिन्दुसंज्ञितम् ॥ ५२॥
चतुर्विधा नरस्यैव कल्पना हृदि संस्थिता ।
अतः परं न भेदोऽस्ति भवेद्येनास्य कल्पना ॥ ५३॥
बिन्दुत्यागे निरालम्बं चित्तं भवति सर्वदा ।
सततं तत् समाख्यातं ब्रह्म ध्यातृविहीनतः ॥ ५४॥
न किञ्चिज्ज्ञायते यत्र भेदहीनप्रभावतः ।
सोऽहं मात्रात्मकं चित्तं निरालम्बसमाधिदम् ॥ ५५॥
अवलम्बनगं चित्तं चतुर्धा देहिसंश्रितम् ।
अवलम्बनहीनं तद्देहिगं चिन्मयं भवेत् ॥ ५६॥
निरालम्बपरित्यागेऽधिकसंरोधनं भवेत् ।
चित्तस्य देहदेहिभ्यां हीनत्वान्नात्र संशयः ॥ ५७॥
मनोवाणीविहीनं तच्चित्तं ज्ञातव्यमादरात् ।
अस्तिनास्तिविहीनत्वादाधाराधेययोगतः ॥ ५८॥
अवलम्बनयोगो न पञ्चधा योगिनां हृदि ।
निरालम्बनकं तस्मान् मनोवाणीविवर्जितम् ॥ ५९॥
बोधेन बुद्ध्यते सर्वं निरालम्बं समाधिना ।
अवलम्बनकं तद्वद्बोधबोधो न विद्यते ॥ ६०॥
एवं बोधात्मकं ब्रह्म देहदेहिसमाधिदम् ।
देहदेहिसमायोगप्रकाशं चित्तमुच्यते ॥ ६१॥
देहसौख्यं प्रजानाति देहिसौख्यं निरन्तरम् ।
तयोर्योगे च यत् सौख्यं जानाति ब्रह्म बोधगम् ॥ ६२॥
पदानां बोधभावेन पदार्थानां विशेषतः ।
उत्थानं जायते तस्मात् स्वत उत्थानमुच्यते ॥ ६३॥
सुखं ज्ञात्वा समुत्थानं स्वयमेव करोति यः ।
देहदेहि च सृष्ट्वा स खेलति ब्रह्मतत्परः ॥ ६४॥
तत्रोत्थानप्रकाशाख्यं चित्तं निरोधसंज्ञकम् ।
तिष्ठत्यत्र न सन्देहो ज्ञातव्यं योगिनां हृदि ॥ ६५॥
बोधत्यागे समाख्यातं ब्रह्म साङ्ख्यं प्रजापते ।
कः सङ्ख्यां कुरुते तस्य बोधनाशप्रभावतः ॥ ६६॥
उत्थानवर्जितं ब्रह्म साङ्ख्यं साक्षिस्वभावगम् ।
बोधहीनात् कदा तत्रोत्थानं नैव प्रजापते ॥ ६७॥
प्रकृतिसम्भवं बोधं तयोः पुरुषसम्भवम् ।
योगसौख्यं न जानाति साङ्ख्यं बोधविहीनतः ॥ ६८॥
बुद्ध्वा सुखं नरस्यैवोत्थानं यथा प्रजापते ।
तथा मायासुखं ज्ञात्वा ब्रह्मणोत्थानकं भवेत् ॥ ६९॥
तथा परत उत्थानं साङ्ख्ये नित्यं प्रतिष्ठितम् ।
तत्र योगं प्रवक्ष्यामि येन योगी नरो भवेत् ॥ ७०॥
यद्युत्थानसमायुक्तं भवति चेत्तदा भवेत् ।
उत्थानवर्जितं दक्ष तदेवं बीजमाद्यकम् ॥ ७१॥
उत्थानहीनभावेन सदा साङ्ख्यं विराजति ।
स्वयं च स्वत उत्थानं निःसृतं तत् प्रभावतः ॥ ७२॥
साङ्ख्येन न कृतं चैतत्तथाप्युत्थानहीनतः ।
स्वयं च स्वत उत्थानं जायते नात्र संशयः ॥ ७३॥
यदाऽनृतं भवेद्दक्ष तदा सत्यं प्रकीर्त्यते ।
एकं ब्रह्म यदा तिष्ठेत् सत्यं तत् केन कथ्यते ॥ ७४॥
न दृष्टमनृतं येन न जानाति स सत्यकम् ।
सदा तादृशरूपत्वादेकभावप्रदर्शनात् ॥ ७५॥
अत उत्थानहीनत्वं धृतं तेन विशेषतः ।
स्वत उत्थानभावाख्यं स्वयमेवोपजायते ॥ ७६॥
न कृतं तेन साङ्ख्येन स्वयमेव विनिःसृतम् ।
अतः परत उत्थानं प्राप्तं तत्र न संशयः ॥ ७७॥
सङ्ख्याहीनप्रकाशाख्यं चित्तं तत्र प्रवर्तते ।
बोधहीनप्रकाशेन ज्ञायते तन्निरोधकम् ॥ ७८॥
उत्थानेन युतं ब्रह्म बोधमयं प्रकीर्तितम् ।
साङ्ख्यमुत्थानहीनं च तयोर्योगे निजात्मकम् ॥ ७९॥
स्वतः परत उत्थानं तत्र नैव प्रजापते ।
जगतां ब्रह्मणां योगे भवति स्वस्वरूपकम् ॥ ८०॥
स्वस्वरूपात् परो नास्ति संयोगः तन्मयः कदा ।
स समाधिः समाख्यातो ब्रह्मण्यस्यान्वयात्मकः ॥ ८१॥
स्वकीयाभेदभावस्य तत्र प्रकाशकारकम् ।
चित्तं निरोधसंज्ञं तु तिष्ठत्यत्र न संशयः ॥ ८२॥
संयोगः पञ्चधा दक्ष भवति शृणु रूपकम् ।
तस्य भिन्नं प्रवक्ष्यामि लोकानां हितकारणात् ॥ ८३॥
एते भेदाः समाख्याता योगेन लयतां ययुः ।
स्वसंवेद्येन सन्देहस्तेन सृष्टाश्च पालिताः ॥ ८४॥
एतेषां रूपमास्थाय खेलति स्वस्वरूपकम् ।
नानालीलाकरं प्रोक्तं तदेवं वेदवादिभिः ॥ ८५॥
उत्पत्तिनाशसंयुक्ता भेदा एते मनीषिभिः ।
तेषां निजस्वभावत्वादसत्स्वानन्द उच्यते ॥ ८६॥
तद्ब्रह्म शक्तिरूपाख्यं ज्ञातव्यं भेदधारणात् ।
तत्रासत्काशभावेन चित्तं तिष्ठति निश्चितम् ॥ ८७॥
एतैर्भेदैर्विहीनं यदमृतं ब्रह्म कथ्यते ।
एतेषां जीवनं नित्यं तच्च सत्स्वस्वरूपकम् ॥ ८८॥
तद्ब्रह्म सौरमाख्यातं भेदहीनप्रभावतः ।
तत्र नित्यस्य काशाख्यं चित्तं निरोधकं मतम् ॥ ८९॥
असत् सत् द्विविधं प्रोक्तं तयोर्योगे समात्मकम् ।
स्वसंवेद्यं परं ब्रह्म विष्णुर्द्वन्द्वप्रवेशनात् ॥ ९०॥
तत्रानन्दप्रकाशाख्यं चित्तं निरोधसंज्ञितम् ।
तिष्ठते तेन योगीन्द्रास्तं गच्छन्ति समाधिना ॥ ९१॥
त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं नेति कारकम् ।
मोहहीनप्रभावेण तुरीयं ब्रह्म कथ्यते ॥ ९२॥
तदेव शिवसंज्ञाख्यं ज्ञातव्यं योगसेवया ।
तत्र नेति प्रकाशाख्यं चित्तं तिष्ठति तद्गतम् ॥ ९३॥
त्रिविधं मोहसंयुक्तं मोहहीनं चतुर्थकम् ।
तेषां संयोगभावे वै स्वसंवेद्यं प्रकीर्तितम् ॥ ९४॥
पूर्णसंयोगभावाख्यं पञ्चमं ब्रह्म तत् स्मृतम् ।
तस्मात् परो न संयोगः कथ्यते योगिभिः सदा ॥ ९५॥
स एव गणनाथस्तु स्वानन्दाख्यः प्रकीर्तितः ।
तत्र निजप्रकाशाख्यं चित्तं तिष्ठति सर्वगम् ॥ ९६॥
अतः परमयोगाख्यं ब्रह्म मायाविवर्जितम् ।
तदेव योगिभिः प्रोक्तं निवृत्तिसुखदायकम् ॥ ९७॥
न तत्र जगतां दक्ष ब्रह्मणां योग उच्यते ।
तस्याऽपि तेषु तद्वच्च तेनायोग इति स्मृतः ॥ ९८॥
ब्रह्मणि तन्मयत्वेन स्वस्य संयोग उच्यते ।
तस्मान्निवृत्तिरापन्ना तेन निवृत्तिसंज्ञकम् ॥ ९९॥
स्वसंवेद्यस्य नाशेन लभ्यते ह्यसमाधिना ।
नाऽगतं न गतं ब्रह्म संयोगः कुत्र जायते ॥ १००॥
तत्रायोगप्रकाशाख्यं चित्तं निरोधसंज्ञितम् ।
तिष्ठति चापवादेषु निवृत्तिसुखदायकम् ॥ १०१॥
इदं पञ्चविधं चित्तं कथितं ते प्रजापते ।
जगत्सु ब्रह्मसु तज्ज्ञं नानाप्रकाशदायकम् ॥ १०२॥
भूमयः पञ्च विख्याताश्चित्तस्य विविधात्मनः ।
भूमीनां त्यागभावे तच्चित्तं ब्रह्ममयं भवेत् ॥ १०३॥
अतः पञ्चविधं चित्तं त्यज त्वं योगसेवया ।
योगी भविष्यसि दक्ष चिन्तामणौ न संशयः ॥ १०४॥
संयोगायोगसंज्ञस्थं निरोधाख्यं मतं बुधैः ।
अतः परो निरोधो न विद्यते सर्वसम्मते ॥ १०५॥
सार्वभौमात्मधर्मेण योगी भवति मानवः ।
तत्र शान्तिं लभेच्चित्तं त्यक्त्वा भूमिभवं भ्रमम् ॥ १०६॥
योगरूपे सुखं यद्वै योगिनां हृदि वर्तते ।
तदेव कथितुं दक्ष शक्यते न कदाचन ॥ १०७॥
मनोवाणीमयं चित्तं चतुर्विधं प्रकीर्तितम् ।
मनोवाणीविहीनं तु निरोधसंज्ञकं मतम् ॥ १०८॥
अतो योगः समाख्यातो मनोवाणीमयो न च ।
मनोवाणीविहीनोऽपि कथ्यते नैव योगिभिः ॥ १०९॥
कीदृशं ब्रह्म तत्राहं योगेन कीदृशेन च ।
ब्रह्मभूतः स्वयं जात एभ्यः शान्तिं लभेन्नरः ॥ ११०॥
योगे योगी नरो जातस्तत्र न ज्ञायते कदा ।
ब्रह्म वा साधनं किञ्चिद्ब्रह्मभूतस्य कारकम् ॥ १११॥
तन्मयत्वं ब्रह्मणि न न च तन्मयवर्जनम् ।
अतः शान्तिं समागृह्य शान्तियोगपरो भवेत् ॥ ११२॥
पञ्चविधेषु चित्तेषु दृश्यते जगतां परम् ।
ब्रह्मणामैश्वरं सौख्यं रसं तत्र न धारयेत् ॥ ११३॥
नानारसविहीनं तु चित्तं कृत्वा प्रजापते ।
तत्त्यक्त्वा स भवेद्योगी शान्त्या शान्तिमवाप्नुयात् ॥ ११४॥
स्रोतसोर्णवमानन्दाद्गच्छन्त्यप्रेरितान्यपि ।
प्रारब्धेन तथा कामान् भुनक्ति योगिसत्तमः ॥ ११५॥
नानाद्वन्द्वविहारेषु समभावपरायणः ।
योगी भवति शान्त्या च सदा योगसुखे रतः ॥ ११६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन सार्वभौमयोगो नाम पञ्चमोऽध्यायः ॥ ९.५
॥ इति योगगीतासूपनिषत्सु सुगमासु प्रथमोऽध्यायः ॥ ९(योगगीता).१
२. योगिचित्तानुभवशान्तिसुखवर्णनयोगो नाम द्वितीयोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.६ योगिचित्तानुभवशान्तिसुखवर्णनयोगो नाम षष्ठोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
योगस्यानुभवं ब्रूहि यत्र शान्तिं लभेन् मनः ।
रसं त्यक्त्वा सुशान्त्या तद्युक्तं तिष्ठेन् महामुने ॥ १॥
मुद्गल उवाच ।
न तत्र दृश्यते दक्ष जगद्ब्रह्मभवं सुखम् ।
तन्मायामयगं दृष्ट्वा तस्मान्निर्वृत्तिगो भवत् ॥ २॥
नाहं देहो न मे देहो नाहं नानाभ्रमान्वितः ।
चराचरमयो नैव ताभ्यां संवर्जितो न च ॥ ३॥
न समष्टिसमायुक्तो व्यष्टिगो न कदाचन ।
ब्रह्माऽहमखिलेष्वेव तत्तद्भावविवर्जितः ॥ ४॥
न बाह्यसुखभोक्ताऽहं नान्तरस्थपरायणः ।
न समानगतोऽहं तु नात्मप्रतीतिधारकः ॥ ५॥
न स्थूलो नैव सूक्ष्मोऽहं नानन्दगः कदाचन ।
न नाददेहसंस्थश्च सर्वाकारः सदा मतः ॥ ६॥
चतुष्पादाः सन्ति मे चेन् मायया सन्धृता मया ।
मायाहीनप्रभावेण पादहीनोऽहमञ्जसा ॥ ७॥
मायायुक्तवियुक्तत्वं मयि नैव प्रतिष्ठितम् ।
मायासंस्थापितं द्वन्द्वं तदप्याश्चर्यमुत्तमम् ॥ ८॥
अनेनानुभवेनैव योगी बिन्दुगतो भवेत् ।
तत्र लीनस्वभावेन सदा शान्त्या प्रवर्तते ॥ ९॥
अथाहं भेदहीनश्च न भेदो मयि वर्तते ।
सदा सन्ततभावेन संस्थितोऽत्र निरन्तरम् ॥ १०॥
न सृजामि हराम्येव पालयामि न निश्चितम् ।
स्वयमेव जगद्भाति यथा मयि धृतं भवेत् ॥ ११॥
उत्पन्नं स्वस्वभावेन स्मितं नष्टं तथा किल ।
विश्वं तत्र न मे हानिर्वृद्धिर्भवति कर्हिचित् ॥ १२॥
न विश्वस्मिन्नहं जीवो न शिवः साक्षिभावगः ।
भ्रान्त्या मायायुतं हीनं वदन्त्ययोगिनः सदा ॥ १३॥
यथाऽऽकाशभवं मेघपटलं सर्वतः स्थितम् ।
तत्र सूर्यस्य किं दक्षाच्छादनं सम्भवेत् कदा ॥ १४॥
नष्टेऽभ्रे किं रविः साक्षाच्छादनेन विवर्जितः ।
तथा मोहविमोहौ च मयि भ्रान्त्या वदन्ति ये ॥ १५॥
सदैकात्मस्वरूपाख्ये मयि मोहविमोहकौ ।
कथं भेदौ प्रवर्तेते पश्य मायाप्रभावजौ ॥ १६॥
तथापि विश्वसंयुक्तो मोहितोहं न संशयः ।
ज्ञात्वाऽऽत्मानं विमोहोऽहं सदा साक्षी न संशयः ॥ १७॥
मायया जीवसंज्ञोऽहं तथा शिवो न संशयः ।
मयि ब्रह्मणि विश्वं तत् दृश्यते नैव दृश्यते ॥ १८॥
एवं ज्ञात्वा स्वयं योगी सदा शान्त्या प्रवर्तते ।
द्वन्द्वभावं परित्यज्य सोऽहं ब्रह्मणि संस्थितः ॥ १९॥
अतः परं प्रवक्ष्यामि ब्रह्मानुभवरूपकम् ।
न देहो नैव देहस्थोऽहं भवामि कदाचन ॥ २०॥
सन्ततं मयि नास्त्येव विश्वं मयि न विद्यते ।
भेदाभेदविहीनत्वाद्ब्रह्म ब्रह्मण्यहं रतः ॥ २१॥
विश्वरूपोऽहमेवेदं मयि सर्वं प्रतिष्ठितम् ।
विश्वहीनो न सन्देहः सदैकरूपधारकः ॥ २२॥
न सृष्टं पाल्यते नैव ह्रियते न मया कदा ।
विश्वं सृष्टं हृतं नित्यं पालितं सर्वदा मया ॥ २३॥
मयि सन्ततभावश्च दृश्यते न विनिश्चितम् ।
न विश्वं विविधाकारं नानादेहपरायणम् ॥ २४॥
सदा बोधमयोऽहं तु देहदेहियुतस्तथा ।
मम तत्र न भो दक्ष बन्धाऽबन्धौ प्रकीर्तितौ ॥ २५॥
मायया संयुतो नित्यं देहदेहिमयो मतः ।
मायाहीनप्रभावेण देहदेहिविवर्जितः ॥ २६॥
मायायुक्तवियुक्तत्वं मयि कुत्र प्रदृश्यते ।
सदाऽहं बोधरूपाख्यो ब्रह्मणि ब्रह्मभावितः ॥ २७॥
एवं बोधात्मकेनैवानुभवेन प्रजापते ।
योगी योगसमायुक्तः सदा शान्त्या प्रवर्तते ॥ २८॥
अतः परं विबोधाख्यं वक्ष्यामि ब्रह्मभूतकम् ।
प्रकृतिर्न तथा दक्ष पुरुषोऽहं न निश्चितम् ॥ २९॥
तयोर्योगेन बोधोऽहं ब्रह्माऽहं भोगवर्जितः ।
सदा ब्रह्मणि संस्थश्च खेलहीनप्रभावतः ॥ ३०॥
मिथ्यारूपं जगत् सर्वं जगदात्मा तथा मतः ।
तयोर्योगकरं ब्रह्म मिथ्यामूलप्रकाशकम् ॥ ३१॥
मयि ब्रह्मणि नास्त्येव प्रकृतिर्वा पुमान् क्वचित् ।
तयोर्योगो भ्रमाकारः सदा खेलपरायणः ॥ ३२॥
बोधेनोत्थानभावश्च जायते ब्रह्मणः सदा ।
मिथ्याभूतं तदेवाऽपि कथं मयि प्रवर्तते ॥ ३३॥
सत्यं ब्रह्म इति प्रोक्तं वेदेषु वेदवादिभिः ।
तत्र खेलोऽनृताकारः कुतस्तिष्ठति भ्रान्तिदः ॥ ३४॥
सदा ब्रह्मसुखे सक्तो ब्रह्मणि ब्रह्मभावितः ।
तत्र भेदादिकं नास्ति स्त्रीपुम्भावमयं कदा ॥ ३५॥
मायया रचितं सर्वमनृताख्यं न संशयः ।
सा मयि न स्थिता दक्ष निराधारा भ्रमान्विता ॥ ३६॥
ब्रह्मरूपं च मां दृष्ट्वा स्वयमेव विनश्यति ।
माया ततः स्वयं साक्षात् सत्यरूपो भविष्यति ॥ ३७॥
यद्यहं मायया युक्तस्तया स्त्रीपुम्मयं जगत् ।
सृजामि चेत्तदा सत्यं मयि कुतः प्रतिष्ठति ॥ ३८॥
यत्रानृतस्वरूपं तु नास्त्येव वेदवादतः ।
तदेव सत्यमाख्यातमतो बोधो न दृश्यते ॥ ३९॥
अनृतं विश्वमखिलं प्रकृतिपुरुषात्मकम् ।
तस्माद्भिन्नोऽहमेकश्च सत्यरूपो न संशयः ॥ ४०॥
योगेनैतादृशेनैव शान्तियुक्तो भवेन्नरः ।
सङ्ख्यां त्यक्त्वा स विविधां ब्रह्मभूतस्वभावतः ॥ ४१॥
अथ स्वानन्दयोगं तु वदिष्यामि हिताय ते ।
तं शृणुष्व प्रजानाथ सावधानेन चेतसा ॥ ४२॥
सत्यमुत्थानहीनं चानृतमुत्थानसंयुतम् ।
ब्रह्मणि द्विविधं नास्ति स्वस्वरूपिणि नित्यदा ॥ ४३॥
बोधयुक्तं स्वतोत्थानं साङ्ख्यमुत्थानवर्जितम् ।
तयोर्योगे परं ब्रह्माऽसत्स्वानन्दमयं भवेत् ॥ ४४॥
उत्थानवर्जितोऽहं नोत्थानयुक्तोऽपि नाञ्जसा ।
उत्थानयुक्तहीनोऽहं पश्य मे योगमुत्तमम् ॥ ४५॥
मयि ब्रह्मणि सर्वं तत् स्वस्वरूपमयं भवेत् ।
तत्रोत्थानेन युक्तत्वं हीनत्वं नैव दृश्यते ॥ ४६॥
अहो मायाप्रभावेण मां वदन्ति विमोहिताः ।
उत्थानेन युतं हीनं स्वस्वरूपं निजे रतम् ॥ ४७॥
उत्थानसंयुतं ब्रह्मोत्थानहीनं प्रकीर्तितम् ।
ब्रह्मणि तन्मयं सर्वं संयोगायोगभावतः ॥ ४८॥
मयि ब्रह्मणि संयोगो जायते योगिनां यदा ।
उत्थानेन युतं हीनं कः पश्यति ततः परम् ॥ ४९॥
समाधिहीनभावेन पश्यन्ति विविधं सदा ।
अयोगिनो न सन्देहो योगिनां वै न विद्यते ॥ ५०॥
सर्वं ब्रह्मेति वेदेषु कथ्यते वेदवादिभिः ।
अतो मायां परित्यज्य ब्रह्माकारो भवेन्नरः ॥ ५१॥
अनेन विधिना योगं साधयेद्यः समाधिना ।
ब्रह्मणि ब्रह्मभूतः स शान्तिं प्राप्नोति शाश्वतीम् ॥ ५२॥
अथ सत्स्वस्वरूपस्य विधेर्योगं वदामि भोः ।
तं ज्ञात्वा योगमार्गेण योगी भवति मानवः ॥ ५३॥
सर्वं ब्रह्मेति वेदेषु कथितं नात्र संशयः ।
तदेवोपाधिसंयुक्तं सर्वं मायाप्रभावतः ॥ ५४॥
एकमेवाद्वितीयं यद्ब्रह्म वेदविवादतः ।
तत्र सर्वं कुतो भाति नानाभावपरायणम् ॥ ५५॥
नाहमुत्थानसंयुक्तो नाहमुत्थानवर्जितः ।
तयोर्योगमयोऽहं नाद्वितीयेऽस्मिन् स्थितः सदा ॥ ५६॥
न सत्यं मयि नास्त्येवानृतं तत् संयुतं परम् ।
ब्रह्म संयोगदं नास्ति सदाऽहं ब्रह्मसंज्ञकः ॥ ५७॥
न मया सत्यरूपं तु सृष्टं नानृतरूपकम् ।
तयोर्योगमयं नैवामृतोऽहं चात्मभावतः ॥ ५८॥
आदिमध्यान्तभावाश्च कुतो मयि भवन्ति ते ।
सदामृतमये संस्थोऽहमात्मा ब्रह्मभावितः ॥ ५९॥
मायया संयुताः सर्वे सर्वेषां जीवनं परम् ।
मां वदन्ति विशेषेण मयि सर्वं न विद्यते ॥ ६०॥
सर्वात्मकं परं ब्रह्म नानाखेलयुतं भवेत् ।
खेलहीनं भवति च तदेवापि तयोः परम् ॥ ६१॥
तत्राहं नागतो दक्ष न गतोऽपि कदाचन ।
स्वयमेव भवेत् पश्य जीवनं मे प्रभावतः ॥ ६२॥
तत्र किं मयि सर्वात्मविकारो दृश्यते कदा ।
भ्रान्तियुक्ता मां वदन्ति जीवनं ब्रह्मणां परम् ॥ ६३॥
ब्रह्मणां जगतां नैव जीवनं सन्धृतं मया ।
स्वयमेव प्रभावेण मयि तत् दृश्यते वृथा ॥ ६४॥
सदा ब्रह्मणि संस्थोऽहं भेदाभेदादिवर्जितः ।
अद्वितीयप्रभावेणात्माऽहं पूर्णस्वभावतः ॥ ६५॥
अनेन योगमुख्येन योगी सञ्जायते नरः ।
ब्रह्मणिब्रह्मभूतत्वाच्छान्तियुक्तो भवेत् सदा ॥ ६६॥
अतः परं समाख्यं यद्ब्रह्मानुभवरूपकम् ।
कथयामि महाप्रीत्या येन योगी भवेन्नरः ॥ ६७॥
नाहं सर्वात्मको दक्ष नाहमात्मात्मकः कदा ।
आनन्दोऽहं तयोः साम्ये ब्रह्मणि ब्रह्मभावतः ॥ ६८॥
मया मायाबलेनैव सर्वात्मकं प्रतिष्ठितम् ।
एकमेवाद्वितीयाख्यं तयोः साम्येऽहमास्थितः ॥ ६९॥
ब्रह्मणि सर्वभावश्च भावहीनं कुतो भवेत् ।
अमृतं मृतमूलं यन्नास्त्येव मयि सर्वदा ॥ ७०॥
अनन्तलीलया युक्तं लीलाहीनं न विद्यते ।
मयि लीलायुतं हीनं वर्तते पश्य मे महः ॥ ७१॥
अखण्डरूपभावेन संस्थितोऽहं सदाऽमलः ।
नानाविकारहीनत्वाद् द्वाभ्यां हीनोऽहमञ्जसा ॥ ७२॥
ब्रह्मणि सर्वभावश्च वर्तते नात्र संशयः ।
सदात्मभावस्तत्रैव साम्यं वेदे ततः स्मृतम् ॥ ७३॥
यद्यत् सङ्कथ्यते वेदे तेषु ब्रह्म स्थितं मतम् ।
न वर्ण्यते तथा तत्र न तद्ब्रह्ममयं किल ॥ ७४॥
अतः समं समाख्यातं ब्रह्म वेदविवादतः ।
आनन्दमुभयानन्दादासमन्ताद्विचारय ॥ ७५॥
आनन्दोऽहं न सन्देहो ब्रह्म ब्रह्मसु संस्थितम् ।
अनेनानुभवेनैव शान्तियुक्तो नरो भवेत् ॥ ७६॥
अतस्ते व्यक्तसंज्ञस्थं कथयामि प्रजापते ।
ब्रह्मानुभवमाहात्म्यं येन योगी भवेन्नरः ॥ ७७॥
अहमव्यक्तरूपश्च त्रिभिर्हीनः सदा मतः ।
त्रिषु मोहविहीनोऽहं त्रिनेतिकारकः परः ॥ ७८॥
सर्वात्मकं मयि नास्ति तथाऽमृतमयं न च ।
साम्यं स्वाधीनसंज्ञेऽथ ब्रह्मणि नन्दनात्मकम् ॥ ७९॥
उत्थानयुक्तहीनाख्यो मोहः सर्वमये स्थितः ।
सदाऽमृतमयो मोहोऽखण्डब्रह्मणि कथ्यते ॥ ८०॥
नन्दनं सर्वभावेषु समत्वान्मोहरूपकम् ।
सदा स्वाधीनता तेषु कुतस्त्रिषु भवेत् किल ॥ ८१॥
त्रिभिर्युक्तोऽहमत्यन्तं तदपि त्रिविमोहतः ।
भिन्नः सदा त्रयाणां तु नेति कर्ताहऽमञ्जसा ॥ ८२॥
नानाभावसमायुक्तं भावहीनं ततः परम् ।
साम्यमुभयगं तेभ्यः परोऽव्यक्तस्ततः स्मृतः ॥ ८३॥
सृष्ट्वाऽहं त्रिविधां मायां तत्र खेलकरो मुदा ।
मोहहीनोऽहं तदपि मायायाः स्वप्रभावतः ॥ ८४॥
मदाज्ञया त्रयं नित्यं चलत्यत्र न संशयः ।
स्वस्वव्यापारसंयुक्तं स्वाधीनोऽहं प्रभावतः ॥ ८५॥
त्रयाणामन्तरे प्रज्ञस्तिष्ठाम्यत्र न संशयः ।
ममान्तरे कोऽपि न वै प्रेरकः साधुसत्तम ॥ ८६॥
स्वस्वभावेषु नित्यं तु प्रेरकस्त्रिषु संस्थितः ।
तथापि नैव मे मोहो नाहं प्रेरक उच्यते ॥ ८७॥
अहमव्यक्तरूपश्च वेदे सङ्कथितो मतः ।
नेह नानास्तिभावाख्यः सदा नानात्रिवर्जितः ॥ ८८॥
नेह नानाप्रमाणेनाऽव्यक्तं ब्रह्म सनातनम् ।
तदेवाहं सुखे सक्तः सदा ब्रह्मणि योगतः ॥ ८९॥
सर्वेषां नेति कर्ताऽहं महादण्डधरः प्रभुः ।
नेति कर्ता नास्ति मे कस्तेनाव्यक्तोऽहमञ्जसा ॥ ९०॥
मनोवाणीविहीनोऽहमव्यक्तः परमो मतः ।
अनेनानुभवेनैव शान्तिं प्राप्नोति मानवः ॥ ९१॥
अथ पूर्णनिजानन्दानुभवं शृणु सौख्यदम् ।
येन स्वानन्दसंयुक्तो भविष्यसि महामते ॥ ९२॥
अहं ब्रह्ममयः साक्षान् मयि मोहविवर्जितम् ।
कुतो मोहयुतं ब्रह्म निजरूपे भवेत् कदा ॥ ९३॥
महावाक्ययुता वेदा यदा लीनाः समाधिना ।
तदा स्वानन्दगाः प्रोक्ताः पश्य वेदे महात्मभिः ॥ ९४॥
अहम्भावयुतो जन्तुर्मायया तुर्यभावया ।
मोहहीनश्च युक्तश्च भवति भ्रमभावतः ॥ ९५॥
चतुर्विधं मया सृष्टं नानाभावपरायणम् ।
भावहीनं समानं चाव्ययं तेषु स्थितेन वै ॥ ९६॥
ब्रह्मदोषविहीनं तु दोषयुक्तं प्रकीर्तितम् ।
साम्यं नेतिमयं वेदे चतुर्हीनपरं भवेत् ॥ ९७॥
स्वानन्दे तन्मयो योगी भवते यः समाधिना ।
न पश्यति पुनर्ह्यत्र चतुर्षु मोहितात्मसु ॥ ९८॥
समाधिना युतो योगी निजरूपे लयं गतः ।
न पुनर्दर्शनं तस्य तेषां तत्र प्रवर्तते ॥ ९९॥
कीदृशोऽहमिमां मायां यस्त्यक्त्वा योगसंयुतः ।
ब्रह्मणि ब्रह्मभूतः स भवति स्वस्वरूपिणि ॥ १००॥
यदा ब्रह्मणि योगेन तन्मयो भवति स्वयम् ।
स्वपरादिकमेवेदं पुनर्वद कुतः प्रभो ॥ १०१॥
अहं ब्रह्मेति यत् प्रोक्तं पश्य वेदे विचारतः ।
तेनैव कृतकृत्यः स भवति योगसेवया ॥ १०२॥
एवं संयोगयोगेन भवेत् ब्रह्मणि तन्मयः ।
शान्तियुक्तः स वै साक्षात् वर्तते शान्तिधारकः ॥ १०३॥
अतः परमयोगाख्यं वदामि योगमुत्तमम् ।
तत्रानुभवमात्रेण शान्तियुक्तो नरो भवेत् ॥ १०४॥
अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भवेदिदम् ।
तन्मयत्वं प्रजानाथ ब्रह्म ब्रह्मणि संस्थितम् ॥ १०५॥
ब्रह्म वाणीविहीनं च मनोगतिविवर्जितम् ।
तदेव नागतं कुत्र न ब्रह्मणि गतं पुनः ॥ १०६॥
यदा भिन्नं विहारेषु संसक्तं जायते परम् ।
तदा योगेन स्वानन्दयुक्तं भवति नान्यथा ॥ १०७॥
ब्रह्म ब्रह्मणि संस्थं च नागतं न गतं मतम् ।
कुतो योगेन तत्रैव तन्मयो जायते नरः ॥ १०८॥
सदाऽहं ब्रह्मरूपश्च न मायासंयुतः कदा ।
भ्रान्त्या मां नैव जानन्ति स्वमहिम्नि स्थितं परम् ॥ १०९॥
सर्वसंयोगयोगाख्या माया नानाभ्रमात्मिका ।
मयि ब्रह्मणि सा कुत्र तिष्ठति ब्रह्मवर्जिता ॥ ११०॥
यथा मरीचिसंस्थं च तोयं व्यर्थभ्रमप्रदम् ।
तथा मयि महामाया व्यर्था संयोगधारिका ॥ १११॥
ब्रह्मदोषविहीनं तु वेद सङ्कथितं पुरा ।
तदेव मायया युक्तं कथं भवति मोहितम् ॥ ११२॥
भ्रान्तियुक्तं सुयोगेन भ्रान्तिहीनं भवेत् कथम् ।
ब्रह्ममायायुता मूर्खो वदन्ति ब्रह्मवर्जिताः ॥ ११३॥
अतोऽहं नागतः पश्य जगत्सु ब्रह्मसु प्रभुः ।
न ब्रह्मणि गतस्तत्र पुनर्योगस्य सेवया ॥ ११४॥
ब्रह्मणि विविधाकारा माया नैव प्रतिष्ठति ।
मायायां नैव तद्ब्रह्म ह्यपवादप्रभावतः ॥ ११५॥
अयोगस्त्रिविधः प्रोक्तो मृदुमध्याधिमात्रतः ।
तेषां भेदं प्रवक्ष्यामि मायामूलनिकृन्तनम् ॥ ११६॥
स्वतोत्थानभ्रमं त्यक्त्वाऽहं ब्रह्म ह्यपवादतः ।
यस्तिष्ठति नरः सोऽपि मृदुयोगयुतो मतः ॥ ११७॥
परतोत्थानजं दक्ष भ्रमं त्यक्त्वा ह्ययोगतः ।
तिष्ठति मध्यगः सोऽपि मतो योगस्य सेवया ॥ ११८॥
स्वतः परत उत्थानहीनं संयोगधारकम् ।
ब्रह्म तस्य भ्रमं त्यक्त्वा तिष्ठति सोऽधिमात्रगः ॥ ११९॥
नाऽऽगतोऽहं यदा भ्रान्त्या जगत्सु ब्रह्मसु भ्रमन् ।
तदा मे गमनं कुत्र योगेनैव भविष्यति ॥ १२०॥
ब्रह्मभूतस्वभावेन स तिष्ठति नरोत्तमः ।
निवृत्तियोगमाश्रित्य सदा शान्त्या प्रवर्तते ॥ १२१॥
अधुना पूर्णयोगस्यानुभवं ते वदाम्यहम् ।
योगी येन नरो भूत्वा तिष्ठति गणपप्रियः ॥ १२२॥
नाहं न ब्रह्म वेदेषु कथितं भेदभ्रान्तिदम् ।
ब्रह्मणि द्विविधं दक्ष कुतो भवति चित्तगम् ॥ १२३॥
अहं चित्तमयश्चैव ब्रह्म चित्तमयं तथा ।
चित्तं पञ्चविधं त्यक्त्वा योगी भवति मानवः ॥ १२४॥
जगद्रूपं महच्चित्तं ब्रह्मरूपं तथा मतम् ।
जगतां ब्रह्मणां संयोगायोगं चित्तमुच्यते ॥ १२५॥
भ्रान्तियुक्तं भवेच्चित्तं नानामायाविमोहितम् ।
योगसेवापरं चित्तं भ्रान्तिहीनं तथा भवेत् ॥ १२६॥
अहं कुतस्तथा ब्रह्म कुतस्तयोश्च योगतः ।
अभेदः सर्वगं चित्तं क्रीडत्यत्र न संशयः ॥ १२७॥
नाहं सर्वत्र योगेन संयोगाभेदभावतः ।
तिष्ठामि चित्तमोहेन वदन्त्ययोगिनो मुधा ॥ १२८॥
ब्रह्म ब्रह्मणि संस्थं यन्नागतं न गतं कदा ।
अयोगधारकोऽहं न चित्तं तदेव सम्मतम् ॥ १२९॥
धर्ममिच्छति चित्तं च भ्रमयुक्तं तथार्थकम् ।
कामं मोक्षं ब्रह्मभूतं पञ्चभूमिप्रभावतः ॥ १३०॥
चित्तं त्यक्त्वा महायोगी पञ्चरूपं सुशान्तिगः ।
ब्रह्मभूतो भवेन्नूनं चिन्तामणिः प्रकथ्यते ॥ १३१॥
चित्तरूपा महाबुद्धिस्तत्र भ्रान्तिप्रदायिका ।
सिद्धिस्तयोः पतिः साक्षात् क्रीडति स्वेच्छयाऽपरः ॥ १३२॥
तं ज्ञात्वा ब्रह्मभूतश्च भवत्यत्र न संशयः ।
सिद्धिबुद्धिमयं सर्वं त्यक्त्वा योगी प्रजापते ॥ १३३॥
नैव ब्रह्मणि संयोगो नायोगो वर्तते कदा ।
सिद्धिबुद्धिभ्रमेणैव परं वाञ्छति तत्पतिः ॥ १३४॥
गणेशोऽहं न सन्देहो कुतो मयि भवेदिदम् ।
सिद्धिबुद्धिकृतं सर्वं तेन योगी स जायते ॥ १३५॥
सिद्धिबुद्धिसमायुक्तो ब्रह्मभूतो नरो भवेत् ।
शान्तियोगेन शान्तिस्थो वर्तते नित्यमादरात् ॥ १३६॥
ब्रह्मणि योगभावेन मायायुक्तविहीनता ।
शान्तिं प्राप्तः स्वयं त्यक्त्वा योगं योगी स जायते ॥ १३७॥
एतादृशभवेनैवानुभवेन युतं परम् ।
चित्तं भ्रान्तिभवं सर्वं रसं त्यक्त्वा सुतिष्ठति ॥ १३८॥
योगे रससमायुक्तं सदा भवति तत्परम् ।
निश्चलं शान्तिसंयुक्तं मायामलविवर्जितम् ॥ १३९॥
एतत्ते कथितं सर्वमनुभवभवं सुखम् ।
यज्ज्ञात्वा ब्रह्मभूतः स तिष्ठत्यत्र न संशयः ॥ १४०॥
शृणुयाद्यः पठेद्वाऽपि योगानुभवरूपगम् ।
माहात्म्यं स लभेत् सर्वं वाञ्छितं शान्तिमाप्नुयात् ॥ १४१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन योगिचित्तानुभवशान्तिसुखवर्णनयोगो नाम षष्ठोऽध्यायः ॥ ९.६
॥ इति योगगीतासूपनिषत्सु सुगमासु द्वितीयोऽध्यायः ॥ ९(योगगीता).२
३. योगस्थितिवर्णनयोगो नाम तृतीयोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.७ योगस्थितिवर्णनयोगो नाम सप्तमोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
स्थितिं वद महायोगिन् जीवन्मुक्तस्य सौख्यदाम् ।
शुभाशुभकृतं तेन कुत्र गच्छति तत्परम् ॥ १॥
कायिकं वाचिकं मानसिकं सांसर्गिकं प्रभो ।
कर्म योगिकृतं सर्वं कीदृशं तस्य का गतिः ॥ २॥
मुद्गल उवाच ।
जीवन्मुक्तः स्वयं योगी स्वेच्छाचारी भवेत् सदा ।
प्रारब्धप्रेरितः साक्षाद् वर्तते नित्यमादरात् ॥ ३॥
स्वयं ब्रह्मणि संस्थश्च बिम्बं चित्ते प्रतिष्ठति ।
योगिनस्तत्कृतं सर्वं न कदा बन्धदं भवेत् ॥ ४॥
नरवत् सर्वकर्ताऽपि तथाऽपि दोषवर्जितः ।
ब्रह्मणि ब्रह्मभूतत्वाच्छुभाशुभविवर्जितः ॥ ५॥
प्रारब्धेन स्वयं योगी प्रेरितः पुण्यमाचरेत् ।
तीर्थयात्रादिकं सर्वं यज्ञदेवार्चनादिकम् ॥ ६॥
सदा शौचसमायुक्तो नित्यं धर्मपरायणः ।
तथापि पुण्यजं भोगं भुनक्ति नैव निश्चितम् ॥ ७॥
अथवा पूर्वजेनैव प्रारब्धेन नियन्त्रितः ।
पापानि नित्यमानन्दात् प्रकुर्याद्विविधानि सः ॥ ८॥
ब्रह्महत्यादिकं सर्वं मातृगमनकादिकम् ।
मद्यपानादिकं चौर्यं प्रकुर्याद् दैवयोगतः ॥ ९॥
एवं पापसमाचारो यदि तिष्ठति मानवः ।
योगी पापफलं नैव भुनक्ति नरवत् कदा ॥ १०॥
पूर्वजन्मार्जितेनैव प्रारब्धेन प्रजापते ।
कारितं योगिना तत्र तेन किञ्चित् कृतं न च ॥ ११॥
मरणे या मतिः प्राप्ता तादृशीं लभते गतिम् ।
नरो ह्ययोगयुक्तो यो योगी ब्रह्मैव जायते ॥ १२॥
इदं संशयनाशार्थं कथितं ब्रह्मणः सुत ।
योगिनां कर्मजं सर्वं माहात्म्यं लेशतो मया ॥ १३॥
योगी योगसमायुक्तो न पापानि कदाचन ।
चरति धर्मनिष्ठः स भवत्यत्र न संशयः ॥ १४॥
लोकोद्धारकराः सर्वे योगिनः परिकीर्तिताः ।
नाचरन्ति कदा पापमहिंसादिसमन्विताः ॥ १५॥
फलहीनस्वभावेन धर्मं चरति नित्यदा ।
योगी लोकोपकारार्थं स्वयं ब्रह्मपरायणः ॥ १६॥
कदाचित् पूर्वसंस्कारात् पापं तेन कृतं परम् ।
न तत्र पापयुक्तोऽसौ तदर्थो वर्णितः पुरा ॥ १७॥
किमर्थं प्राणिनां योगी दुःखदायकमाचरेत् ।
पापं पापसमायुक्तो न भवेन्निश्चितं पुरा ॥ १८॥
सर्वत्र गणनाथं स पश्यत्यनन्यचक्षुषा ।
पुण्येन सुखसंयुक्तं विश्वं भवति तच्चरेत् ॥ १९॥
प्रारब्धं योगिनां दक्ष न भवेत् पापकारकम् ।
पुण्यचेष्टासमायुक्तं तेषां प्रारब्धमञ्जसा ॥ २०॥
योगार्थं धर्मसंयुक्तो ब्रह्मार्पणविधानतः ।
यतते जन्मसु प्राज्ञस्तदा योगी भवेन्नरः ॥ २१॥
तस्य प्रारब्धकं दक्ष कुतो दुर्बुद्धिदायकम् ।
भवति च महायोगी धर्मयुक्तो भवेत् सदा ॥ २२॥
अथ योगिजनानां ते स्थितिं वदामि सर्वदा ।
क्रमयुक्तो यथा योगी भ्रान्तो नैव भवेत् कदा ॥ २३॥
साधयित्वा महायोगं चित्तनिरोधकारकम् ।
पञ्चविधं परित्यज्य चित्तं योगी भवेन्नरः ॥ २४॥
चित्ते चिन्तामणिं ज्ञात्वा सचित्तः सहसा गतः ।
तदाकारः स वै योगी तत्र ब्रह्मणि संरतः ॥ २५॥
प्रारब्धं योगिनां नास्ति भोगदं शास्त्रसम्मतम् ।
यदा हठयुतो योगी भवेत् प्रारब्धचालकः ॥ २६॥
देहपातं प्रकुर्याच्चेदात्महत्यां लभेन्न च ।
आयुषा संयुतो वाऽपि देहं त्यजति निश्चितम् ॥ २७॥
तथापि योगसंयुक्तो न देहं त्यजति प्रभुः ।
न प्रारब्धमतिक्रम्य करोति किञ्चिदञ्जसा ॥ २८॥
शान्तियुक्तस्वभोवन तिष्ठत्यत्र न संशयः ।
यद्भावि तद्भवत्येव मायामोहविवर्जितः ॥ २९॥
देहपातेन किं ग्राह्यं देहरक्षणतस्तथा ।
रचितं गणनाथेन सदा भवतु तादृशम् ॥ ३०॥
एवं निश्चित्य चित्तेन शान्तियुक्तस्वभावतः ।
आचरेद्योगसंयुक्तः स्वधर्मे संस्थितां क्रियाम् ॥ ३१॥
वर्णाश्रमयुतो योगी भवेद्यदि स सर्वदा ।
तदा स्वधर्मजं कुर्यात् कर्म निःसङ्गभावतः ॥ ३२॥
देहः कर्ममयः प्रोक्तस्तथोऽकर्मी कुतो भवेत् ।
व्यवस्थासम्भवं कर्म कृतं भवति न ह्यपि ॥ ३३॥
यदि कर्म परित्यज्य तिष्ठेद्योगपरायणः ।
तदा देहनिपातेन युक्तो भवेन्न संशयः ॥ ३४॥
अन्नभक्षणरूपं यद्भवति कर्म निश्चितम् ।
जागृत्स्वप्नादिकं सर्वं त्यक्त्वा जीवति तत्कथम् ॥ ३५॥
क्रियतेऽनेन यत्किञ्चित् सा क्रिया परिकीर्तिता ।
अतः कर्ममयो देहस्तेन धर्मं समाचरेत् ॥ ३६॥
देहत्यागे समुद्युक्तो यदि योगी भवेत् प्रभो ।
सहने द्वन्द्वभावस्य न समर्थः स वै स्मृतः ॥ ३७॥
अशान्तिसंयुतः सोऽपि योगहीनो यथा नरः ।
तथा द्वन्द्वं समालोक्य सहने न समर्थकः ॥ ३८॥
गणेशेन कृतं तस्येच्छया सर्वं च यद्भवेत् ।
भवतु तादृशं सर्वं सहे नित्यं सुशान्तिगः ॥ ३९॥
स योगी शान्तिहीनो न प्रभवेत् क्वचिदञ्जसा ।
ब्रह्मभूतो महाश्रेष्ठः पावनः सर्वदेहिनाम् ॥ ४०॥
अतो वर्णाश्रमस्थो यो योगी भवेत् स तत् क्रियाम् ।
ब्रह्मार्पणतया कुर्याद् हृदि ध्यात्वा गजाननम् ॥ ४१॥
यदि स्वधर्मसंयुक्तं कर्म नैव समाचरेत् ।
तमक्रियं समालोक्यान्ये त्यजेयुः स्वधर्मकम् ॥ ४२॥
अतो लोकोपकारार्थं योगी कर्म समाचरेत् ।
अन्यान् कर्मयुतान् कुर्यात् स्ववशान् धर्मपालकः ॥ ४३॥
सर्वेभ्यश्चाधिको योगी कुर्यात् सत्कर्म धर्मदम् ।
तादृशं कर्म सर्वेऽपि करिष्यन्ति विशेषतः ॥ ४४॥
तेन प्रामाण्यमानन्दात् कृतं कर्म प्रजापते ।
तदेव सर्वलोकाश्च मान्यं कुर्वन्ति निश्चितम् ॥ ४५॥
ब्रह्मार्पणतया कर्म बन्धदं न भवेत् कदा ।
ब्रह्मप्राप्तिकरं तस्य फलं प्रोक्तं मनीषिभिः ॥ ४६॥
योगिभिश्च कृतं कर्म लोकसङ्ग्रहकारणात् ।
असक्तमनसा नित्यं नैमित्तिकं न बन्धदम् ॥ ४७॥
सदा ब्रह्ममयत्वेन तेन किञ्चित् कृतं न च ।
देहस्वभावजो भावो भवेदस्य निरन्तरम् ॥ ४८॥
अन्यं मार्गं प्रवक्ष्यामि ये निन्दन्ति स्तुवन्ति तम् ।
योगिनं पापभोक्तारो भवन्ति पुण्यभोगिनः ॥ ४९॥
योगिना यत् कृतं पापं तत् स्प्रष्टुं न क्षमं कदा ।
निन्दकांस्तत् समाश्रित्य प्रतिष्ठेत्तस्य नित्यदा ॥ ५०॥
योगिना यत् कृतं पुण्यं तदेव तं न संस्पृशेत् ।
स्तुवतस्तान् समाश्रित्य नित्यं तिष्ठेत् स्वभावजम् ॥ ५१॥
अतो न योगिनां निन्दां कदा कुर्याद्विचक्षणः ।
सेवां समाचरेत्तेषां तेन सौख्ययुतो भवेत् ॥ ५२॥
वने यदि स्थितो योगी प्रारब्धेन नियन्त्रितः ।
फलादिकं तत्र भुञ्जन् शान्त्या तिष्ठेत् स नित्यदा ॥ ५३॥
तत्र निन्दाकरास्तस्य तथा सेवाकरा न च ।
एक एव महायोगी शुभाशुभं समाचरेत् ॥ ५४॥
तदेव देहपातेऽस्य योगिनश्च मृतं भवेत् ।
शुभाशुभं निराधारमुपोषणसमन्वितम् ॥ ५५॥
एतत्ते कथितं दक्ष ब्रह्मीभूतस्य चेष्टितम् ।
कर्म योगमयं पूर्णं श्रवणाच्छुभदं भवेत् ॥ ५६॥
अथ योगं प्रवक्ष्यामि ज्ञानात्मकमहं परम् ।
योगिभ्यः सुखदं पूर्णं शान्तियुक्तं विशेषतः ॥ ५७॥
देहः कर्मात्मकः प्रोक्तस्तत्र योगं समाचरेत् ।
ब्रह्मार्पणतया कर्म चाचरन् शान्तिधारकः ॥ ५८॥
ज्ञानं स्फूर्तिमयं प्रोक्तं हृदि तिष्ठति सर्वदा ।
विवेकात्ममयं तत्र ज्ञानयोगं समाचरेत् ॥ ५९॥
हृदि यद्यद् भवेज्ज्ञानं नानायोगार्थसौख्यदम् ।
अथवा विषयार्थानां बोधकं तत् स सन्त्यजेत् ॥ ६०॥
उत्पत्तिनाशसंयुक्तं ज्ञानं विषयबोधकम् ।
ब्रह्म सौख्यप्रदं ज्ञानं योगभूमिप्रभावजम् ॥ ६१॥
उपाधिसंयुतं चैकमनुपाधियुतं परम् ।
तत्त्यक्त्वा योगसंयुक्तो भवेद्योगी महायशाः ॥ ६२॥
ज्ञानानां सकलानां च योगे ज्ञानमयः स्मृतः ।
योगस्तत्र भवेल्लीनो ब्रह्मीभूतस्वभावतः ॥ ६३॥
ब्रह्मणि ब्रह्मीभूतोऽहं मम ज्ञानं कुतो भवेत् ।
नानाभ्रान्तिकरं हृत्स्थं त्यक्त्वा ब्रह्मपरो भवेत् ॥ ६४॥
अनेन विधिना सर्वं ज्ञानं त्यक्त्वा हृदि स्थितम् ।
शान्तियुक्तः स्वयं योगी तिष्ठेद्ब्रह्मपरायणः ॥ ६५॥
न कर्ताऽहं कदाचिद्वै कारयिता न निश्चितम् ।
मायामोहयुता मां ते वदन्ति कर्मकारिणम् ॥ ६६॥
अहं साक्षी शरीरस्य यद्देहेन कृतं भवेत् ।
तन्मया न कृतं क्वापि ब्रह्माहं परतः परः ॥ ६७॥
यद्यत् स्फूर्तिर्भवेन् मे वै सा माया भ्रान्तिदायिका ।
न तस्यां संस्थितो जीवः सदा साक्षिस्वभावतः ॥ ६८॥
न मोहेन समायुक्तो न कदा मोहवर्जितः ।
मायया मां वदन्त्येव ह्ययोगिनो न संशयः ॥ ६९॥
एवं सदा महायोगी साक्षिवत्संस्थितो भवेत् ।
हृदयज्ञानयोगस्थस्त्यक्त्वा स्फूर्तिभवं भ्रमम् ॥ ७०॥
सर्वत्र रसहीनं यन् मनस्तस्य महात्मनः ।
शान्त्या युक्तं भवेद्दक्ष ब्रह्मीभूतस्य नित्यदा ॥ ७१॥
एष ते कथितो योगो ज्ञानात्मको विशेषतः ।
साक्षिवद्देहसंस्थः स मया तिष्ठति लेशतः ॥ ७२॥
अतः परं समं योगं शृणु स्थितिपरायण ।
यं ज्ञात्वा ब्रह्मभूतो यः शान्तिहीनो भवेन्न सः ॥ ७३॥
देहः कर्मत्रयस्तत्र कर्मयोगं समाचरेत् ।
मनो विवेकरूपं तु साक्षित्वं तत्र सञ्चरेत् ॥ ७४॥
अहं ब्रह्म यदा दक्ष कुतस्तत्र भवेदिदम् ।
द्वन्द्वरूपं विशेषेण तस्य वक्ष्यामि रूपकम् ॥ ७५॥
देहः कर्ममयः प्रोक्तो विवेकः कर्मवर्जितः ।
द्वन्द्वं ज्ञात्वा महायोगी समयोगं समाचरेत् ॥ ७६॥
देहे कर्ममयोऽहं तु हृदि साक्षी तथाऽमलः ।
उभयोर्योगभावेन भवति किञ्चिदञ्जसा ॥ ७७॥
यदा विवेकहीनश्चेत् देहः किं तु करिष्यति ।
देहहीनं मनस्तद्वज्ज्ञानदं कस्य वा भवेत् ॥ ७८॥
आनन्दमयभावेन संस्थितोऽहं तदात्मकः ।
उभयत्र ततः स्वस्वव्यापारं कुरुतः परौ ॥ ७९॥
देहे कर्ममयोऽहं वै हृदि विवेकधारकः ।
द्विविधां रच्यतां मायां सदानन्दनधर्मगः ॥ ८०॥
तयोः समानभावेन संस्थितोऽहं न संशयः ।
अनुपाधेरुपाधेश्च वर्जितो ब्रह्मसंज्ञितः ॥ ८१॥
अतः समं समाश्रित्य बाह्यान्तरैकभावतः ।
यादृशं संस्थितं ब्रह्म तादृशं तत्र चाचरेत् ॥ ८२॥
देहे कर्मकरो भूत्वा हृदि साक्षिमयो भवेत् ।
उभयं तत् परित्यज्यानन्दावस्थां समाचरेत् ॥ ८३॥
यद्यदुभयभावाख्यं नानाभेदमयं परम् ।
तत्र योगमयो भूत्वा तिष्ठेदानन्दसंयुतः ॥ ८४॥
आनन्दानां समायोगे ब्रह्मानन्दः प्रकीर्तितः ।
उभयेषां प्रजानाथ तादृशं चाचरेद्बुधः ॥ ८५॥
मदीयसङ्गयोगेनोभयं प्रवर्तते सदा ।
उभयं चाचरेत् सर्वमुभाभ्यां वर्जितोऽपि सः ॥ ८६॥
इयमानन्दरूपाख्या कथिता योगिभिः पुरा ।
ब्रह्मीभूतः समास्थाय तिष्ठेत्तां शान्तिसंयुतः ॥ ८७॥
अतः परं प्रजानाथावस्थां शृणु सुखप्रदाम् ।
सहजाख्यां महायोगी चाचरेत्तां विशेषतः ॥ ८८॥
देहः कर्ममयः प्रोक्तस्तत्र योगं समाचरेत् ।
ब्रह्मार्पणतया नित्यं कर्मणां योगिसत्तमः ॥ ८९॥
हृदि साक्षिस्वभावेन तिष्ठेत्तयोः परे ततः ।
समभावं समाश्रित्य त्रिषु त्रैधं प्रकीर्तितम् ॥ ९०॥
तेषु विस्मृतिभावेन भ्रान्त्या वा विस्मृतं भवेत् ।
विपरीतं भवेद्वाऽपि ततः खेदं न धारयेत् ॥ ९१॥
त्रिविधं मायया युक्तं पराधीनं प्रकीर्तितम् ।
तुर्यं स्वाधीनरूपाख्यं प्रोक्तं शास्त्रेषु सर्वदा ॥ ९२॥
तुर्येच्छया त्रिधा भूतं चलत्यत्र न संशयः ।
स्वस्वप्रारब्धसंयुक्तं सदा भ्रान्तमिव स्थितम् ॥ ९३॥
न कस्याहङ्कृतिस्तस्य तुरीयस्य कदाचन ।
यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ ९४॥
अतः प्रारब्धयोगेन विस्मृतोऽहं स्थितिं पराम् ।
योगरूपां च तुर्येण प्रेरितः सर्वधारिणा ॥ ९५॥
अथवा ज्ञानमोहेन विपरीतं कृतं मया ।
त्यक्त्वा योगस्थितिं पूर्णां प्रारब्धं तत्र मुख्यकम् ॥ ९६॥
प्रारब्धधारकं प्रोक्तं तुरीयं नात्र संशयः ।
तस्येच्छया च यज्जातं तदेवं योगदं भवेत् ॥ ९७॥
पराधीनोऽहमत्यन्तं तुर्येच्छया समन्वितः ।
करोमि कर्म साक्षित्वमानन्दं वा न संशयः ॥ ९८॥
सदा स्वाधीनभावेन तिष्ठति ब्रह्म तुर्यगम् ।
तुरीयैः खेलकं प्रोक्तं तस्य किं बन्धनं भवेत् ॥ ९९॥
यज्जातं तत्कृतं तेन तुरीयेण न संशयः ।
तत्र कुत्र स्थितोऽहं तु स्वेच्छया क्रीडति प्रभुः ॥ १००॥
इयं तु सहजावस्था कथिता ते प्रजापते ।
यज्जातं तत्र सा प्रोक्ता न कृता तदपि ह्यहो ॥ १०१॥
यत्कृतं सह जातेन स्वयमेव प्रवर्तते ।
योगस्तेन समाख्याता सहजा तुर्यसंज्ञिता ॥ १०२॥
अतः परं ब्रह्मभूतं स्वानन्दाख्यं प्रकीर्तितम् ।
तत्र योगस्वरूपाख्यां स्थितिं शृणु सुखप्रदाम् ॥ १०३॥
स्वाधीनं तुर्यभावाख्यं पराधीनं त्रिधा मतम् ।
तेषां योगे निजात्मस्थो भवेद्योगी निजात्मसु ॥ १०४॥
त्रिविधं खेलरूपं तु तुर्यः खेलक उच्यते ।
तयोर्योगे प्रजानाथ स्वानन्दस्थो भवेन्नरः ॥ १०५॥
ब्रह्मणि ब्रह्मभूतस्य योगिनश्च कुतो भवेत् ।
स्वाधीनं तु पराधीनं मायायुक्तं न संशयः ॥ १०६॥
योगस्थितिं समाश्रित्य बुधश्चत्वारि चाचरेत् ।
तेषां संयोगरूपेण तिष्ठेत्तेषु महात्मवान् ॥ १०७॥
कर्मयोगं समाश्रित्य देहचेष्टां समाचरेत् ।
ज्ञानयोगं तथाऽऽश्रित्य साक्षित्वं चाचरेत् बुधः ॥ १०८॥
समयोगं समाश्रित्य आनन्दं आचरेत् परम् ।
सहजं स समाश्रित्य विपरीतेन शोकभाक् ॥ १०९॥
चतुर्भिः संयुतो भूत्वा चतुभिर्वर्जितस्तथा ।
तिष्ठेद्योगमयीं दक्षावस्थामाश्रित्य सर्वदा ॥ ११०॥
अवस्था निजरूपे तु कुतोऽवस्थाप्रधारकः ।
तयोर्योगे योगमयी व्यवस्था ते प्रकीर्तिता ॥ १११॥
चतुर्मयी चतुर्हीना योगावस्था प्रकीर्तिता ।
योगिभिस्तां समाश्रित्य शान्तिहीनो भवेन्न सः ॥ ११२॥
अधुना शृणु योगस्थामवस्थां द्वितीयां पराम् ।
अयोगधारिकां पूर्णां सदा निवृत्तिदायिकाम् ॥ ११३॥
ब्रह्मणि ब्रह्मभूतो यो योगी तां संश्रयेत् पराम् ।
यदा निवृत्तिसंयुक्तः शान्तिहीनो भवेन्न सः ॥ ११४॥
ब्रह्मणि ब्रह्मसंस्थं तन्नागतं न गतं पुनः ।
मायायां ब्रह्मभूतो योऽवस्थाया धारकः कुतः ॥ ११५॥
यत् कुर्यात् कारयेद्यच्च तत्र नैवावलोकयेत् ।
मायामयं विनिश्चित्य पञ्चकं पञ्चकेषु गम् ॥ ११६॥
नाहं पञ्चकगश्चेद्वै ततस्तत्कृतमञ्जसा ।
कुतो मयि प्रदृश्येताधार्यनिवृत्तिगो भवेत् ॥ ११७॥
जीवनं मरणं जन्म योगो योगात्मिका परा ।
अवस्था मे कुतो मायामोहयुक्तं स्मृतं बुधैः ॥ ११८॥
अथ योगमयीं पूर्णामवस्थां शृणु मानद ।
संयोगायोगहीनां तां यया शान्तो भवेन्न सः ॥ ११९॥
ब्रह्मणि ब्रह्मभूतोऽहं मयि मायामयं परम् ।
पञ्चकं च कुतो भाति मायाहीनमयोगकम् ॥ १२०॥
विधिनिषेधसंयुक्तं चित्तं भवति सर्वदा ।
विधिनिषेधहीनं तु तदेवं जायते मुधा ॥ १२१॥
देहेन कर्मयोगश्च ज्ञानगो हृदि जायते ।
उभयत्र समश्चैव तुर्येषु सहजात्मकः ॥ १२२॥
सर्वसंयोगभावेषु स्वानन्दाख्यः प्रवर्तते ।
निवृत्तिषु ह्ययोगाख्यो योगेषु शान्तियोगकः ॥ १२३॥
एवं नानाविधं योगं समास्थाय महामतिः ।
योगी शान्त्या समातिष्ठेद्ब्रह्मीभूतोऽपि निश्चितम् ॥ १२४॥
योगस्थितिः समाख्याता ब्रह्मीभूतसुखप्रदा ।
अनेन विधिना देहनिर्वाहो योगिनां भवेत् ॥ १२५॥
वर्णाश्रमस्थितो योगी चाचरेत् स्थितिमुत्तमाम् ।
लोकसङ्ग्रहकार्यार्थमसक्तस्तत्फलादिषु ॥ १२६॥
यदा वर्णाश्रमं त्यक्त्वा पञ्चमाश्रमधारकः ।
न तस्य स्थितिरूपं तु कदाचिन्नात्र संशयः ॥ १२७॥
विधिनिषेधहीनोऽयं विनायको भवेत् सदा ।
यद्यत् कुर्यात् स तत् सर्वं योगरूपं भवेत् सदा ॥ १२८॥
यदि स्थितिसमायुक्तो वेदादिषु प्रमाणतः ।
तदा विधियुतः सोऽपि भवेत् पश्य प्रजापते ॥ १२९॥
यदा स्थितिविहीनोऽयं तिष्ठेत् सङ्कथितं परम् ।
वेदेषु स निषेधेन तदा युक्तो भवेत् परः ॥ १३०॥
अतः स्थितियुतो योगी स्थितिहीनो यथारुचि ।
वर्णाश्रमान् परित्यज्य तिष्ठेद्विनायको यथा ॥ १३१॥
शान्त्या नित्यं चरेत् सर्वं मनसीप्सितमञ्जसा ।
विधिनिषेधहीनश्च ब्रह्मणि रसधारकः ॥ १३२॥
एतत् सर्वं समाख्यातं योगिनां चेष्टितं महत् ।
ब्रह्मभूतात् परं पूर्णं चरेदेवं निरन्तरम् ॥ १३३॥
शृणुयाद्यः पठेद्वाऽपि स सर्वं हीप्सितं लभेत् ।
अन्ते योगमयो भूत्वा तिष्ठेत् स गणपे रतः ॥ १३४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामतार्थशास्त्रे
योगस्थितिवर्णनयोगो नाम सप्तमोऽध्यायः ॥ ९.७
॥ इति योगगीतासूपनिषत्सु सुगमासु तृतीयोऽध्यायः ॥ ९(योगगीता).३
४. योगभ्रष्टचरितनिरूपणं नाम चतुर्थोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.८ योगभ्रष्टचरितनिरूपणं नाम अष्टमोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
योगशान्तिं समाश्रित्य योगमभ्यस्य नित्यदा ।
ब्रह्मणि ब्रह्मभूतः स योगभ्रष्टः कथं भवेत् ॥ १॥
मायामयं जगत् सर्वं नानाभ्रमसमन्वितम् ।
ज्ञात्वा स्वयं पुनर्भ्रष्टः कौतुकं वद मे मुने ॥ २॥
मुद्गल उवाच ।
ब्रह्मणि ब्रह्मभूतस्य योगिनो बिम्बसंस्थितम् ।
बुद्धौ तस्यां विमोहेन मोहयुक्तं प्रजापते ॥ ३॥
दृष्ट्वा नानाविधान् भोगान् स्वयं मोहेन मोहितः ।
तेषु भूत्वा रसयुतो तानिच्छति निरन्तरम् ॥ ४॥
तत्र तस्य हृदि दक्ष विवेकः संस्थितो भवेत् ।
तस्य रूपं प्रवक्ष्यामि शृणु बुद्धिविशारद ॥ ५॥
अहं ब्रह्मणि योगेन ब्रह्मीभूतो न संशयः ।
पापपुण्यादिकं मे न शुभाशुभकृते भवेत् ॥ ६॥
यदा भोगं परित्यज्य तिष्ठामि नित्यमादरात् ।
तदा योगस्य वृद्धिर्मे न भविष्यति निश्चितम् ॥ ७॥
यदा नित्यं प्रभुञ्जाने भोगान्नानाविधान् परान् ।
पापपुण्यमनादृत्य तदा योगक्षयो न च ॥ ८॥
अतोऽहं योगमृत्सृज्य किमर्थं दुःखसंयुतः ।
तिष्ठामि शान्तिमाश्रित्य विधिनिषेधसंयुतः ॥ ९॥
एवं मनसि सन्धार्य योगी भोगेषु लालसः ।
विविधेष्वेव भवति रसयुक्तः क्रमेण सः ॥ १०॥
अयं मोहः समाख्यातो योगिहृद्भ्रान्तिदायकः ।
तेन शान्तिं परित्यज्य पापपुण्यपरो भवेत् ॥ ११॥
ततः कामं समाश्रित्य देहसौख्यप्रदायकम् ।
इच्छेत् स विविधान् भोगान् पुण्यपापपरायणः ॥ १२॥
भोगार्थं यतमानस्य योगिनः क्रमभावतः ।
तत्र विघ्नः कृतः केन ततः क्रोधयुतो भवेत् ॥ १३॥
येन विघ्नः कृतस्तेषु भोगेषु तस्य भोगिनः ।
तं शत्रुं स हि जानाति भिन्नभावपरायणः ॥ १४॥
ततो ह्यज्ञानसम्भूतिः क्रमेणोत्पद्यते परा ।
योगिनश्च तया युक्तो हन्तुं तं यतते सदा ॥ १५॥
शत्रुशिक्षार्थमर्थान् स नानाभावसमन्वितः ।
सम्पाद्य तं तु निर्जित्य भोगान् भुङ्क्ते प्रयत्नतः ॥ १६॥
स्वपरज्ञानहीनत्वं गतं तस्य प्रजापते ।
तदेवाज्ञानसम्भूतिः शत्रुमित्रप्रदर्शिनी ॥ १७॥
ततः शान्तेः क्रमेणास्य विस्मृतिर्जायते परा ।
तया युतः स्वयं देहं मन्यते सत्यरूपकम् ॥ १८॥
देहे सन्तोषमापन्ने कृतकृत्यमिव स्थितम् ।
मन्यते विपरीते स आत्मानं भाग्यवर्जितम् ॥ १९॥
ततो योगं परित्यज्य स्वयं बिम्बी प्रजायते ।
बिम्बे तन्मयभावेनागमिष्यति न संशयः ॥ २०॥
एवं क्रमेण योगी स शान्तिहीनस्वभावतः ।
सदा तिष्ठति तं योगं नाश्रयते कदाचन ॥ २१॥
सुखयुक्ते शरीरे स सुखयुक्तो भवेत् स्वयम् ।
दुःखयुक्ते तथा दुःखी नानाभावपरायणः ॥ २२॥
लेशमात्रमयं शान्तिं लभते न कदाचन ।
असन्तोषयुतो नित्यं भ्रमते भोगलिप्सया ॥ २३॥
भोगार्थं विविधान्येव नित्यं पापानि चादरात् ।
चरते सर्वपुण्यानि विधिनिषेधवर्जितः ॥ २४॥
वर्णाश्रमयुतो योगी स्वधर्मं त्यज्य नित्यदा ।
पापं चरति वा पुण्यं स्वधर्मः संयुतः कदा ॥ २५॥
योगान् भुङ्क्ते विशेषेण मोहयुक्तो निरन्तरम् ।
योगभ्रष्टोऽयमाख्यातस्त्यक्त्वा योगं नरो भवेत् ॥ २६॥
हृदि तस्य विवेकश्च सदा तिष्ठति मोहदः ।
पुण्यपापविहीनोऽहं ब्रह्मैव ब्रह्मभावितः ॥ २७॥
अन्ते स नरकान् गच्छेद् द्वन्द्वदुःखप्रदायकान् ।
यातनां घोररूपां तु पतेद्भुक्त्वा धरातले ॥ २८॥
दक्ष उवाच ।
योगभ्रष्टगतिं ब्रूहि योगीन्द्र दयया पराम् ।
कथं नरकगो भूत्वा यातनां प्राप्नुयात् परम् ॥ २९॥
कर्मफलपरित्यागादिहजन्मधरः कथम् ।
सम्भवेद्विस्मयो भाति चेष्टितं योगिनः परम् ॥ ३०॥
मुद्गल उवाच ।
ब्रह्मणि ब्रह्मभूतस्य पुनर्विषयसेवनात् ।
ब्रह्मणो भक्तिहीनस्यान्ते स्थानं न भवेत् किल ॥ ३१॥
अपारपुण्ययोगेन ब्रह्मणि देहिनः कदा ।
रसोत्पत्तिर्भवेद्दक्ष सर्वश्रेष्ठस्य योगदा ॥ ३२॥
देहविषयसंयोगाद् द्वन्द्वभावपरात्मनः ।
नानापापादियोगेन पुण्यं स्वल्पं प्रहीयते ॥ ३३॥
मृतोऽयं शिवलोके वै वैकुण्ठे सौरशाक्तयोः ।
ब्रह्मण इन्द्रलोके वा पतेदन्ते न संशयः ॥ ३४॥
शोकहर्षप्रदं विश्वं नानाद्वन्द्वसमन्वितम् ।
नरको नात्र सन्देहो योगिनां शास्त्रसम्मतम् ॥ ३५॥
उत्पत्तिनाशसंयुक्तं त्यक्त्वा ब्रह्मपरायणः ।
ब्रह्मणि ब्रह्मभूतः स पुनर्द्वन्द्वपरो यतः ॥ ३६॥
विकुण्ठादिपदे संस्थो द्वन्द्वं भुङ्क्ते निरन्तरम् ।
उत्पत्तिनाशसंयुक्तं नानाभोगपरायणः ॥ ३७॥
अतो योगी प्रजानाथ स्वर्गाख्यान्नरकान् परान् ।
भुक्त्वा द्वन्द्वमयान् पश्चादिह जन्मधरो भवत् ॥ ३८॥
भवेद्योगिकुले तस्य जन्म वा तापसे कुले ।
ऋद्धिमतां स तत्रापि पुनर्योगं चरिष्यति ॥ ३९॥
पूर्वसंस्कारयोगेन न भोगे स रमेत् कदा ।
चित्तं तस्य महायोगी प्रभवेत् स्वल्पयोगतः ॥ ४०॥
पुनर्न योगभ्रष्टः स सम्भवेद्ब्रह्मणः सुत ।
शान्त्यायुक्तस्वभावेन शरीरं पोषयेन् मुदा ॥ ४१॥
अन्ते ब्रह्मणि योगी स तदाकारो भवेत् परम् ।
योगसंस्कारपुण्येन स्थितिं लब्ध्वा महामतिः ॥ ४२॥
एतत्ते कथितं पूर्णं योगभ्रष्टस्य चेष्टितम् ।
किं पुनः श्रोतुमिच्छा ते वद धातर्वदाम्यहम् ॥ ४३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
योगभ्रष्टचरितनिरूपणं नाम अष्टमोऽध्यायः ॥ ९.८
॥ इति योगगीतासूपनिषत्सु सुगमासु चतुर्थोऽध्यायः ॥ ९(योगगीता).४
५. अज्ञानिनां क्रमयोगवर्णनं नाम पञ्च्मोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.९ अज्ञानिनां क्रमयोगवर्णनं नाम नवमोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
चित्तं चञ्चलमत्यन्तं विषयेषु परायणम् ।
दुर्ग्रहं शान्तिसंयुक्तं न भवेन् मुनिसत्तम ॥ १॥
अतो योगस्य प्राप्त्यर्थं सिद्ध्यर्थं सुगमं ततः ।
उपायं वद चित्तस्य जयार्थं वाऽपरं प्रभो ॥ २॥
मुद्गल उवाच ।
पञ्चचित्तेषु यद्बिम्बं स्थितं भ्रान्त्या समन्वितम् ।
चिन्तामणेः समाख्यातं तस्यैव भजनं चरेत् ॥ ३॥
तेन चित्तं जयेद्योगी नान्यं पश्यामि भो विधे ।
विना चित्तजयं योगदायकं नात्र संशयः ॥ ४॥
दक्ष उवाच ।
सुगमं वद मार्गं मे सर्वेभ्यो ब्रह्मदायकम् ।
संसेव्य जन्तवः सर्वे ब्रह्मीभूता भवन्ति वै ॥ ५॥
मुद्गल उवाच ।
अज्ञानेन समायुक्तो नरो विषयलम्पटः ।
शिश्नोदरपरो नित्यं योगं नेच्छति कर्हिचित् ॥ ६॥
तस्य सकामिकं कर्म सुखदं बोधयेत् परम् ।
अलभ्यप्रापकं हृद्यमाचरेल्लोभसंयुतः ॥ ७॥
अलभ्यलभ्यलोभेन त्यक्त्वा पापं महाखलः ।
सत्कर्मनिरतो भूत्वा चरेत् पुण्यं निरन्तरम् ॥ ८॥
ततस्तेनैकभावेन पापं नश्येन्निरन्तरम् ।
शुद्धोऽत्यन्तं नरः कुर्यात् कर्म कामयुतं परम् ॥ ९॥
समाप्नुयात्ततोऽलभ्यं हृद्यं चेत् पुनरेव सः ।
विश्वासेन समायुक्तः कुर्यात् कर्म विशेषतः ॥ १०॥
अथवा नैव सम्प्राप्तमलभ्यं तेन तं तदा ।
उपादिशेद्विशेषेणाधिकं सत्कर्म चाचर ॥ ११॥
अनन्तजन्मभिः पापं त्वया कृतमसंशयम् ।
अपारमन्तरायो भवति ते तद्विघातकम् ॥ १२॥
एवं कर्मपरः सोऽपि दुःखितोऽत्यन्तमाचरेत् ।
पापनाशार्थमानन्दात्तेन शुद्धान्तरो भवेत् ॥ १३॥
सत्कामिकपरस्यास्य कर्मात्यन्तप्रभावतः ।
तस्य बुद्धिर्भवेत् दक्ष निःकामिकपरायणा ॥ १४॥
जन्ममृत्युप्रदा भोगा भुक्ता विविधजन्मसु ।
अपारसुखदं ब्रह्म न प्राप्तं देहधारिणा ॥ १५॥
अलभ्यं न मया प्राप्तं प्रारब्धाधीनतोऽथवा ।
प्रारब्धं चालितुं कोऽपि न समर्थो भविष्यति ॥ १६॥
अतो निःकामिकं कर्म करोमि नित्यमादरात् ।
जन्ममृत्युविहीनोऽहं भविष्यामि न संशयः ॥ १७॥
ब्रह्मसुखमपारं यल्लब्ध्वा ब्रह्मपरायणः ।
ब्रह्मीभूतो भविष्यामि यत्नं करोमि तत्परः ॥ १८॥
एवं धार्य परित्यज्य कामान् सेवेत् स पञ्चकान् ।
देवान् गणेशमुख्यांश्च मुक्तिमार्गपरायणः ॥ १९॥
सालोक्यादिभवं सौख्यमिच्छति नित्यमादरात् ।
क्रमेण तपसा युक्तो प्रभवेन् मानवस्ततः ॥ २०॥
विभूतिर्ब्रह्मणः प्रोक्ता नानारूपा प्रजापते ।
तत्र तस्य रमेच्चित्तमैश्वर्यैर्युक्तभावतः ॥ २१॥
इमे समर्थरूपा वै ब्रह्मणः परमात्मनः ।
अंशतेजोधरास्तस्य सर्वाधीशा भवन्त्यतः ॥ २२॥
एवं सर्वत्र सञ्चिन्त्य तेषां पूजापरो भवेत् ।
लभेत्तत् कृपया दक्ष चित्तशुद्धिं नरोत्तमः ॥ २३॥
विचारेण गणेशानं ज्ञात्वा सम्पूर्णमञ्जसा ।
सर्वपूज्यादिचिह्नैस्तं श्रेष्ठं तत्र रतो भवेत् ॥ २४॥
ज्ञात्वा स्वानन्दनाथं तं स्वानन्दार्थं विशेषतः ।
प्रभजेद्गणराजं स निष्कामभक्तिसंयुतः ॥ २५॥
ततोऽहर्निशमत्यन्तं भजेत्तत्तपसा युतः ।
मोक्षार्थं सर्वभावेन विरक्तो विषयादिषु ॥ २६॥
गणेशकृपया तस्य चित्तशुद्धिर्भवेत् परा ।
तया सर्वस्वभावेन भजेत्तं गणनायकम् ॥ २७॥
विश्वं चराचरं सर्वं जानीयात्तत्स्वरूपकम् ।
सर्वेषां हितभावेन भजेत्तं द्विरदाननम् ॥ २८॥
कस्यापि सम्भवेत् दुःखं तादृशं प्रचरेन्न सः ।
सहन् सन् द्वन्द्वजं भावमार्जवेन समन्वितः ॥ २९॥
देवकार्यं विना साधुर्न छिन्द्यात् स कदाचन ।
पत्रादिकं विशेषेण विश्वरूपपरायणः ॥ ३०॥
एकान्ते निर्जने स्थाने स्थित्वा ध्यात्वा गजाननम् ।
पूजयेद्भक्तिसंयुक्तो ध्यानं कुर्याद्विशेषतः ॥ ३१॥
अनन्यमनसा देवं भजेत्तं भावधारकः ।
शमदमपरो भूत्वा चित्तनिग्रहमाचरेत् ॥ ३२॥
दुर्जयं चित्तमत्यन्तं ज्ञात्वा वायुनिबन्धतः ।
प्राणायामपरो भूत्वा जयेत्तन्नात्र संशयः ॥ ३३॥
अथ वायुनिरोधस्य वदामि मार्गमुत्तमम् ।
येन पापं परित्यज्य शुद्धचित्तो नरो भवेत् ॥ ३४॥
पूरयेद्वामनासायां वायुं तस्माच्चतुर्गुणम् ।
धारणं तस्य कुर्यात् स स्वोदरे नियतो भवेत् ॥ ३५॥
पूरकाद् द्विगुणं कुर्याद्रेचकं च प्रजापते ।
पुनर्नसा दक्षिणया पूरयेत् कुम्भकं चरेत् ॥ ३६॥
वामया रेचकं चैव पुनः पुनर्निरन्तरम् ।
प्राणायामं चरेद् धीमान् पापहीनो नरो भवेत् ॥ ३७॥
एवं त्रैकालिकं कुर्यात् प्राणायामं विशेषतः ।
नातिनिरोधसंयुक्तं वायुं हठसमन्वितः ॥ ३८॥
अतिहठेन संरुद्धो वायू रोमभ्य एव च ।
निःसृत्य कुष्ठसंयुक्तं तं करोति न संशयः ॥ ३९॥
नाभिमूलस्थिता नाडी इडा च पिङ्गलाऽपरा ।
सुषुम्णा तत्र रोधेन मार्गो भवति निर्मलः ॥ ४०॥
अपानो नाभिमूलस्थो ह्यधो गच्छति सर्वदा ।
प्राण ऊर्ध्वं तथा जन्तोर्नाडीभिः प्रेरितः सदा ॥ ४१॥
मार्गरोधनभावेन नाड्यां मार्गो भविष्यति ।
वायुर्मूलं समाश्रित्य तिष्ठति क्रमतस्ततः ॥ ४२॥
तत्र लघ्वक्षराण्येव द्वादशापि प्रतिष्ठति ।
वायुश्चेत् स लघुः प्रोक्तः प्राणायामश्च योगिभिः ॥ ४३॥
ततो द्विगुणतस्तिष्ठेद्यदा वायुः सुरोधितः ।
मध्यमः स समाख्यातस्त्रिगुणादुत्तमोत्तमः ॥ ४४॥
एवं प्राणमपानं च स्वमूले सन्नयेद् बुधः ।
तयो रोधनभावेन मूलगौ तौ भविष्यतः ॥ ४५॥
एवं क्रमेण मूलेऽयं वायुर्मुहूर्तं संस्थितः ।
तदा समानगा नाडी भिद्यते तत्र संस्थिता ॥ ४६॥
सा सुषुम्णा समाख्याता तत्र सम्मिलितौ क्रमात् ।
प्राणापानौ समौ भूत्वा तद्रूपौ तौ भविष्यतः ॥ ४७॥
त्रिकालज्ञः स्वयं सिद्धो भविष्यति नरोत्तमः ।
वायुसाधनपात्रत्वं प्राप्य तेजःसमन्वितः ॥ ४८॥
ततः स्वाधीनतां यातौ प्राणापानौ विशेषतः ।
स नयिष्यति तौ यत्र क्रमात्तत्र गमिष्यतः ॥ ४९॥
ततो ध्यानपरो भूत्वा षट्चक्रभेदने रतः ।
चक्रस्थं स्वस्वरूपं स पश्येत्तद्वायुना गतः ॥ ५०॥
एवं क्रमेण योगीन्द्रो गच्छेद्भेद्य प्रजापते ।
सहस्रारे स चक्राणि तत्र पश्येद्गजाननम् ॥ ५१॥
तत्र क्रमेण वायुं संस्थापयेत् सुसमाधिना ।
वायुना संयुतस्तिष्ठेत् पश्यन् विघ्नेश्वरं परम् ॥ ५२॥
क्रमाद्वायुबलेनैवं शुद्धचित्तो भविष्यति ।
पश्येत् सर्वत्र भावेषु स्थितं ब्रह्म सनातनम् ॥ ५३॥
ततः स्वाधीनतायुक्तः प्रभवेत् स्वेन तेजसा ।
यं यमिच्छेत् स तं तं तु सद्यो वै सफलं भवेत् ॥ ५४॥
किञ्चिदिच्छेन्न यो योगी तदा योगमवाप्नुयात् ।
नो चेच्छन्दरतो भूत्वा भोगयुक्तः पुनः पतेत् ॥ ५५॥
साधनं द्विविधं प्रोक्तं क्रियारूपं प्रजापते ।
बाह्यं कर्मस्वरूपाख्यं तपोयुक्तं स्वधर्मजम् ॥ ५६॥
आन्तरं वायुरोधाख्यं सर्वसिद्धिप्रदायकम् ।
ताभ्यां चित्तं विनिर्गृह्य स्ववशं कारयेन्नरः ॥ ५७॥
बाह्यकर्मरताज्जन्तोरान्तरं शीघ्रसिद्धिदम् ।
सहस्राधिकभावाख्यं प्रोक्तं योगीन्द्रमुख्यकैः ॥ ५८॥
अतः परं तृतीयं ते साधनं कथयाम्यहम् ।
येन योगीन्द्रसेव्यः स ध्रुवं भवति मानवः ॥ ५९॥
चित्तशुद्धेश्च कार्यार्थं कर्म द्विविधमुच्यते ।
शुद्धचित्तो नरः पश्चात् सम्पश्येद्ब्रह्म शाश्वतम् ॥ ६०॥
सर्वत्र पूर्णभावेन संस्थितं परमव्ययम् ।
अवयवादिभिर्हीनं तत्र लीनो भवेत् स्वयम् ॥ ६१॥
एतावान् फलादाताऽयं क्रियायोगः प्रकीर्तितः ।
बाह्यान्तरात्मकः पूर्णस्ततोऽन्यत् साधनं चरेत् ॥ ६२॥
चित्तं रसयुतं कुत्र जायते योगिनः परम् ।
तज्जयेद्ब्रह्मभावेन शमदमपरायणः ॥ ६३॥
स्वधर्मसंयुतो भूत्वा देहनिर्वाहकं चरेत् ।
देहस्य शमनं तच्च जायते स दमः स्मृतः ॥ ६४॥
विषयार्थं मनस्तस्य सङ्कल्पं यत् समाचरेत् ।
तन्नेच्छेच्चित्तमागृह्य कुर्याद्ब्रह्मपरायणम् ॥ ६५॥
अयं शमः समाख्यातस्तेन चित्तं भवेत् परम् ।
स्वाधीनं सर्वभावं च त्यक्त्वा ब्रह्मपरं भवेत् ॥ ६६॥
शनैः शनैरुपरमेद्विषयेभ्यो महात्मवान् ।
धृतिं योगमयीं धृत्वा भवेद्योगी स मानवः ॥ ६७॥
कर्ममार्गं परित्यज्य द्विविधं योगिसत्तमः ।
ध्यानयोगपरो भूत्वा तिष्ठेन्नित्यं वदामि तम् ॥ ६८॥
मनोवाणीविहीनं यद्ब्रह्म तत्र समाचरेत् ।
ध्यानं सङ्कल्पत्यागाख्यं विषयेषु निरन्तरम् ॥ ६९॥
यो यश्चित्तेन सङ्कल्पः क्रियते विषयेषु च ।
तत्तत्सङ्कल्पहीनं स कारयेद्योगतत्परः ॥ ७०॥
एवं चित्तं नरस्यैव स्वाधीनं जायते सदा ।
यदा धर्तुं स नो शक्तस्तदान्यदाचरेद्बुधः ॥ ७१॥
देहेन्द्रियाणि सङ्गृह्य तिष्ठेद्भुमौ महायशाः ।
न चलेत् स्थाणुवत् सोऽपि क्रियां नैव समाचरेत् ॥ ७२॥
तत्र यन्मिलितं चान्नं जलपानादिकं चरेत् ।
परेच्छया समायुक्तः सदा तिष्ठेन् महायशाः ॥ ७३॥
केनापि जलपानादि न दत्तं तादृशो वसेत् ।
न तदर्थं श्रमेत् सोऽपि नेच्छेत् प्रारब्धधारकः ॥ ७४॥
सर्पवृश्चिकव्याघ्राद्यैः पीडितो यदि मानवः ।
नानाप्रहारयोगैश्च मानवादिभिरेव वा ॥ ७५॥
तथापि न चलेत् सोऽपि स्वस्थानाज्जडवत्परः ।
देहप्रारब्धमाश्रित्य न तेषु क्रोधमाचरेत् ॥ ७६॥
पूर्वजन्मकृतं कर्म मया तेन प्रबोधितः ।
इमे सम्पीडयन्त्येवमेषां दोषो न विद्यते ॥ ७७॥
अथवा सात्त्विकैस्तत्र पूजितः सर्वभावतः ।
नित्यं नानाजनैः सोऽपि सेवितो न चलेत्तदा ॥ ७८॥
पूर्वजन्मकृतं कर्म प्रेरितास्तेन मानवाः ।
मया मां पूजयन्त्येव गुण एषां न विद्यते ॥ ७९॥
एवं मनसि सन्धार्य तेषां नेच्छेच्छुभं कदा ।
द्वन्द्वमेवं परिगृह्य तिष्ठेन्नित्यं महायशाः ॥ ८०॥
अनेन विधिना सोऽपि स्वल्पकालेन भो विधे ।
चित्तं जयेन्न सन्देहः शान्तिं पूर्णामवाप्नुयात् ॥ ८१॥
नान्यत् किञ्चिच्चरेत् कर्म न ध्यानादिकमादरात् ।
एवं शमदमौ धृत्वा भवेद्योगी स मानवः ॥ ८२॥
विचारं ब्रह्मणस्तत्र कुर्यान्नित्यं विशेषतः ।
कीदृशं ब्रह्म हृत्स्थं मे वेदाद्यैः प्रतिपादितम् ॥ ८३॥
पञ्चभूमिमतिक्रम्य तिष्ठेत् क्रमेण मानवः ।
नानाब्रह्मणि पश्यन् सन्नन्ते शान्तिमवाप्नुयात् ॥ ८४॥
शान्तियुक्तो नरः पश्चात् सन्त्यजेत्तां महाद्भुताम् ।
जडावस्थां पुनः सोऽपि यथेच्छाचारगो भवेत् ॥ ८५॥
हृदि चिन्तामणिं दृष्ट्वा पञ्चभूमिप्रचालकम् ।
शान्त्या युक्तो भवेन्नित्यं स्वाधीनहृदयः परः ॥ ८६॥
दृष्ट्वा ब्रह्म स्वयं योगी रसहीनो भवेन् मुदा ।
सर्वत्र नात्र सन्देहः शान्त्या सर्वं समाचरेत् ॥ ८७॥
अनेन विधिना दक्ष ज्ञानी पापपरायणः ।
क्रमेण साधयेद्योगं स योगी सम्भवेत् परः ॥ ८८॥
एवं कर्तुमशक्तश्चेत्तदा श्रुत्वा महामतिः ।
इमं योगं स्वयं तत्र निष्ठायुक्तो भवेत् सदा ॥ ८९॥
स्वधर्मनिरतो भूत्वा योगमिच्छेन्निरन्तरम् ।
निन्द्यभोगान् प्रभुञ्जन् सन्नन्ते स्वानन्दगो भवेत् ॥ ९०॥
गणेश्वरं तत्र दृष्ट्वा योगयुक्तो भविष्यति ।
ज्योतिर्देहधरो भूत्वा प्रभजेद्गणनायकम् ॥ ९१॥
ब्रह्म कल्पमयं स्थित्वा कालं तत्र महामतिः ।
तद्देहे लीनतां प्राप्य ब्रह्मभूतो भविष्यति ॥ ९२॥
एवं कर्तुमशक्तश्चेत्तदा स धर्मसंयुतः ।
कर्माचरेत् प्रजानाथ ब्रह्मार्पणविधानतः ॥ ९३॥
तेनैव शुक्लगत्या स ब्रह्मीभूतो नरो भवेत् ।
निःकामयोगमार्गेण सदा ब्रह्मणि तत्परः ॥ ९४॥
एवं कर्तुमशक्तश्चेत्तदाऽहं ब्रह्मभावतः ।
त्रिविधं फलमुत्सृज्य कर्मजं योगमाप्नुयात् ॥ ९५॥
कर्मत्यागबलेनैवाहं ब्रह्म निश्चयेन सः ।
क्रमेण कर्मसंयुक्तो भविष्यत्यन्यजन्मनि ॥ ९६॥
निःकामकर्मकर्ता स पुनरन्यभवे नरः ।
योगरससमायुक्तो भवेद्विषयनिन्दकः ॥ ९७॥
एवं क्रमेण शान्तिं स लभेत् पूर्णां न संशयः ।
क्रमार्थं रचितं सर्वं नानामतसमन्वितम् ॥ ९८॥
सुगमं सर्वभावेषु गणेशभजनं परम् ।
तेन योगी भवेन्नूनं सर्वशास्त्रेषु सम्मतम् ॥ ९९॥
यत्किञ्चिद् गणराजस्य व्रतपूजादिकं प्रभोः ।
कीर्तनश्रवणाद्यं तु ब्रह्मीभूतप्रदायकम् ॥ १००॥
नानाविषयसंयुक्तो नरः स्मरेद्गणाधिपम् ।
अहर्निशं तदास्यान्ते गणेशस्मरणं भवेत् ॥ १०१॥
तेन स्वानन्दगो भूत्वा योगमभ्यस्य तन्मयः ।
ब्रह्मकल्पान्तभावे स भविष्यति न संशयः ॥ १०२॥
स्मरणं गणराजस्य प्रकुर्यान्नित्यमादरात् ।
तस्यान्ते गणराजस्य स्मृतिं दद्यान्नराय सः ॥ १०३॥
अतोऽहर्निशमेकं तं संस्मरेन् मानवः परम् ।
नानायोगादिकं सर्वं साध्य योगिसमो भवेत् ॥ १०४॥
आयासेन विहीनोऽपि सदा विषयलम्पटः ।
गणेशस्मरणे सक्तः सः शुकसमतां व्रजेत् ॥ १०५॥
शिवविष्णुमुखादीनां नरो यः स्मरणं चरेत् ।
अन्ते तेषां स्मृतिं तस्मै स दद्याच्चित्तगः प्रभुः ॥ १०६॥
तेषां लोकं समासाद्य भुक्त्वा भोगान् मनोहरान् ।
प्रपतेन्नाऽत्र सन्देहो मृत्युलोके विशेषतः ॥ १०७॥
पुराणेषु प्रपठ्यन्ते त्रिगुणानां लयाः सदा ।
अतः स जन्ममृत्युभ्यां युक्तो भवति तद्गतः ॥ १०८॥
अतः सारं समाख्यातं गणेशभजनं परम् ।
तेनाज्ञानसमायुक्तो नरो ब्रह्ममयो भवेत् ॥ १०९॥
एतत्ते कथितं दक्ष योगप्राप्त्यर्थमादरात् ।
अज्ञानसंयुतस्यापि ब्रह्मीभूतप्रदायकम् ॥ ११०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामतार्थशास्त्रे
अज्ञानिनां क्रमयोगवर्णनं नाम नवमोऽध्यायः ॥ ९.९
॥ इति योगगीतासूपनिषत्सु सुगमासु पञ्चमोऽध्यायः ॥ ९(योगगीता).५
६. विभूतियोगो नाम द्षष्ठोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.१० विभूतियोगो नाम दशमोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
विभूतीर्वद योगीश गणेशस्य महात्मनः ।
या ज्ञात्वा ताः समाराध्य गणेशज्ञो भवेन्नरः ॥ १॥
मुद्गल उवाच ।
अपारा गणनाथस्य विभूतयो न संशयः ।
ता न शक्ताः कथयितुं भवन्ति शङ्करादयः ॥ २॥
क्षणे क्षणे गणेशानो नानाखेलपरायणः ।
विभूतिभिर्जगत्सर्वं भावयति परात्परः ॥ ३॥
लोकेषु तत्त्वमुख्येषु जगत्सु ब्रह्मसु प्रभोः ।
ये श्रेष्ठास्तस्य ते सर्वे विभूतिपदधारकाः ॥ ४॥
कल्पे कल्ये विभूतीनामवतारा असङ्ख्यकाः ।
गणेशस्य तथा दक्ष तान् वक्तुं कः क्षमो भवेत् ॥ ५॥
अतः सङ्क्षेपतस्तुभ्यं कथयिष्यामि ताः शृणु ।
विभूतीर्गणनाथस्य नानासिद्धिप्रदायिनीः ॥ ६॥
जगत्सु ब्रह्मसु प्राज्ञ योगरूपो गजाननः ।
कथं न भिन्नभावाख्यं वर्तते वर्णयाम्यहम् ॥ ७॥
मायाभ्यां संयुतः सोऽपि नानावेषप्रधारकः ।
अयोगिनामिदं हृद्यं सत्यं सम्भासते सदा ॥ ८॥
मायायुक्तप्रभावेण किं किं गजाननस्य च ।
न सम्भवेदहं मायां समाश्रित्य वदामि ताः ॥ ९॥
कलांशाः कलया युक्ताः कलांशांशाः कलात्मकाः ।
तेषामंशधरा ये ते सर्वे विभूतिधारकाः ॥ १०॥
एवमेव गणेशानः पृष्टश्च नारदेन सः ।
जगाद ताः शृणुष्व त्वं विभूतीः परमाद्भुताः ॥ ११॥
श्रीगणेश उवाच ।
पूर्णो योगेषु सर्वेषु चित्तरोधमयः परः ।
मायाहीनप्रभावाणामयोगोऽहं महामुने ॥ १२॥
स्वानन्दो निजभूतेषु तुर्येष्वव्यक्तसंज्ञितः ।
आनन्दसमभावेषु जीवेष्वात्माहमञ्जसा ॥ १३॥
नानाभेदेषु ब्रह्माहमसद्रूपप्रधारकम् ।
सत्येषु साङ्ख्यरूपोऽहं बोधः खेलकरेषु च ॥ १४॥
देहाभिमानयुक्तेषु सदैकोऽहं महामते ।
देहेषु बिन्दुरूपोऽहं चेतनासु गुणेश्वरः ॥ १५॥
कोशेष्वानन्दकोशोऽहं विज्ञानं सूक्ष्मजातिषु ।
विवेकेषु मनश्चाहं चालकेषु समीरणः ॥ १६॥
स्थूलेष्वन्नस्वरूपोऽहं समष्टिषु तथेश्वरः ।
व्यष्टिषु प्राज्ञरूपोऽहमणुषु च महाविराट् ॥ १७॥
इन्द्रियेषु मनश्चाहं भूतेष्वाकाशसंज्ञितः ।
तन्मात्राणामहं शब्दो ज्ञाताहं देवतासु च ॥ १८॥
तत्त्वेषु विविधेष्वेव महत्तत्त्वमहं परम् ।
गुणेषु गुणपोऽहं तु पालकेषु जनार्दनः ॥ १९॥
हरः संहारकर्तॄणां स्रष्टॄणां प्रपितामहः ।
कर्मणामर्यमाऽऽत्माऽहं मोहकानां च शक्तिका ॥ २०॥
देवानां मघवाऽहं तु आदित्यानां विनायकः ।
तेजसां भानुरूपोऽहममृतेषु विधुः परः ॥ २१॥
अग्निः प्रतापदेष्वेव धर्मः समप्रवृत्तिषु ।
यमो यमवतां चाहं रक्षसां निरृतिः स्वयम् ॥ २२॥
जलेषु वरुणोऽहं तु बलवत्सु समीरणः ।
निधीनां धनदाताऽहं रुद्राणां शङ्करः प्रभुः ॥ २३॥
कामो धनुर्धराणां च रतिर्भोगेषु भोगदा ।
नागेशानामहं शेषः सर्पाणां तक्षकः स्वयम् ॥ २४॥
नागानां वासुकिर्नाम जम्बुर्द्वीपेषु सर्वदः ।
स्वादूदकः समुद्राणां पर्वतेषु हि मेरुकः ॥ २५॥
पितॄणां यमरूपोऽहं वृक्षेषु शमिका मता ।
देववृक्षेषु मन्दारस्तरूणां कामदायकः ॥ २६॥
धेनूनां कामधेनुर्या दूर्वा चौषधिषु प्रभुः ।
पक्षिषु तु मयूरोऽहं मृगाणां सिंहरूपधृक् ॥ २७॥
मासानां श्रावणश्चाहं चौराणां मूषकाधिपः ।
वाहनेष्वश्ववाहोऽहं सिद्धिरैश्वर्यदेषु च ॥ २८॥
विद्यासु बुद्धिरूपोऽहं चित्तं प्रकाशकारिणाम् ।
अहं मनश्च वेगानां मोहदेष्वभिमानकः ॥ २९॥
नराधिपो नराणां तु वर्णेषु ब्राह्मणोह्यहम् ।
आश्रमेषु तुरीयोऽहं पोषकेषु गृहस्थकः ॥ ३०॥
त्यागिनामवधूतोऽहं तिथीनां च चतुर्थिका ।
प्रजापतिषु दक्षोऽहं ब्रह्मर्षिषु भृगुस्तथा ॥ ३१॥
नारदो दैवतर्षीणां दत्तोऽवधूतरूपिणाम् ।
कपिलस्तत्त्वविज्ञानां योगिनां शुक एव यः ॥ ३२॥
जनकोऽहं विदेहानां निःसङ्गेषु महामुने ।
सनकादय एवाऽहं ज्ञानिनां बादरायणः ॥ ३३॥
वसिष्ठः कर्मकर्तॄणां गाणपत्येषु मुद्गलः ।
भृशुण्डी चैकनिष्ठेषु ब्रह्मिष्ठानां बृहस्पतिः ॥ ३४॥
अन्नानां तिलरूपोऽहं गव्यानां घृतमञ्जसा ।
मधु सर्वरसानां च मकरो जलजात्मनाम् ॥ ३५॥
कौमण्डली नदीनां च तीर्थेषु गाणपं परम् ।
क्षेत्राणां मयूरक्षेत्रं काशिराजः सुबुद्धिषु ॥ ३६॥
मयूरेशोऽवताराणां गार्ग्य उपासकात्मनाम् ।
ध्याननिष्ठेषु सर्वेषु गृत्समदोऽहमेव च ॥ ३७॥
सुबोधौ दैत्यजातीनां ज्ञानारिर्द्वेषकारिणाम् ।
दुर्जयेषु मनश्चाहं वर्णेष्वोङ्कार एव सः ॥ ३८॥
शुक्रोहं भाविकेष्वेव त्रिशिराः शुद्धचेतसाम् ।
उपदेशप्रदातॄणां याज्ञवल्क्यः प्रतापवान् ॥ ३९॥
पौराणिकेषु सूतोऽहं श्रोतॄणां शौनको मुनिः ।
सेनानीनामहं स्कन्दो विष्णुर्यशस्विनामहम् ॥ ४०॥
पापेष्वनृतरूपोऽहं कलहो भेदधारिणाम् ।
प्राप्तिषु लोभरूपोऽहं मणीनां चिन्तितार्थदः ॥ ४१॥
ज्ञानं पवित्रं भावानां सामगायकधर्मिणाम् ।
वेदेष्वथर्वसंज्ञोऽहं शस्त्रेषु परशुः परः ॥ ४२॥
निर्लेपानामहं साक्षी राजश्रीषु गजस्तथा ।
विषयो भ्रान्तिदानां च रम्भा ह्यप्सरसामहम् ॥ ४३॥
गन्धर्वाणां चित्ररथो वैद्यानां वैद्यनायकः ।
धन्वन्तरिस्तु भिषजां समुद्रः सरसात्मनाम् ॥ ४४॥
स्रोतसां जाह्नवी विप्र मन्त्राणामेकवर्णजः ।
सूक्तेषु ब्राह्मणस्पत्यं यज्ञेषु ज्ञानरूपधृक् ॥ ४२॥
प्राणेषु तु समानोऽहं शक्तिः शक्तिमतामहम् ।
बृहदारण्यकं विद्धि नानोपनिषदां परम् ॥ ४६॥
शास्त्रेषु योगशास्त्रं च पुराणेषु च मौद्गलम् ।
अरण्यानां महारण्यं दण्डकाख्यमहं परम् ॥ ४७॥
नियन्तॄणामहं दण्डो मायाऽहं भावकारिणाम् ।
स्मृतीनां याज्ञवल्क्यस्य स्मृतिरेव परा मता ॥ ४८॥
गायत्री छन्दसां विप्र स्वानन्दो नगरात्मनाम् ।
व्याकरणमङ्गभूतेषु कलासु योगदा ह्यहम् ॥ ४९॥
नीतिज्ञेषु तथा काव्यो वृषभो भूमिधारिणाम् ।
नन्दिकेशो गवां चाहं नग्नो भैरवभाविनाम् ॥ ५०॥
एवं नानाविधाऽऽकारा विभूतीर्गणपस्य या ।
कथितुं नैव शक्या सा सारा सङ्कथिता मया ॥ ५१॥
यद्यच्छ्रेष्ठतमं विप्र सा विभूतिर्न संशयः ।
लोकेषु गणराजस्य तां भावय विशेषतः ॥ ५२॥
मुद्गल उवाच ।
एवमुक्त्वा गणेशानो विरराम प्रजापते ।
नारदस्तं प्रणम्यैव जगाम तादृशोऽभवत् ॥ ५३॥
य इमां श्रावयेद्दक्ष शृणुयाद्वा प्रयत्नतः ।
न मोहं स लभेत् क्वापि ज्ञात्वा सामर्थ्यजं महः ॥ ५४॥
अपारमहिमायुक्ता जीवाश्च परमेश्वराः ।
ते सर्वे विघ्नराजस्य विभूतिपदधारकाः ॥ ५५॥
एवं ज्ञात्वा गणेशानं ये भजन्ति मनीषिणः ।
ते सर्वे ब्रह्मभूताश्च भविष्यन्ति प्रजापते ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन विभूतियोगो नाम दशमोऽध्यायः ॥ ९.१०
॥ इति योगगीतासूपनिषत्सु सुगमासु षष्ठोऽध्यायः ॥ ९(योगगीता).६
७. तत्त्वविचारयोगो नाम सप्तमोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.११ तत्त्वविचारयोगो नाम एकादशोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
त्वया प्रोक्तः पुरा विप्र विचारो ब्रह्मणः परः ।
तं कृत्वा योगमाप्नोति तद्वदस्व हितावहम् ॥ १॥
क्रियया शुद्धचित्तो यो नरो ब्रह्मपरायणः ।
सर्वत्र ब्रह्मरूपं यद्विधिना केन पश्यति ॥ २॥
मुद्गल उवाच ।
बाह्यान्तरां क्रियां कृत्वा शुद्धचित्तो नरोत्तमः ।
तत्त्वविचारमार्गेण पश्यति ब्रह्म शाश्वतम् ॥ ३॥
तत्तेऽहं कथयिष्यामि तत्त्वज्ञानं प्रजापते ।
आदौ योगिजनानां यत् साधनं योगदायकम् ॥ ४॥
पृथ्वी जलं तथा तेजो वायुराकाशमेव यत् ।
पञ्चभूतमयो देहः प्रकृतिः सा च पञ्चधा ॥ ५॥
क्रियारूपा महाभागा नानाभेदपरायणा ।
विभज्यात्मानमेवं सा क्रीडति विविधे रता ॥ ६॥
भूतानामेकभावाख्या पञ्चानां ज्ञानरूपिणी ।
प्रकृतिर्हृदि संस्था सा जीवभावधरा परा ॥ ७॥
तया ज्ञानं भवेत् सर्वं नानाविवेकदायकम् ।
तदाधारं जगत् सर्वमेकरूपा प्रकीर्तिता ॥ ८॥
तयोर्योगे प्रजानाथ ब्रह्मैवमभिधीयते ।
क्रियाज्ञानस्वरूपाख्यं द्वन्द्वहीनं परात्परम् ॥ ९॥
तदेव पञ्चधा जातं शृणु तद्योगदायकम् ।
स्थूलं सूक्ष्मं समं चात्मप्रतीतं बिन्दुसंज्ञितम् ॥ १०॥
समष्टिव्यष्टिभावेन द्विविधं ब्रह्म कथ्यते ।
पृथक्त्वेन स्वयं भाति पञ्चसु पञ्चभेदतः ॥ ११॥
स्थूलं जागृन्मयं ब्रह्म तदेव द्विविधं मतम् ।
विश्वाख्यं व्यष्टिरूपेण वैश्वानरं समष्टिगम् ॥ १२॥
अण्डेषु विविधा रूपा जन्तवो दृष्टिगोचराः ।
जागृद्भावधराः सर्वे विश्वात्मका उदाहृताः ॥ १३॥
तस्य बोधं प्रवक्ष्यामि सुगमार्थप्रकाशकम् ।
क्रियात्मकेषु देहेषु क्रियारूपा भवन्ति ते ॥ १४॥
ज्ञानात्मकेषु देहेषु ज्ञानरूपधरा मताः ।
उभयोर्योगभावेन विश्वाख्यास्ते प्रकीर्तिताः ॥ १५॥
बाह्यदेहस्य भो दक्ष वितस्तिर्यादृशी भवेत् ।
तावन्मानेन सर्वेषां ज्ञानदेहो हृदि स्थितः ॥ १६॥
विराट् जागृत् स्वरूपस्थो वैश्वानर इति स्मृतः ।
व्यापकात्मकदेहेन तिष्ठति विश्वभाविषु ॥ १७॥
तस्यापि द्विविधो देहः क्रियाज्ञानप्रभेदतः ।
तयोर्योगे समाख्यातो वैश्वानरश्च तन्मयः ॥ १८॥
विश्ववैश्वानरयोश्च योगे ब्रह्म प्रकीर्तितम् ।
जागृद्भावधरं पूर्णं स्थूलभूतप्रकाशकम् ॥ १९॥
एतत् स्थूलस्य तत्त्वं ते कथितं तु समासतः ।
तत्र तत्त्वविधिं भिन्नं शृणु योगसमाधिदम् ॥ २०॥
जन्ममृत्युयुतं यच्च नानाभावपरायणम् ।
त्वम्पदाख्यं प्रजानाथ विद्धि तत् सर्वभावगम् ॥ २१॥
जन्ममृत्युविहीनं यदेकरूपं प्रकीर्तितम् ।
तत्पदाख्यं च तद्विद्धि परं सर्वात्मधारकम् ॥ २२॥
तयोर्योगे भवेत्तत्वं तदेवासिपदं परम् ।
द्वन्द्वभावविहीनं यद् द्वन्द्वरूपप्रकाशकम् ॥ २३॥
त्वम्पदं क्रियया युक्तं ज्ञानाख्यं तत्पदं भवेत् ।
तयोर्योगे भवेद्विश्वं तत्त्वरूपं न संशयः ॥ २४॥
एवं वैश्वानराख्यं त्वं जानीहि तत्त्वसंज्ञितम् ।
क्रियाज्ञानसमायोगे तयोः प्रकाशकारकम् ॥ २५॥
अथान्यच्छृणु दक्ष त्वं तत्त्वरूपं पुरातनम् ।
विश्वाख्या जन्तवः सर्वे नानाभावात्मका बुधैः ॥ २६॥
जन्ममृत्युयुताः प्रोक्तास्त्वम्पदधारका मताः ।
वैश्वानरस्त्वम्पदश्चैकरूपाद्व्यापको मतः ॥ २७॥
तयोरभेदभावे यद्ब्रह्मतत्त्वं प्रकीर्त्यते ।
जागृद्भावधरं पूर्णं स्थूलभावपरायणम् ॥ २८॥
एवं नानाविभागेषु ज्ञातव्यं तत्त्वरूपकम् ।
सूक्ष्मादिषु प्रजानाथ ब्रह्मसौख्यप्रदायकम् ॥ २९॥
अथ सूक्ष्मं प्रवक्ष्यामि योगमार्गप्रसिद्धये ।
शुद्धचित्तप्रभावेण तज्ज्ञानं तन्मयं भवेत् ॥ ३०॥
बाह्यं स्थूलं विशेषेण जागृदन्नमयं परम् ।
आन्तरं स्वप्नभावाख्यं सूक्ष्मं जानीहि मानद ॥ ३१॥
प्राणो दशविधः प्रोक्तः सूक्ष्मरूपोंऽतरे स्थितः ।
तस्मात् सूक्ष्मं मनः प्रोक्तं प्राणान्तः संव्यवस्थितम् ॥ ३२॥
तस्मात् सूक्ष्मं च विज्ञानं देहद्वन्द्वज्ञमुत्तमम् ।
मनोंऽतरे स्थितं पूर्णं तदन्तर्न च विद्यते ॥ ३३॥
त्रिविधं कोशसंयुक्तं स्वप्नं सूक्ष्मस्वरूपकम् ।
सर्वान्तरे स्थितं ब्रह्म द्वन्द्वमायाप्रचालकम् ॥ ३४॥
क्रियारूपस्तथा देहः सूक्ष्मभूतमयः स्मृतः ।
सर्वान्तरे समास्थाय कल्पिताभोगकारकः ॥ ३५॥
ज्ञानदेहः समाख्यातः सदैकभावधारकः ।
पूर्ववत् सर्वं विज्ञेयं सूक्ष्ममायाप्रकाशकम् ॥ ३६॥
भिन्नभावधराः सर्वे जन्तवः स्वप्नगाः पराः ।
तैजसास्ते मताः शास्त्रे क्रियाज्ञानप्रकाशकाः ॥ ३७॥
विराट् तत्र समाख्यातो हिरण्यगर्भसंज्ञितः ।
व्यापकः स्वप्नभावेषु नानाजन्तुप्रचालकः ॥ ३८॥
तयोरभेदभावे यद्ब्रह्म स्वप्नात्मकं परम् ।
सूक्ष्ममायाप्रकाशत्वात् सूक्ष्मं तत् कथ्यते बुधैः ॥ ३९॥
पूर्ववत्तत्त्वभावश्च विज्ञेयः सूक्ष्मगः परः ।
शुद्धचित्तप्रभावेण साक्षात्कारं करोति सः ॥ ४०॥
अतः परं समाख्यं यद्ब्रह्म सुषुप्तिसंज्ञितम् ।
कथयामि महाप्रीत्या लोकानामुपकारकम् ॥ ४१॥
बाह्यं जागृन्मयं दक्ष वपुः सर्वत्र पठ्यते ।
आन्तरं स्वप्नमित्युक्तं तयोर्योगे समात्मकम् ॥ ४२॥
बाह्यान्तरैकभावाख्यं बाह्यान्तरविवर्जितम् ।
आनन्दकोशगं साम्यं कृतं भूतैर्गुणात्मकैः ॥ ४३॥
जागृत्त्यक्त्वा नरो यस्तु स्वप्नं गच्छति तत्र सः ।
तयोः सन्धिं समाश्रित्य सुषुप्तिर्जायते परा ॥ ४४॥
तथा स्वप्नं परित्यज्य जागृतिं गच्छति स्वयम् ।
तयोः सन्धिं समास्थाय तिष्ठति सा सुषुप्तिका ॥ ४५॥
यत्र सुप्तो नरो दक्ष ज्ञानयुक्तो भवत्यसौ ।
न जानाति स्वकं चान्यं स्वप्नं नैव प्रपश्यति ॥ ४६॥
सा सुषुप्तिः समाख्याता निद्रां संश्रित्य तिष्ठति ।
जागृतिस्वप्नबोधं या करोति सा सुषुप्तिका ॥ ४७॥
सा द्विधा मायया युक्ता प्राज्ञेश्वरस्वभावतः ।
भिन्नदेहधराणां तु प्रज्ञाख्या सा प्रकीर्तिता ॥ ४८॥
विराड्रूपधरा नित्या सेश्वराख्या प्रकथ्यते ।
ब्रह्मरूपा तयोर्योगे तत्त्वसंज्ञा यथा पुरा ॥ ४९॥
अथ तुरीयरूपं ते कथयामि समासतः ।
नादरूपधरं भूततन्मात्राभेदमञ्जसा ॥ ५०॥
व्यवस्थासंश्रितं पूर्णं त्रिषु साक्षिवदुच्यते ।
तस्यानुभवमाहात्म्यं कथयामि हिताय ते ॥ ५१॥
मया जागृन्मयं भुक्तं मया स्वप्नं विलोकितम् ।
निद्रायां न मया किञ्चिज्ज्ञातं वदति यः स वै ॥ ५२॥
यदा जागर्ति विश्वस्थस्तदा द्वाभ्यां विवर्जितः ।
यदा स्वपिति स द्वाभ्यां हीनस्तिष्ठति निश्चितम् ॥ ५३॥
यदा सुषुप्तिसंस्थोऽयं तदा द्वाभ्यां विवर्जितः ।
एवं भेदप्रकारैः स व्यवस्थासंयुतो मतः ॥ ५४॥
तस्य तत्त्वं प्रवक्ष्यामि वैश्वतैजसप्राज्ञगः ।
त्वम्पदाख्यः समाख्यातो नादरूपधरः प्रभुः ॥ ५५॥
त्रिविराण्मय एवासौ तत्पदाख्यः प्रकीर्त्यते ।
तयोरभेदभावे स तत्त्वरूपोऽस्मितामयः ॥ ५६॥
अवस्थानां समायोगो नादस्तुरीयधारकः ।
सदैकभावसंयुक्तः सर्वत्राऽसौ विराजति ॥ ५७॥
न बाह्यो नांऽऽतरस्थोऽयं नोभयात्मक उच्यते ।
अहमित्येव कोशात्माऽस्मिताख्यः परमेश्वरः ॥ ५८॥
अतः परं प्रवक्ष्यामि बिन्दुतत्त्वं सुसौख्यदम् ।
पञ्चमं ब्रह्मसंज्ञं तत् देहानां देहगं परम् ॥ ५९॥
व्यवस्थामयसंस्थं यत्त्वम्पदस्थं प्रकथ्यते ।
तुरीयसंज्ञितं देहं तत्पदाख्यं प्रकीर्तितम् ॥ ६०॥
तयोरभेदभावे यत्तत्त्वं योगमयं परम् ।
चतुर्षु संस्थितं पूर्णं चतुर्भिर्वर्जितं सदा ॥ ६१॥
एवं तत्त्वविचारेण शमदमपरायणः ।
सङ्कल्पजान् सदा कामांस्त्यक्त्वा योगमयो भवेत् ॥ ६२॥
सर्वत्र ब्रह्मसंस्थं यत् पश्येत्तन्नात्र संशयः ।
तत्त्वरूपधरं पूर्णं तत्त्वविचारतः सदा ॥ ६३॥
अथान्यत्तत्त्वमार्गं ते कथयिष्यामि सर्वदम् ।
बिन्दुस्त्वम्पदसंज्ञस्थः सोऽहं तत्पदगं मतम् ॥ ६४॥
तयोर्योगे प्रजानाथ बोधस्तत्त्वमयः स्मृतः ।
मनोवाणीविहीनत्वात् दृश्यते योगिना परः ॥ ६५॥
बोधस्त्वम्पदरूपश्च विबोधस्तत्पदात्मकः ।
तयोर्योगे स्वसंवेद्यं तत्त्वं वेदे प्रकीर्तितम् ॥ ६६॥
असत्त्वम्पदरूपं सत्तत्पदस्थमुदुच्यते ।
तयोर्योगे समं ब्रह्म तत्त्वं योगप्रदं मतम् ॥ ६७॥
समं त्वम्पदसंज्ञस्थमव्यक्तं तत्पदस्थितम् ।
तयोर्योगे तथा तत्त्वं स्वानन्दाख्यं प्रकीर्तितम् ॥ ६८॥
स्वानन्दस्त्वम्पदाख्यश्चायोगस्तत्पदमुच्यते ।
तयोर्योगे परं तत्त्वं पूर्णयोगमयं मतम् ॥ ६९॥
सिद्धिस्त्वम्पदगा प्रोक्ता बुद्धिस्तत्पदगा मता ।
तयोर्योगे गणेशानस्तत्त्वरूपः प्रकथ्यते ॥ ७०॥
एवं नानामतैर्युक्ता वेदान्तार्थविचक्षणाः ।
तत्त्वं वदन्ति दक्ष त्वं जानीहि नात्र संशयः ॥ ७१॥
अनन्तभावसंयुक्तं त्वम्पदं विद्धि सर्वदा ।
अकल्पितं तत्पदाख्यं तयोर्योगे परं भवेत् ॥ ७२॥
इदं सारं रहस्यं ते कथितं योगदं परम् ।
येन सर्वत्र योगं स सम्पश्येज्ज्ञानचक्षुषा ॥ ७३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन तत्त्वविचारयोगो नाम एकादशोऽध्यायः ॥ ९.११
॥ इति योगगीतासूपनिषत्सु सुगमासु सप्तमोऽध्यायः ॥ ९(योगगीता).७
८. शुक्लकृष्णगतियोगो नाम अष्टमोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.१२ शुक्लकृष्णगतियोगो नाम द्वादशोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
शुक्लां कृष्णां गतिं ब्रूहि याभ्यां मुक्तिमवाप्नुयात् ।
संसारं च तथा योगिन् दयया सर्वतारक ॥ १॥
मुद्गल उवाच ।
कर्मत्वं त्रिविधं विद्धि कर्माकर्मविकर्मगम् ।
स्वधर्मवर्जितं सर्वं कर्म विकर्मसंज्ञकम् ॥ २॥
स्वधर्मसंयुतं कर्म भोगवासनया युतम् ।
कर्मसंज्ञं विजानीहि कृष्णगतिपदप्रदम् ॥ ३॥
ब्रह्मार्पणतया कर्म स्वधर्मस्थं भवेत् परम् ।
शुक्लगतिमयं विद्धि मुक्तिदं तदकर्मकम् ॥ ४॥
आग्नेयं ज्योतिरयनमुत्तराख्यं दिवा तथा ।
शुक्लगतिमयं सर्वं जानीहि मुक्तिदायकम् ॥ ५॥
चान्द्रं ज्योतिर्धूमरात्री दक्षिणायनमेव यत् ।
कृष्णगतिस्वरूपं तज्जानीहि जनिमृत्युदम् ॥ ६॥
तयोर्भेदं प्रवक्ष्यामि लोकानां हितकाम्यया ।
येन द्वैधं परित्यज्य ब्रह्मणि निरतो भवेत् ॥ ७॥
निःकामिकं कर्म कृत्वा मृतो नरो यदा भवेत् ।
रात्रौ स दक्षिणार्के वा न तं गृह्णन्ति देवताः ॥ ८॥
देवभोगांस्तिरस्कृत्य ब्रह्मार्पणपरायणम् ।
नरं तं किं करिष्यन्ति देवाः स्वर्गसुखप्रदाः ॥ ९॥
अतो दाहे स वै दक्ष अग्निज्योतिःस्थगो भवेत् ।
दिवसे समनुप्राप्ते दिवा दैवतगस्तथा ॥ १०॥
उत्तरायणसम्भूते स गच्छेद्भानुमण्डले ।
प्रलये मण्डलस्यैव नाशे पुरुषगो भवेत् ॥ ११॥
महाप्रलयवेलायां प्रकृतेः पुरुषस्य च ।
नाशे ब्रह्मणि गच्छेत् स ब्रह्मभूतो भवेत्ततः ॥ १२॥
सकामकं कर्म कृत्वा दिवसे उत्तरायणे ।
मृतं नरं न तं भानुर्गृह्णाति कामनायुतम् ॥ १३॥
सदाघे धूमसंस्थश्च यदा रात्रिः समागता ।
तदा तस्यां समाश्रित्य तथा तिष्ठेत् प्रजापते ॥ १४॥
दक्षिणायनमानन्दादागतं वीक्ष्य तत्क्षणात् ।
विमानवरमारुह्य गच्छेत् स्वर्गं विहायसा ॥ १५॥
चान्द्रं ज्योतिः समाश्रित्य भोगान् भुङ्क्ते स्वकर्मजान् ।
कर्मप्रमाणमार्गेण नानास्वर्गपरायणः ॥ १६॥
विधिं तत्र प्रवक्ष्यामि चन्द्रकलासमुद्भवम् ।
अमृतं देवलोकेषु स्वर्गेषु भोगदं परम् ॥ १७॥
इह कर्म कृतं पूर्णं नरैस्तदमृतात्मकम् ।
भवति चन्द्रगं सर्वं तेन कलायुतो भवेत् ॥ १८॥
शुक्लपक्षे क्रमेणायमेकैककलया प्रभुः ।
वृद्धियुक्तः स्वयम्पूर्णः पूर्णिमायां प्रदृश्यते ॥ १९॥
कृष्णपक्षे सुराः सर्वे क्रमेणामृतभोजिनः ।
पिबन्ति चन्द्रसंस्थं तदमृतं तृप्तिकारकम् ॥ २०॥
तेन तृप्तियुताः सर्वे भवन्ति मासमानतः ।
अमायां पतितश्चन्द्र ओषधीषु न संशयः ॥ २१॥
अत ओषधयश्छेद्या नरेण नैव निश्चितम् ।
अमायां चन्द्रसंयोगयुक्ताः सुखपरायणाः ॥ २२॥
अतश्चन्द्रभवं सर्वममृतं देवभूमिषु ।
चान्द्रः स्वर्ग इति प्रोक्तस्तेनैवं वेदवादिभिः ॥ २३॥
देवानां विविधानां स कर्म कृत्वा सकामकम् ।
कर्माङ्गदेवमभ्यर्च्य गच्छेत् समर्प्य तत्क्रियाम् ॥ २४॥
तत्तल्लोकसुखं भुक्त्वा नानाभोगसमन्वितम् ।
भोगान्ते पुनरेवाऽसौ मेघमण्डलगो भवेत् ॥ २५॥
तत्र जलमयो भूत्वा पतेद् वृष्ट्या स भूमिषु ।
तत ओषधिगो भूत्वा भवेदन्नमयस्ततः ॥ २६॥
ततो वीर्यं समाश्रित्य गच्छेत् स जठरे स्त्रियः ।
तत्र तत्त्वानि तं दक्ष आविशन्ति न संशयः ॥ २७॥
क्षेत्रज्ञः संस्थितस्तत्र तत्त्वैः क्षेत्रं विनिर्ममे ।
विधिं तस्य प्रवक्ष्यामि गर्भोपनिषदि भवम् ॥ २८॥
तत्रैकदिवसेनैव स्त्रीवीर्ये रक्तसंश्रिते ।
तस्मिन् सम्मिलनं कृत्वा तदाकारो भवेन्नरः ॥ २९॥
ततस्त्रिदिवसैः सोऽपि फेनरूपो भवेन्नरः ।
बुहुदः पञ्चदिवसैः पेशी सप्तदिनैस्तथा ॥ ३०॥
ततश्चतुर्दशैः सोऽपि दिवसैः फुल्लतां गतः ।
पञ्चविंशतिभिस्तत्र मांसरूपो भवेत् स्वयम् ॥ ३१॥
मासेन कठिनत्वं स प्रगच्छेत्तत्र संस्थितः ।
द्विमासाभ्यां शिरो युक्तो भवेत्तत्र प्रजापते ॥ ३२॥
त्रिमासैः कण्ठसंयुक्तश्चतुर्मासैस्त्वचा युतः ।
पञ्चमासैर्भवेज्जन्तुरिन्द्रियैः संयुतः क्रमात् ॥ ३३॥
अवयवादिसंयुक्तो नखरोमसमन्वितः ।
भवेन् मुखेन संयुक्तो मासैः षड्भिर्न संशयः ॥ ३४॥
तत इन्द्रियसम्भूतं ज्ञानं भवेत् क्रमेण वै ।
षण्मासैः परिपूर्णैश्चाऽऽकृतिः पूर्णा भवेत् परा ॥ ३५॥
पूर्वकर्मानुसारेण यादृशी योनिराभवेत् ।
तादृशाकृतिसंयुक्त इन्द्रियैश्च समन्वितः ॥ ३६॥
सप्तमासैर्भवेज्जन्तुश्चेतनया समन्वितः ।
उदरे प्रचरेत् सोऽपि मातुर्दुःखसमन्वितः ॥ ३७॥
अवकाशविहीनः स पीडितो जन्तुभिः सदा ।
मूर्च्छां गच्छेत् पुनः संज्ञां कोमलोऽतीव मानवः ॥ ३८॥
अष्टमासैस्ततस्तत्र बुद्धियुक्तो भवेन्नरः ।
साङ्ख्ययोगपरो भूत्वा ध्यायेद्ब्रह्म सनातनम् ॥ ३९॥
अतिसङ्कोचभावेन पीडितो जन्तुभिस्तथा ।
मातुर्भक्ष्यान्नदोषैः स वेदनासंयुतो भवेत् ॥ ४०॥
गर्भदुःखं स विज्ञाय तन्निवृत्त्यर्थमादरात् ।
साङ्ख्ययोगपरो भूत्वा भजेत्तं गणनायकम् ॥ ४१॥
ततस्तत्र भवेत्तस्य ज्ञानं परमसौख्यदम् ।
तेनानन्तभवानां स दृष्ट्वा दुःखं निवृत्तिगः ॥ ४२॥
अनन्यमनसा देवं स्तुयात् स्तोत्रैर्महामतिः ।
गर्भवासप्रशान्त्यर्थं ब्रह्म भूयार्थमादरात् ॥ ४३॥
गर्भ उवाच ।
नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे ।
अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥ ४४॥
ज्येष्ठराजाय देवाय देवदेवेशमूर्तये ।
अनादये परेशाय चादिपूज्याय ते नमः ॥ ४५॥
सर्वपूज्याय सर्वेषां सर्वरूपाय ते नमः ।
सर्वादये परब्रह्मन् सर्वेशाय नमो नमः ॥ ४६॥
गजाकारस्वरूपाय गजाकारमयाय ते ।
गजमस्तकधाराय गजेशाय नमो नमः ॥ ४७॥
आदिमध्यान्तभावाय स्वानन्दपतये नमः ।
आदिमध्यान्तहीनाय त्वादिमध्यान्तगाय ते ॥ ४८॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
सिद्धिबुद्धिमयायैव ब्रह्मेशाय नमो नमः ॥ ४९॥
शिवाय शक्तये चैव विष्णवे भानुरूपिणे ।
मायिनां मायया नाथ मोहदाय नमो नमः ॥ ५०॥
किं स्तौमि त्वां गणाधीश यत्र वेदादयोऽपरे ।
योगिनः शान्तिमापन्ना अतस्त्वां प्रणमाम्यहम् ॥ ५१॥
रक्ष मां गर्भदुःखात्त्वं त्वामेव शरणागतम् ।
जन्ममृत्युविहीनं वै कुरुष्व ते पदप्रियम् ॥ ५२॥
एवं संस्तुतवन्तं तं नवमासादनन्तरम् ।
प्रसूतिजो महावायुर्बहिः कुर्यान्नरं क्षणात् ॥ ५३॥
वायुना चालितः सोऽपि मुमूर्च्छ दुःखसंयुतः ।
सङ्कीर्णाङ्गः पतेज्जन्तुर्धरण्यां योनिमार्गतः ॥ ५४॥
भवेत् स सावधानोऽत्र विस्मृतो ज्ञानमुत्तमम् ।
बालभावधरः कुर्याद्रोदनं धरणीतले ॥ ५५॥
फलहीनं भवेत् सर्वं गर्भागारकृतं महत् ।
ज्ञानादिकमतो भूमौ साधयेत् सर्वमञ्जसा ॥ ५६॥
न साधितं नरेणात्र कर्मभूमौ प्रजापते ।
ज्ञानादिकं तदा सोऽपि गर्भजं दुःखमश्नुते ॥ ५७॥
एवं कृष्णा गतिश्चैव कथिता ते विशेषतः ।
जन्ममृत्युकरी जन्तोः सुखदुःखप्रदायिनी ॥ ५८॥
इदं गर्भकृतं स्तोत्रं यः पठिष्यति मानवः ।
स भुक्त्वा सकलान् भोगानन्ते स्वानन्दगो भवेत् ॥ ५९॥
न कदाचिल्लभेत् सोऽपि गर्भवासं प्रजापते ।
अतो विशेषतो जन्तुर्निरन्तरमिदं जपेत् ॥ ६०॥
अधुना कथयिष्यामि ह्यन्यमर्थं सुखप्रदम् ।
शुक्लकृष्णगतिसंस्थं येन ज्ञानं तयोर्भवेत् ॥ ६१॥
भुक्तिमुक्तिप्रलोभार्थं नरः कुर्यान्निरन्तरम् ।
कर्म स्वधर्मसंयुक्तो नानादैवं स योगवित् ॥ ६२॥
उत्तरायणगे भानौ दिवसे वा मृतो भवेत् ।
स चाग्निलोकमासाद्य तपोयुक्तो भवेत् सदा ॥ ६३॥
तत्र भोगेप्सुतां ज्वाल्य गच्छेच्छक्तिं महामतिः ।
तत्राभिमानमृत्सृज्य गच्छेत् दिवं दिवाकरम् ॥ ६४॥
अतिध्यानेन संयुक्तस्तत्रात्मानं स चिन्तयेत् ।
अन्तरात्मानमुत्सृज्य गच्छेद्विकुण्ठमेव च ॥ ६५॥
तत्रानन्दं परित्यज्य शिवं गच्छेन्न संशयः ।
तत्र साक्षित्वमुत्सृज्य गच्छेत् स्वानन्दमञ्जसा ॥ ६६॥
तत्र गणेश्वरं दृष्ट्वा ब्रह्मीभूतो नरो भवेत् ।
शुक्लगतिप्रभावेण कथितं ते प्रजापते ॥ ६७॥
यदा दक्षिणगे भानौ रात्रौ वा स मृतो भवेत् ।
भुक्तिमुक्तिपरः सोऽपि गच्छेत् स्वर्गं ततो नरः ॥ ६८॥
नानास्वर्गफलं भुक्त्वा स्वकर्मनिर्मितं नरः ।
पुनः पतेद्विधे भूमौ तत्र मोक्षरुचिर्भवेत् ॥ ६९॥
ततः शुक्लां समाश्रित्य मोक्षं गच्छेत् स योगवित् ।
एवं जानीहि भो दक्ष गत्योर्मार्गं पुरातनम् ॥ ७०॥
यदैकदेवतां श्रित्वा तद्भक्तस्तत्परः सदा ।
उपासनाविधानेन स्वधर्मस्थो भजेत् स ताम् ॥ ७१॥
स मृतः स्वेष्टदेवस्य लोकं गच्छेन्न संशयः ।
तत्क्षणाच्चन्द्रसूर्याख्यौ मार्गौ नैव प्रकीर्तितौ ॥ ७२॥
तत्र भोगान् प्रभुञ्जानः स पतेदिह निश्चितम् ।
त्रिगुणात्ममया देवास्तेषां नाशे प्रजापते ॥ ७३॥
यदा गणेश्वरं सोऽपि भजेदत्रैव मानवः ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मीभूतो भविष्यति ॥ ७४॥
स्वानन्दो नाशहीनश्च सदा ब्रह्मसुखप्रदः ।
अतः स्वानन्दमाश्रित्य ब्रह्मीभूतो भविष्यति ॥ ७५॥
मरणे दाघहीनश्चेत्तेजस्तत्त्वं समाश्रितः ।
अथवा धूम्रतत्त्वं स शुक्लकृष्णगतिश्रितः ॥ ७६॥
पूर्ववत् सर्वमाख्यातं तस्य सर्वं प्रजापते ।
एवं विस्तरतो गत्योः कथितं ते प्रजापते ॥ ७७॥
अतो गणेश्वरं दक्ष समाश्रय हितप्रदम् ।
योगक्षेमं स ते कुर्यादनन्यचेतसः सदा ॥ ७८॥
न शुक्ला नैव कृष्णा ते भविष्यति गतिः कदा ।
ब्रह्मभूयमयं भावं प्राप्स्यसे नात्र संशयः ॥ ७९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन शुक्लकृष्णगतियोगो नाम द्वादशोऽध्यायः ॥ ९.१२
॥ इति योगगीतासूपनिषत्सु सुगमासु अष्टमोऽध्यायः ॥ ९(योगगीता).८
९. क्षेत्रक्षेत्रज्ञज्ञानयोगो नाम त्नवमोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.१३ क्षेत्रक्षेत्रज्ञज्ञानयोगो नाम त्रयोदशोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
क्षेत्रं वद महाभाग क्षेत्रज्ञं च तयोः परम् ।
सर्वगं ब्रह्म यत् प्रोक्तं येन ज्ञानं तयोर्भवेत् ॥ १॥
मुद्गल उवाच ।
देहं क्षेत्रमयं विद्धि देही क्षेत्रज्ञमञ्जसा ।
तयोर्योगे महद्ब्रह्म स्वत उत्थानसंज्ञितम् ॥ २॥
भूतानि पञ्चतन्मात्राः पञ्च ज्ञानेन्द्रियाणि तु ।
कर्मेन्द्रियाणि पञ्चैव वायवः पञ्च देवताः ॥ ३॥
इन्द्रियाणां दशैवाऽपि द्वेष इच्छा धृतिस्तथा ।
अव्यक्तं चेतना दुःखं सुखं मोहनमेव च ॥ ४॥
चित्तं बुद्धिः स्थूलसूक्ष्मे कारणं च तुरीयकम् ।
एतेषां योगभावे यत् क्षेत्रं तत् कथितं बुधैः ॥ ५॥
सदैकभावरूपश्च भेदैः संवर्जितः परः ।
क्षेत्रज्ञः क्षेत्रमास्थाय सर्वान्तर्यामितां दधे ॥ ६॥
तयोर्योगे परं ब्रह्म दृश्यादृश्यविवर्जितम् ।
दृश्यादृश्यमयं पूर्णं बोधरूपं प्रजापते ॥ ७॥
स्थूलसूक्ष्मसमात्माख्यैर्भावैर्माया विशेषतः ।
क्षेत्रज्ञं मोह्यस्वाधीनं करोति नित्यमादरात् ॥ ८॥
चतुर्भेदैर्विशेषेण मोहितोऽत्यन्तमेव सः ।
अहं देहस्वरूपाख्यो मन्यते सततं मुधा ॥ ९॥
ततः क्षेत्रस्य भोगार्थं नानाकर्मपरायणः ।
त्रिगुणेषु भ्रमेणैव भ्रमतेऽहम्ममात्मकः ॥ १०॥
ततस्तमोगुणं त्यक्त्वा राजसं धारयेन्नरः ।
राजसं च ततस्त्यक्त्वा सात्त्विकः सम्भवेत् क्रमात् ॥ ११॥
ततस्तुरीयमाश्रित्य गणेशं स भजेत् परम् ।
सर्वगं पञ्चमं साध्यं ब्रह्मीभूतो भवेन्नरः ॥ १२॥
इह सौख्यप्रदं यच्च कर्म सञ्जायते सदा ।
पापरूपमयं तेन ज्ञायते न कदाचन ॥ १३॥
देहभोगकरं पूर्णं शिश्नोदरपरायणम् ।
तामसं तद्विजानीहि चान्ते नरकदं भवेत् ॥ १४॥
तत्र तामससंयुक्ता भुक्त्वा दुःखं महाद्भुतम् ।
पुना रोगादिसंयुक्ता भवन्ति नीचयोनिषु ॥ १५॥
काणमूकादिदोषैस्ते संयुक्ताः पापचेतसः ।
दरिद्रादिसमायुक्ता भोगैर्हीना भवन्त्यपि ॥ १६॥
पुनः पापसमाचारा भवन्ति यदि मानवाः ।
अन्ते यमस्य गेहे ते नरकस्थाः पुनः पुनः ॥ १७॥
अतस्तमोगुणस्थं स्वभावं त्यक्त्वा च मानवाः ।
धर्मार्थधृतिसंयुक्ता यतन्ते दैवयोगतः ॥ १८॥
विद्धि राजसगं भावं नरा भुवि सकामकम् ।
सततं कर्म कुर्वन्ति भोगदं धर्मसंयुताः ॥ १९॥
वासनासंयुतं कर्म स्वधर्मस्थं भवेत्किल ।
तदेव राजसं विद्धि नानाभावगतं परम् ॥ २०॥
राजसाः सर्वभोगं तु भुक्त्वा पुनः पतन्त्यपि ।
इह ये यादृशं कर्म कुर्वते तादृशं फलम् ॥ २१॥
अथवा स्वल्पभावेन कृतं राजससम्भवम् ।
कर्म तेन नरा भूमौ भवन्ते तत्क्षणात् पुनः ॥ २२॥
अथवा विविधास्ते ते योनिषु सम्भवन्त्यपि ।
नीचोच्चासु विशेषेण जन्ममृत्युपरायणाः ॥ २३॥
राजसानां प्रजानाथ नरको नैव विद्यते ।
स्थावरं जङ्गमं श्रित्वा भवन्ते जन्मसंयुताः ॥ २४॥
तत्र दुःखं सुखं नाना भुञ्जते नात्र संशयः ।
एवं राजसगं सर्वं कथितं ते समासतः ॥ २५॥
अतः परं प्रवक्ष्यामि सात्विकं कामवर्जितम् ।
स्वधर्मस्था जना विद्धि तत्कुर्वन्ति निरन्तरम् ॥ २६॥
ब्रह्मार्पणतया यद्यद्भवति कर्म धर्मजम् ।
नानाविधं परं तत्तत् स्वात्त्विकं विद्धि मानद ॥ २७॥
तेन शुक्लगतिं श्रित्य गच्छन्ति मोक्षमञ्जसा ।
अतः सत्त्वगुणेनैव युक्ता भवन्ति मानवाः ॥ २८॥
अतः परं तुरीयं ते कथयामि समासतः ।
रसहीनस्वभावेन चित्तं देहसमन्वितम् ॥ २९॥
तदा भवति चेत्तुर्यं कर्म सञ्जायते परम् ।
नानाविधं जगत् सर्वं ब्रह्माकारं न संशयः ॥ ३०॥
यद्यत्तेन कृतं कर्म तदेव ब्रह्मदं भवेत् ।
स्तुतिनिन्दादिकं किञ्चिन्नैव तत्र प्रकीर्तितम् ॥ ३१॥
देवभक्तादिकं दक्ष नैव तुर्ये प्रतिष्ठितम् ।
ब्रह्मणि समभावेन वर्तते सर्वदा स्वयम् ॥ ३२॥
अन्तरे सर्वभावेषु पश्यति विश्वरूपिणम् ।
तदा तुरीयगं कर्म क्वचिद्भवति नान्यथा ॥ ३३॥
एवं सर्वसमत्वेन यद्भवेत्तत्तुरीयकम् ।
कर्म प्रारब्धयोगेन ब्रह्मणो रसभावतः ॥ ३४॥
अन्तेऽस्मितामये तेन लीनो भवति मानवः ।
महाकारणभावेन भवेत् त्रिगुणचालकः ॥ ३५॥
अतः परमहं कर्म कैवल्यं कथयामि ते ।
निषेधविधिहीनं यद्भवते कर्म स्वेच्छया ॥ ३६॥
ब्रह्मभूयमयं विद्धि पञ्चमं योगिसम्मतम् ।
कर्ता देहो न सन्देहस्तुरीयं प्रेरकं मतम् ॥ ३७॥
कुतस्तत्र व्यवस्थाख्यं तुरीयं वर्तते परे ।
चतुर्विधं येन सृष्टमिदं सर्वं स्वलीलया ॥ ३८॥
स एव कर्तृभावेन कारयितृप्रभावतः ।
तत्र तिष्ठति कोऽहं तु कुतो ब्रह्मविचारतः ॥ ३९॥
नाहं नरो न वै ब्रह्म मया साध्यं निरन्तरम् ।
भ्रान्त्या सर्वं न सन्देहो दृश्यते मायया मयि ॥ ४०॥
स्वेच्छया खेलति ब्रह्म चतुर्भेदमयं परम् ।
शुभाशुभं तस्य नास्ति वृथाऽहन्तां त्यजेन्नरः ॥ ४१॥
अनेनानुभवेनैव शान्त्या संवर्तते नरः ।
रसं सर्वत्र सन्त्यज्य ब्रह्मणो रसधारकः ॥ ४२॥
एवं चतुर्विधे भावे स्थितं देहिस्वरूपकम् ।
देहभ्रान्तिविहीनं तत्कृत्वा सोऽहम्परो भवेत् ॥ ४३॥
एवं क्रमेण योगीन्द्रो भवेद्योगान्नरोत्तमः ।
कथितं विस्तरात् सर्वं क्षेत्रक्षेत्रज्ञसाधनम् ॥ ४४॥
अथ वर्णाश्रमाचारं शृणु सर्वसुखप्रदम् ।
येन धर्मार्थकामांश्च लभेन् मोक्षं नरोत्तमः ॥ ४५॥
चित्तेन्द्रियाणि वश्यानि क्षमार्जवतपांसि च ।
शौचं श्रुतिस्मृतीनां वै ज्ञानं यत्र प्रतिष्ठति ॥ ४६॥
वेदाधारविहीनं यन्न करोति कदाचन ।
सदा ब्रह्मपरो यस्माद्ब्राह्मणः स च संस्मृतः ॥ ४७॥
शौर्यं दाक्ष्यं तथा दार्ढ्यं युद्धे सम्मुखता सदा ।
शरण्यरक्षणं नित्यं प्रभुत्वं दण्डधारणम् ॥ ४८॥
धृतिः क्षात्रं सदा तेजश्चित्तमौदार्यसंयुतम् ।
सुनीत्या पालनं पञ्च कर्मयुक्तः स बाहुजः ॥ ४९॥
क्रयविक्रयकौ नित्यं वस्तूनां भूमिकर्षणम् ।
गवां पालनकं त्रेधा कर्मयुक्तः स वैश्यकः ॥ ५०॥
त्रिवर्णसेवनं दानं नाममन्त्रं जपेत् परम् ।
पुराणश्रवणं शौद्रं कर्म पौराणिकं द्विजात् ॥ ५१॥
अन्त्यजानां पुराणोक्तं कर्म विप्रमुखोद्गतम् ।
नैव शूद्रसमं चान्यदस्पर्शत्वं द्विजादिषु ॥ ५२॥
कृतोपवीतको विप्रः क्षत्रियो वैश्य एव यः ।
वेदादिकं समभ्यस्यन् ब्रह्मचर्ययुतो भवेत् ॥ ५३॥
भिक्षाशनो भवेन्नित्यं गुरोराज्ञावशानुगः ।
गायत्रीं सञ्जपेन्नित्यं त्रिकालेषु च रोमधृक् ॥ ५४॥
सायं प्रातश्च जुहुयात् हविर्नित्यं जितेन्द्रियः ।
षोडशाब्दं द्वादशाब्दं ब्रह्मचर्यं चरेत् परम् ॥ ५५॥
पञ्चयज्ञपरो नित्यं नैमित्तं स समाचरेत् ।
कृतदारः प्रजार्थं स ऋतुगामी भवेद् गृही ॥ ५६॥
स्त्रीसङ्गं सम्परित्यज्य स्त्रिया युक्तो वसेद्वनम् ।
वन्येन सर्वकर्माणि कुर्यान्नित्यं तपः परम् ॥ ५७॥
नखलोमयुतश्चैव न ग्रामेषु प्रवेशयेत् ।
कुर्यादेवं वानप्रस्थो वायुभक्ष्यादिकं चरेत् ॥ ५८॥
मनसाऽपि स्मरेन्नैव स्त्रीसङ्गं न्याससंयुतः ।
चित्तनिग्रहसंयुक्तो भिक्षाशी सततं नरः ॥ ५९॥
कपर्दिकादिकं किञ्चिन्न स्पृशेत् स कदाचन ।
ब्रह्मणि ब्रह्मभूतत्वं तदर्थं श्रमयेत् सदा ॥ ६०॥
साक्षिवद् देहसंस्थोऽपि मौनादिदण्डधारकः ।
अथवा दण्डहीनः स ज्ञानदण्डधरो भवेत् ॥ ६१॥
एवं संन्यासकं कृत्वा सदा तिष्ठेद्यतात्मवान् ।
मुक्तिमार्गमयं शास्त्रं स्पृशेन्नान्यद्विनिश्चितम् ॥ ६२॥
वर्णाश्रमविहीनश्चेद्योगी पञ्चमगः स्मृतः ।
विधिनिषेधहीनः स यथा विनायको भवेत् ॥ ६३॥
एतत्ते सर्वमाख्यातं स्वधर्माचरणादिकम् ।
येनैव प्राप्यते योगो नरेण ब्रह्मदायकः ॥ ६४॥
दक्ष उवाच ।
धर्मार्थकाममोक्षाणां स्वरूपं वद मानद ।
ब्रह्मीभूतस्य भिन्नं मे भ्रमनाशकरं परम् ॥ ६५॥
केचिद्धर्मं महाश्रेष्ठमर्थं कामं तु मोक्षकम् ।
परात्परं वदन्त्येव ब्रह्मभूयं तथाऽपरे ॥ ६६॥
मुद्गल उवाच ।
धर्मेण ब्रह्मलोकश्च लभ्यते मानवैः परः ।
ब्रह्मा सर्वसमानश्च स्वधर्माख्यः प्रकीर्तितः ॥ ६७॥
अर्थः समर्थभावाख्य ईशलोकप्रदायकः ।
ईश्वरान्न समर्थोऽन्यः पश्य ब्रह्माण्डमण्डले ॥ ६८॥
कामो भोगात्मकः प्रोक्तो विष्णुलोकप्रदायकः ।
स लक्ष्मीपतिराख्यातो नानाकामप्रदः प्रभुः ॥ ६९॥
मुक्तिः सौरात्मिका प्रोक्ता सूर्यः पुरुष उच्यते ।
शुक्लमार्गधरः पूर्णः साक्षात् साक्षी विभावसुः ॥ ७०॥
ब्रह्मीभूतमयः प्रोक्तः स्वानन्दः पूर्णयोगदः ।
वदन्ति न परं लोकं स्वानन्दाद्वेदवादिनः ॥ ७१॥
अन्यच्छृणु प्रजानाथ पञ्चैते योगदायकाः ।
योगार्थवाचकाः सर्वे तत्र भेदं वदाम्यहम् ॥ ७२॥
योगधर्मेण योगश्च लभ्यते मानवैः परः ।
न योगादपरः श्रेष्ठस्तेनार्थोऽयं प्रकीर्त्यते ॥ ७३॥
योगकामेन योगोऽयं लभ्यते सर्वभावतः ।
मायाया वरणं त्यक्त्वा मोक्षयोगः प्रकीर्त्यते ॥ ७४॥
ब्रह्म ब्रह्मणि वेदेषु कथितं नात्र संशयः ।
तत्र योगेन योगी यो ब्रह्मीभूतः स वै स्मृतः ॥ ७५॥
धर्मार्थकाममोक्षाख्या योगशास्त्रे विशेषतः ।
भिन्ना मायामयाः प्रोक्ता ब्रह्मीभूतस्तु पञ्चमः ॥ ७६॥
ब्रह्मणि ब्रह्मभूतो यो योगी एव स उच्यते ।
न भिन्नः सर्वथा तस्माद्ब्रह्मणो ब्रह्मगः परः ॥ ७७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन क्षेत्रक्षेत्रज्ञज्ञानयोगो नाम त्रयोदशोऽध्यायः ॥ ९.१३
॥ इति योगगीतासूपनिषत्सु सुगमासु नवमोऽध्यायः ॥ ९(योगगीता).९
१०. नानामतैक्ययोगो नाम दशमोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.१४ नानामतैक्ययोगो नाम चतुर्दशोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
वक्ष्यामि भावनां चैकां वेदशास्त्रार्थसंयुताम् ।
नानामतभयं त्यक्त्वा तया योगी भवेन्नरः ॥ १॥
चैतन्यं न्यायशास्त्रज्ञा वदन्ति ब्रह्ममुख्यकम् ।
चैतन्येन युताः सर्वे स्वस्वकार्यपरायणाः ॥ २॥
सर्वप्रकाशकत्वात्तच्चैतन्यं ब्रह्मसंज्ञितम् ।
चैतन्येन यदा त्यक्तं तदा नाशमुपैष्यति ॥ ३॥
पञ्चचित्तात्मयोगेन चैतन्यं ब्रह्मसंज्ञितम् ।
भवत्यत्र न सन्देहः शब्दार्थानामनेकतः ॥ ४॥
तार्किकाः प्रवदन्त्येव सर्वाभेदं परं मतम् ।
ब्रह्मवेदान्तवादेषु विद्यते शास्त्रसम्मतौ ॥ ५॥
पञ्चचित्तमया भेदा अभेदा योगिना कृताः ।
योग एकार्थभावाख्यो भवत्यर्थप्रमाणतः ॥ ६॥
धर्मशास्त्रविदः सर्वे बोधान्नैव परं पदम् ।
ब्रह्म बोधमयं मुख्यं भावाभावविवर्जितम् ॥ ७॥
पञ्चचित्तगतो धर्मस्त्यक्तव्यस्तेन योगकः ।
धर्मो भवेन्न सन्देहो ब्रह्मधर्मधरः प्रभुः ॥ ८॥
साङ्ख्या वदन्ति साङ्ख्यं यद्ब्रह्म सङ्ख्याविवर्जितम् ।
विबोधान्न परं ब्रह्म खेलहीनप्रभावतः ॥ ९॥
तत्र पञ्चविधं चित्तं परं योगेन सङ्ख्यया ।
हीनं तदेव भवति योगाख्यं शब्दमानतः ॥ १०॥
मीमांसका वदन्त्येव स्वसंवेद्यं परं मतम् ।
कारणं ब्रह्म तत्रान्यन्नास्ति ब्रह्मणि संस्थितम् ॥ ११॥
पञ्चचित्तं परित्यज्य ब्रह्मरूपं करोति तत् ।
मीमांसया स्वयं योगी योगवाच्यं भवेत् परम् ॥ १२॥
एवं नानामतैर्युक्ता वदन्ति शास्त्रभेदतः ।
ब्रह्म नानाविधं दक्ष तदेवं योगगं भवेत् ॥ १३॥
शक्तिर्ब्रह्मेति शाक्ता वै ते वदन्ति न तत्परम् ।
संयोगो द्वन्द्वयोर्यत्र तदेवं योगगं भवेत् ॥ १४॥
शक्तिः पञ्चमचित्तङ्गा सा ब्रह्मणि समागता ।
परिगृह्य निरोधाख्यं चित्तं देवी ततः स्मृता ॥ १५॥
सौरं ब्रह्मेति सौराश्च वदन्ति तु परात्परम् ।
तस्मात्परं न विद्येत सर्वाधारप्रमाणतः ॥ १६॥
भेदात्मकं स सञ्जीव्य नित्यं तिष्ठति चादरात् ।
तेन योगमयः सूर्यो भवत्यत्र न संशयः ॥ १७॥
वदन्ति विष्णुर्ब्रह्मेति मुख्यं यद्वैष्णवा जनाः ।
तस्मात् परं पदं नास्ति सदानन्दप्रमाणतः ॥ १८॥
चित्तं यत् पञ्चमं तत्र मोहं त्यक्त्वा तदात्मकम् ।
ब्रह्मयोगे भवेद्योग आनन्दो नात्र संशयः ॥ १९॥
शैवाः शैवं परं ब्रह्म वदन्ति मुख्यभावतः ।
वेदे तस्मात् परं नास्ति किञ्चिन् मोहविहीनकम् ॥ २०॥
निरोधं त्रिविधं दक्ष पराधीनं न संशयः ।
तत्रस्थं योगरूपाख्यं स्वाधीनं योगगं भवेत् ॥ २१॥
एवं नानामतैर्युक्ता स्वस्वदेवपरायणाः ।
वदन्ति तत् प्रमाणं वै शब्दानामर्थभावतः ॥ २२॥
अनेकार्थमयाः शब्दास्तेषु किं किं न सम्भवेत् ।
सर्वे योगार्थवाच्या वै जायन्ते योगिनः क्रमात् ॥ २३॥
अन्नप्राणादिकाः शब्दा एवं ब्रह्मप्रवाचकाः ।
ते सर्वे योगदा दक्ष भवन्ति ब्रह्मधारणात् ॥ २४॥
वेदान्तमथ वक्ष्यामि सर्वमान्यं विशेषतः ।
शास्त्राणि च तदङ्गानि तत्प्रमाणानि सर्वदा ॥ २५॥
यः सर्वं सर्वभावेषु युतो जानाति मायया ।
मायाहीनप्रभावेण योगस्तिष्ठति नित्यदा ॥ २६॥
तदेव ब्रह्ममुख्यं तु सर्वेभ्यो नात्र संशयः ।
ब्रह्मभ्य ऋग्जगादैव प्रज्ञानं योगगं स्मृतम् ॥ २७॥
पञ्चचित्तभवं सर्वं यो जानाति तदेव सः ।
योगस्तद्गतभावैः संवर्जितो भवति प्रभुः ॥ २८॥
अहं ब्रह्मेति यद्ब्रह्म सर्वदोषविवर्जितम् ।
सदैवं यजुषा प्रोक्तं मुख्यं वै परतः परम् ॥ २९॥
पञ्चचित्तभवा भेदास्तेष्वेवं भेदवर्जितम् ।
योगं विद्धि प्रजानाथ योगशास्त्रप्रमाणतः ॥ ३०॥
मायामोहयुतं यच्च मायामोहविवर्जितम् ।
तयोर्योगे परं ब्रह्म साम्ना सङ्कथितं किल ॥ ३१॥
मायामोहयुतं ब्रह्म स्वानन्दाख्यं ततः परम् ।
अयोगं मायया हीनं तयोर्योगे तु योगगम् ॥ ३२॥
ब्रह्म ब्रह्मणि संस्थं यन्मनोवाणीमयं न तत् ।
मनोवाणीविहीनं नाथर्ववेदो जगाद ह ॥ ३३॥
मनोवाणीमयः प्रोक्तः सम्प्रज्ञातो न संशयः ।
असम्प्रज्ञातकस्ताभ्यां हीनो योगस्तयोः परः ॥ ३४॥
एवं वेदार्थयुक्तानि महावाक्यानि मानद ।
योगाख्यानि विशेषेण जानीया योगसेवया ॥ ३५॥
कर्मादयः समाख्याताः शब्दा ब्रह्ममया बुधैः ।
भवन्ति योगसंज्ञस्थास्ते सर्वे योगिनां मते ॥ ३६॥
सर्वशास्त्रमतैक्यं ते कथितं शब्दधारणात् ।
तज्ज्ञात्वा मोहहीनः स सदा भवति मानवः ॥ ३७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन नानामतैक्ययोगो नाम चतुर्दशोऽध्यायः ॥ ९.१४
॥ इति योगगीतासूपनिषत्सु सुगमासु दशमोऽध्यायः ॥ ९(योगगीता).१०
११. गणेशरहस्ययोगो नाम एकादशोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.१५ गणेशरहस्ययोगो नाम पञ्चदशोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अथो लयं प्रवक्ष्यामि येन चित्तं लयं व्रजेत् ।
ब्रह्मण्यास्थाय योगं च ज्ञात्वा योगं प्रजापते ॥ १॥
लयश्चतुर्विधः प्रोक्तो नित्यो नैमित्तिकः परः ।
तृतीयः प्राकृतो विप्रैः सारस्वतश्चतुर्थकः ॥ २॥
कर्माकर्मविकर्माख्यो नित्यः प्रोक्तो बुधैः पुरा ।
कर्मानुकूलभावेन जनानां जननादिकम् ॥ ३॥
क्षणक्रमादिमारभ्यायुषामन्तः समास्थितः ।
गर्भाधानाद्यवस्थानां प्रकाशश्च प्रकथ्यते ॥ ४॥
ब्रह्मणो दिवसान्ते स कुण्ठितो नात्र संशयः ।
नैमित्तिकलयेनैव त्रिलोकलयकारिणा ॥ ५॥
शुभाशुभयुताः सर्वे जन्तवो लयमाययुः ।
शुभाशुभफलैर्हीना बभूवुः कर्मकुण्ठनात् ॥ ६॥
स्वर्गमण्डलपर्यन्तं त्रैलोक्यं प्रलयं गतम् ।
तावता स प्रमाणेन नित्यः सङ्कथितो बुधैः ॥ ७॥
अथो नैमित्तिकं दक्ष कथयामि समासतः ।
चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥ ८॥
नैमित्तिको दिनान्तो यस्तदाऽयं वर्तते लयः ।
तेन नैमित्तिकः प्रोक्तो नाम्ना सर्वार्थकोविदैः ॥ ९॥
अधुना प्राकृतं वच्मि व्यवस्थाभिर्युतं लयम् ।
महाकारणगं चेदं स प्राकृत उदाहृतः ॥ १०॥
तत्त्वानामेकभावेऽयं स्थूलसूक्ष्मसमात्मनाम् ।
प्राकृतः प्रकृतिस्थत्वात् कथ्यते विबुधैः परः ॥ ११॥
सारस्वतं परं पूर्णं शृणु योगप्रदं प्रभो ।
निरोधचित्तभावेन पञ्चचित्तलयात्मकम् ॥ १२॥
मनोवाणीमयं सर्वं विश्वं नानास्वभावगम् ।
मनोवाणीविहीनं त्वसम्प्रज्ञातं विदुर्बुधाः ॥ १३॥
वाण्या सङ्कथ्यते भावो मनस्तत्र प्रगच्छति ।
नानापदार्थभिन्नत्वात् सर्वेषां प्राणिनां प्रभो ॥ १४॥
वाण्या वाणीविहीनं यत् कथितं ब्रह्म हृद्गतम् ।
चित्तं समाधिना तत्र सदा तिष्ठति तादृशम् ॥ १५॥
वाणी सा द्विविधा प्रोक्ता ब्रह्माकारा जगन्मयी ।
तयोर्नाशे लयः प्रोक्तः परः सारस्वतो बुधैः ॥ १६॥
सरस्वतीलयं यत्र योगभावात् प्रगच्छति ।
महावाक्यादिसंयुक्ता स सारस्वत उच्यते ॥ १७॥
सारस्वतलयेनैव चित्तं पञ्चविधं प्रभो ।
चिन्तामणौ लयं कृत्वा तिष्ठ त्वं योगिसम्मतः ॥ १८॥
एतत् सर्वं समाख्यातं योगदं ते समासतः ।
गोपयैनं महायोगं ततो योगी भविष्यसि ॥ १९॥
मा योगं कथयस्व त्वमिमं कस्मै प्रजापते ।
पात्रहीनप्रभावेण भ्रंशदस्ते भविष्यति ॥ २०॥
वासनाहीनभावेन गणेशज्ञानलालसान् ।
तान् बोधय विशेषेण तदाऽयं शुभदो भवेत् ॥ २१॥
अत्र ते कारणं दक्ष कथयामि समासतः ।
तस्य श्रवणमात्रेण संशयस्तु लयं व्रजेत् ॥ २२॥
योगाकारो गणेशानो यदा खेलपरोऽभवत् ।
तदा तं वचनं माये सिद्धिबुद्धी समूचतुः ॥ २३॥
सिद्धिबुद्धी ऊचतुः ।
यदि खेलं करोषि त्वमावाभ्यां गणनायक ।
आवां त्वां छादयिष्यावो नानाभावप्रदर्शनात् ॥ २४॥
वेदादिभिस्तत्र वाणीमयी गाथा गजानन ।
स्वरूपं ते यथातथ्यं कथयिष्यति मानवान् ॥ २५॥
तेन त्वां ब्रह्मणां नाथं ज्ञास्यन्ते मानवादयः ।
त्वदुपासनमात्रेण भवेयुर्ब्रह्मभूतकाः ॥ २६॥
न त्वां छादयितुं शक्ते वाणीस्थं गणनायक ।
अतस्तदर्थमानन्दात् कुरु किञ्चिद्गजानन ॥ २७॥
एवं तयोर्वचः श्रुत्वा ते जगाद गजाननः ।
मा खेदं कुरुतं देव्यौ वाणीं सम्मोहयाम्यहम् ॥ २८॥
मोहिता सा मया वाणी वर्णनं भ्रान्तिदं च मे ।
करिष्यति प्रगूढार्थयुतं सत्यार्थभाषितम् ॥ २९॥
गूढार्थं नैव देवेशा योगीशास्तत्त्वदर्शिनः ।
ज्ञास्यन्ति तेन मां सर्वे न भजिष्यन्ति भावतः ॥ ३०॥
सिद्धिबुद्धियुतं ब्रह्म वाणी प्रकटयिष्यति ।
न गणेशमयीं गाथां कथयिष्यति योगदाम् ॥ ३१॥
सिद्धिबुद्धिमयं सर्वं जगद्ब्रह्म प्रसेव्य यः ।
यदा शुद्धो नरो भावी तदा मां ज्ञास्यति प्रिये ॥ ३२॥
परं सिद्धियुतं ब्रह्म कथितं सिद्धिदायकम् ।
स एव गणनाथोऽयं पतिः सिद्धेः प्रमाणतः ॥ ३३॥
परं बुद्धियुतं ब्रह्म परं बुद्धेः प्रकथ्यते ।
गणेश एव सम्प्रोक्तः पतिर्बुद्धेः प्रमाणतः ॥ ३४॥
एवं त्रैविध्यगं वाणी वदिष्यति सदा तु माम् ।
सिद्धिदं बुद्धिगं ब्रह्म शास्त्रेष्वेतत् त्रयं मतम् ॥ ३५॥
एवमुक्त्वा गणेशानः पुनस्तूष्णीं बभूव तम् ।
उवाच प्रणनामादौ भक्तिः परमदुःखिता ॥ ३६॥
भक्तिरुवाच ।
वरो दत्तस्त्वया नाथ सिद्ध्यै बुद्ध्यै गजानन ।
तेन भक्तिविहीनाश्च भविष्यन्ति सदा नराः ॥ ३७॥
अतोऽहं दुःखसंयुक्ता चरिष्यामि निरन्तरम् ।
मां पालय गणाध्यक्ष भक्तियुक्तान् जनान् कुरु ॥ ३८॥
एवमुक्तो गणाध्यक्षस्तामुवाच सुदुःखिताम् ।
भक्तिं भक्तिप्रियः पूर्णः स्मयमानः प्रजापते ॥ ३९॥
श्रीगणेश उवाच ।
मा शोकं कुरु कल्याणि नरा मद्भक्तिकारकाः ।
देवनागासुराद्याश्च भविष्यन्ति न संशयः ॥ ४०॥
नानादेवपरा ये तु भक्त्या जन्मनि जन्मनि ।
सन्तुष्टा अमरास्तेभ्यो दास्यन्त्यग्निरुचिं मुदा ॥ ४१॥
ततस्तेऽग्निं समाराध्य भक्तियुक्ता निरन्तरम् ।
तुष्टं तं वै करिष्यन्ति नानायज्ञपरायणाः ॥ ४२॥
ततस्तस्य कृपायोगात् देवीभक्तियुता नराः ।
भविष्यन्ति च ते सर्वे तां भजिष्यन्ति संयताः ॥ ४३॥
एवं बहौ गते काले सन्तुष्टा सा प्रदास्यति ।
तेभ्यः सौरीं महाभक्तिं भजिष्यन्ति तया रविम् ॥ ४४॥
ततो बहौ गते काले सूर्यस्तोषसमन्वितः ।
उग्रां दास्यति भक्तिं तु वैष्णवीं तेभ्य आदरात् ॥ ४५॥
तया युक्ता भजिष्यन्ति विष्णुं भावसमन्विताः ।
नरास्ततः स सन्तुष्टो बहुकाले भविष्यति ॥ ४६॥
तुष्टो विष्णुः स्वयं तेभ्यो दाता स्याद्भक्तिमुत्तमाम् ।
शैवीं तया ततस्ते तं भजिष्यन्ति सदाशिवम् ॥ ४७॥
ततो बहौ गते काले तुष्टः शम्भुः प्रदास्यति ।
भक्तिं गाणेश्वरीं तेभ्यो भजिष्यन्ति तया च माम् ॥ ४८॥
नराः शान्तिं समालभ्य मत्तो योगपरायणाः ।
ब्रह्मीभूता भविष्यन्ति भजिष्यन्ति तथाऽपि ते ॥ ४९॥
एवं क्रमेण मद्भक्ता भविष्यन्ति नरादयः ।
त्वद्युक्ता मां भजिष्यन्ति तेषां वश्यो भवाम्यहम् ॥ ५०॥
न भक्ते ते समं मे वै प्रियं किञ्चिद्भविष्यति ।
यत्र भक्तिर्गता तत्र यथा स्थास्यामि किङ्करः ॥ ५१॥
स्वानन्दं लक्षलाभौ च सिद्धिं बुद्धिं मदीयकम् ।
सर्वं तेभ्यः प्रदास्यामि भक्तेभ्यो नात्र संशयः ॥ ५२॥
अयं मदीयदेहश्च भक्त्यधीनो भविष्यति ।
भक्ताग्रे भक्तरूपेण सदा स्थास्यामि दासवत् ॥ ५३॥
कर्मभ्यश्चाधिकं भक्ते तपः परमदुश्चरम् ।
तपोभ्यश्चाधिकं ज्ञानं निःसङ्गपददायकम् ॥ ५४॥
ज्ञानाद्योगः समाख्यातोऽधिकः शान्तिप्रदायकः ।
तस्माच्च त्वं महाभक्ते भविष्यस्यधिका प्रिया ॥ ५५॥
भक्तेः परं न किञ्चिन् मे ह्यधिकं शास्त्रसम्मतम् ।
भविष्यति महाभागे मा चिन्तां कुरु सर्वथा ॥ ५६॥
अन्यद्वाणी मदीयं यद् गूढं रूपं वदिष्यति ।
तदर्थं ते प्रियं भक्ते करोमि शृणु मे वचः ॥ ५७॥
मदीयभुजसंस्थोऽयं मुद्गलः सर्वदर्पहा ।
स एव ब्राह्मणो भूत्वा चरिष्यति निरन्तरम् ॥ ५८॥
कृतं तेन मदीयं वै पुराणं वेदबृंहितम् ।
गूढार्थद्योतनं भावि सर्वेभ्यो भक्तिदायकम् ॥ ५९॥
स्वरूपं तत्र मे भक्ते प्रकटं पश्यतां नृणाम् ।
शृण्वतां तत्तदा पूर्णं भविष्यति न संशयः ॥ ६०॥
तथापि दुर्लभा भक्तिर्मदीया त्वं भविष्यसि ।
अतोऽल्पज्ञा न मां देवि भजिष्यन्ति कदाचन ॥ ६१॥
विघ्नं मौद्गलशास्त्रेऽहं करिष्यामि भ्रमप्रदम् ।
अश्रद्धं तेन नष्टं तद्भविष्यति कदा कदा ॥ ६२॥
तव भावस्य रक्षार्थं मौद्गलं निर्मितं मया ।
अतः परं महाभक्ते वद किं ते करोम्यहम् ॥ ६३॥
एवं तस्य वचः श्रुत्वा हर्षिता सा ननाम तम् ।
गणेशं भावगम्भीरा न किञ्चित् पुनरब्रवीत् ॥ ६४॥
एतत्ते कथितं दक्ष गुह्यं विघ्नेश्वरस्य यत् ।
अतो गुप्तं प्रकर्षेण शास्त्रं कुरु मदीयकम् ॥ ६५॥
त्वं दक्षः सर्वभावेषु दक्षाद्दक्षो न विद्यते ।
अतस्तुभ्यं मया सर्वं कथितं शास्त्रमुत्तमम् ॥ ६६॥
हृदिस्थेन गणेशेन प्रेरितोऽहं प्रजापते ।
तदाज्ञया हृदिस्थं मे कथितं शास्त्रमुत्तमम् ॥ ६७॥
अनेन विधिना दक्ष भज त्वं गणनायकम् ।
तेनेप्सितं समासाद्य गाणपत्यो भविष्यसि ॥ ६८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन गणेशरहस्ययोगो नाम पञ्चदशोऽध्यायः ॥ ९.१५
॥ इति योगगीतासूपनिषत्सु सुगमासु एकादशोऽध्यायः ॥ ९(योगगीता).११
१२. भक्तिरहस्यवर्णनयोगो द्वादशोऽध्यायः
(मुद्गलपुराणे नवमखण्डे ९.१६ भक्तिरहस्यवर्णनयोगो नाम षोडशोऽध्यायः)
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
धन्योऽहं कृतकृत्योऽहं कृतस्त्वद्य महामते ।
त्वदाज्ञावशगः स्वामिन् गुप्तं ग्रन्थं करोमि ते ॥ १॥
अधुना वद मे भक्तिं गणेशस्य तया परम् ।
भजिष्यामि विशेषेण सदा भक्तिपरायणः ॥ २॥
मुद्गल उवाच ।
साङ्ख्ययोगौ प्रजानाथ शृणु ते कथयाम्यहम् ।
ताभ्यां युक्तस्ततो भक्तिं करिष्यसि परां मुदा ॥ ३॥
चित्तं पञ्चविधं प्रोक्तं पञ्चसङ्ख्याविवर्जितम् ।
कुरु चिन्तामणौ लीनभावेन त्वं सुयोगतः ॥ ४॥
एतत् साङ्ख्यं समाख्यातं गणेशाभेददायकम् ।
तेन योगी भवेत् सद्यः शान्तियुक्तो विशेषतः ॥ ५॥
पञ्चचित्तोद्भवेषु त्वं भोगेष्वसि सुसंस्थितः ।
बिम्बरूपेण तान् भुङ्क्ष्व शान्त्या रससमन्वितः ॥ ६॥
चित्तेषु चित्तभूतेषु कर्म ज्ञानादिकं भवेत् ।
तद्गणेशार्पणं सर्वं कुरु त्वं नित्यमादरात् ॥ ७॥
स्वधर्मसंस्थितं देहं चित्तं शान्तिसमन्वितम् ।
कुरुष्व सततं दक्ष ब्रह्मभावपरायणः ॥ ८॥
अयं योगः समाख्यातः शास्त्रे वै सर्वसम्मतः ।
वेदेषु च पुराणेषु ब्रह्मभूयप्रदायकः ॥ ९॥
साङ्ख्ययोगौ समाराध्य भजस्व गणनायकम् ।
योगाकारं समाध्याय तन्निष्ठस्तत्परायणः ॥ १०॥
श्रवणं गणनाथस्य गुणानां नित्यमादरात् ।
कीर्तनं तस्य तद्वत्त्वं कुरुष्वैतद्रसैर्युतम् ॥ ११॥
गाणेशस्य च भावस्य विस्मृतिं मा कुरु प्रभो ।
गणेशपादजं मोहं धारयेः सत्यभावतः ॥ १२॥
साङ्गं गणेश्वरस्यैव कुरु सर्वं विशेषतः ।
गणेशान्न परं श्रेष्ठं तस्मात्तन्निष्ठको भव ॥ १३॥
गाणपत्यस्य मार्गस्य सेवनं कुरु सर्वदा ।
साक्षिरूपं गणेशानं ज्ञात्वा हृत्स्थं भजस्व च ॥ १४॥
गणेशान्नैव भिन्नोऽहं भावयस्व निरन्तरम् ।
एवं नवप्रकारैस्तं भज त्वं भक्तिसंयुतः ॥ १५॥
बाह्यान्तरं गणेशार्थं कुरु त्वं कर्म चादरात् ।
नवधा खण्डभावेन पूर्णभक्तो भविष्यसि ॥ १६॥
अथो चतुर्विधां भक्तिं कथयामि शृणुष्व ताम् ।
कायिकां वाचिकां पूर्णां मानसीं नित्यदा कुरु ॥ १७॥
तथा सांसर्गिकिं दक्ष तस्याश्चिह्नं वदाम्यहम् ।
गणेशार्थं सदा देहश्रमं कुरु महामते ॥ १८॥
गणेशभावहीनां यां वाचं मा त्वं वदस्व ताम् ।
गणेशचिन्तनं तद्वद्गणेशे भावकस्य वा ॥ १९॥
गणेशभक्तियुक्तानां सङ्गतिं कुरु सर्वदा ।
एवं भजस्व भक्त्या त्वं भक्तराजो भविष्यसि ॥ २०॥
भक्तिः सा द्विविधा दक्ष मानवैः क्रियते परा ।
पाखण्डसंयुता पूर्णा देवप्रीत्यर्थमेव वा ॥ २१॥
देहे विषयभोगार्थं भजनं सम्प्रवर्तते ।
पाखण्डिनां सदा दक्ष लोकमोहकरं परम् ॥ २२॥
पाखण्डभजनस्यैव चिह्नं मुख्यं वदाम्यहम् ।
तच्छृणु त्वं हितार्थाय लोकानां लोकतारक ॥ २३॥
सर्वाहङ्कारनिर्मुक्तः पाखण्डी दृश्यते जनैः ।
जना मोहयुता येन भवन्ति भजनं यतः ॥ २४॥
यत्र येषां रुचिर्दक्ष यादृशी तादृशं सदा ।
करोति तत्र यत्नेन सर्वभावं प्रदर्शयन् ॥ २५॥
येनैव विषयाणां च प्राप्तिः सञ्जायते परा ।
तादृशं भजनं तस्य परं भवति सर्वदा ॥ २६॥
अथवा चैकनिष्ठः स भवति देवतत्परः ।
स्वदेवभक्तान् सम्मोह्य भुङ्क्ते दुष्टोऽर्थलालसः ॥ २७॥
स्वदेवभजने सक्ता जनाः स्वल्पमतो बहु ।
तेषां रुचिप्रमाणेन भवति भजनं यतः ॥ २८॥
जनानां मोहदा भक्तिः कथिता ते प्रजापते ।
पाखण्डिभिः सदा पूर्णा सेव्यते सा रुचिप्रदा ॥ २९॥
पाखण्डसंयुता नित्यं भक्तिं कुर्वन्ति शाश्वतीम् ।
चाण्डालास्ते मताः शास्त्रे देवानां दुःखदायकाः ॥ ३०॥
सत्यसङ्कल्पसिद्ध्या ते संयुतं देवमुत्तमम् ।
सङ्गृह्य भिक्षुकं दुष्टाः कुर्वतेऽधः प्रगामिनः ॥ ३१॥
अथ देवप्रियां भक्तिं शृणुष्व सुसमाहितः ।
विचार्य हृदये भक्तिं कुरुते देवतुष्टये ॥ ३२॥
सदा देवपरो भूत्वा भजतेऽनन्यमानसः ।
लोकानां तत्र सम्भूयाद्रुचिर्वा ह्यरुचिः कदा ॥ ३३॥
लोका निन्दन्ति तं भक्तमुत्तमाश्च स्तुवन्ति वा ।
ताननादृत्य देवस्य प्रीत्यर्थं भजते सदा ॥ ३४॥
स्वकीये हृदये सोऽपि विचार्य कुरुते सदा ।
भक्तिं यां तां प्रजानाति देवस्तस्य हृदि स्थितः ॥ ३५॥
यदा दैवस्य मार्गस्यापमानं वा ह्यनादरम् ।
कुर्वन्ति तान् परित्यज्य तदा भजति सर्वदा ॥ ३६॥
लोकानां रुचिदं तस्य भजनं जायते कदा ।
कदा तेषां विरुद्धं वा भक्त्या तद्देवतुष्टिदम् ॥ ३७॥
अनेन विधिना दक्ष भजस्व गणनायकम् ।
गाणपत्यो न सन्देहो भविष्यसि परात् परः ॥ ३८॥
पञ्च चित्तेषु यज्ज्ञानं तद्विद्धि विषयात्मकम् ।
तत्र रुचिविहीनस्त्वं भजस्व गणनायकम् ॥ ३९॥
सदा गणेश्वरे दक्ष रसोत्पत्तिः प्रजायते ।
चित्तस्य नान्यभावेषु यस्य भक्तः स उच्यते ॥ ४०॥
एतद्भक्तिरहस्यं ते कथितं भक्तिदायकम् ।
समासेन भजस्वैव गणेशं ब्रह्मनायकम् ॥ ४१॥
इमं योगं नरो यस्तु शृणुयाच्छ्रावयेत् परम् ।
योगिभ्यो वाऽन्यजन्तुभ्यः स ईप्सितमवाप्नुयात् ॥ ४२॥
नानेन सदृशं किञ्चिद्योगदं शास्त्रसम्मतम् ।
अस्य श्रवणमात्रेण ब्रह्मीभूतो भवेन्नरः ॥ ४३॥
महापापोपपापेभ्यो मुच्यते पठनात् किल ।
श्रवणादस्य योगस्यान्ते ब्रह्म प्राप्नुयात् परम् ॥ ४४॥
पुत्रपौत्रादिसंयुक्तो धनधान्यसमन्वितः ।
आरोग्यादिसमायुक्तो लभेदन्ते परं पदम् ॥ ४५॥
सकामको लभेद्भोगान् पठनादस्य निश्चितम् ।
अन्ते ब्रह्ममयो भावी श्रवणान्नात्र संशयः ॥ ४६॥
योगगीतां पठेद्यस्तु निष्कामः शृणुयादथो ।
स विघ्नहीनतां प्राप्य ब्रह्मीभूतो भविष्यति ॥ ४७॥
योगगीतां पठेद्यस्तु स भवेत् शान्तिसंयुतः ।
शृणुयाद्ब्रह्मभूतश्च ज्ञानवान् स्थितिसंयुतः ॥ ४८॥
कर्मनिष्ठैरियं सेव्या तपोनिष्ठैः प्रजापते ।
तत्तत्सिद्धिसमायुक्तैरिहान्ते ब्रह्म चाप्यते ॥ ४९॥
नित्यं पठेदिमां गीतां स गणेशो धरातले ।
दर्शनात् पावनो नॄणां सर्वसिद्धिप्रदायकः ॥ ५०॥
एककालं द्विकालं वा त्रिकालं यः पठेदिमाम् ।
कृत्वाऽवश्यं गणेशानं स भवेत् सर्वदायकः ॥ ५१॥
शुक्लकृष्णचतुर्थ्योस्तु पेठदेतां नरोत्तमः ।
स भुक्त्वा सकलान् भोगानन्ते ब्रह्म लभेत् परम् ॥ ५२॥
अथवा शुक्लजायां स चतुर्थ्यां भाद्रमाघयोः ।
ज्येष्ठे माघे च कृष्णायां पठेदीप्सितमाप्नुयात् ॥ ५३॥
अथवा गणराजस्य तीर्थक्षेत्रादिके गतः ।
पठेदिमां सुभावेन स ईप्सितमवाप्नुयात् ॥ ५४॥
वेदशास्त्रपुराणेषु यत् सारं समुदाहृतम् ।
योगगीतामयं तुभ्यं सर्वसिद्धिप्रदायकम् ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन भक्तिरहस्यवर्णनयोगो नाम षोडशोऽध्यायः ॥ ९.१६
॥ इति योगगीतासूपनिषत्सु सुगमासु द्वादशोऽध्यायः ॥ ९(योगगीता).१२
॥ श्रीगजाननार्पणमस्तु ॥
Proofread by Yash Khasbage