श्रीहनुमन्महामन्त्रस्तोत्रम्
शृणु लक्ष्मि महामन्त्रं कथयामि हनूमतः ।
``ॐ नमो हनुमते दुःखभञ्जनाय सुखं कुरु फट् स्वाहा'' ॥ ५५॥
दशसाहस्रवारं वै विंशत्यक्षरपाठनम् ।
एकमासं जपेन्नित्यं सर्वदुःखप्रणाशनम् ॥ ५६॥
ओमस्य श्रीहनुमन्महामन्त्रस्य श्रीकृष्णनारायाणः ऋषिः,
श्रीहिमाचलहनुमान् देवता, मम समस्तेष्टप्राप्त्यर्थं,
समस्ताऽनिष्टनाशार्थं श्रीकृष्णनारायणप्रसन्नार्थं
श्रीहिमाचलहनुमत्स्तोत्रमन्त्रजपमहं करिष्ये ॥ ५७॥
``ॐ नमो भगवते महाबलवते
सर्वाधिकवीर्यवते महाहनुमते वज्रदेहाय
कुमारब्रह्मचारिणे यक्षराक्षसभूतप्रेतपिशाचकूष्माण्ड-
विनायकवेतालडाकिनीशाकिनीकाकिनीयोगिनीवेतालि-
नीकृत्याग्रहगणबन्धनाय रोगादिबन्धनाय एहि एहि
आगच्छ आगच्छ आवेशय आवेशय प्रवेशय प्रवेशय
स्फुर स्फुर सर्वमुखबन्धन शत्रुं मे वशमानय
क्लीं क्लीं क्लीं ह्रीं श्रीं श्रीं श्रीं क्लीं ह्रीं मर्दय मर्दय मारय मारय
चूर्णय चूर्णय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा ॥ ५८॥
``ॐ ह्रां ह्रीं ॐ नमो भगवते ब्रह्महनुमते रुद्रमरुद-
ञ्जनिजाताय सर्वदुःखनिवारणाय सर्वविधज्वरान्
छिन्धि छिन्धि सर्वकष्टान्युच्चाटय उच्चाटय ।
ॐ ह्रां श्रीं ॐ नमो भगवते श्रीहिमाचलमहाहनुमते
दुःखहालक्ष्मीपूजिताय ॐ ह्रां ह्रीं ह्रुं ह्रैं ह्रों ह्रः आं
हां हां हां हां जौं सौं एहि एहि एहि ॐ हं ॐ हं
ॐ हं ॐ नमो बलवते गदावते सर्वविषं हर हर
व्योमवनं भेदय भेदय छेदय छेदय मारय मारय
शोषय शोषय मोहय मोहय ज्वालय ज्वालय
प्रहारय प्रहारय सर्वां मायां भेदय भेदय ।
ॐ ह्रां ह्रीं ॐ नमो भगवते महालाङ्गूलवते
सर्वबलानि क्षोभय क्षोभय सकलबन्धमोक्षणं कुरु कुरु
सर्वशूलान् निर्मूलय निर्मूलय सर्वपाशान् शिथीलय शिथीलय
दुष्टाविद्याश्छेदय छेदय निजविद्याः प्रकटय प्रकटय
सर्वारिष्टानि नाशय नाशय असाध्यं साधय साधय ।
अत्र मूर्तौ वासं विधेहि विधेहि चमत्कारं प्रदर्शय प्रदर्शय
अद्रिवीर तनुमन् हनुमन् मम सर्वशत्रून् भस्म कुरु कुरु
हन हन हुं फट् स्वाहा'' ॥ ५९॥
अष्टोत्तरशतवारं जपेत् सञ्जुहुयात्ततः ।
पूजयेच्छ्रीहनुमन्तं परिहारं ततश्चरेत् ॥ ६०॥
तृतीयदिवसे प्रातः पूजयित्वा सुराँस्तथा ।
हवनं कारयित्वा चोत्थाप्य कीशं प्रपूजयेत् ॥ ६१॥
विमाने तं प्रसंस्थाप्य मन्दिराग्रे समानयेत् ।
प्रदक्षिणं विधायैव प्राङ्मुखे वोत्तरानने ॥ ६२॥
मन्दिराग्रे निधायैव पूजयेद्बलिमर्पयेत् ।
अङ्गन्यासान् प्रकुर्याच्च तथा तत्त्वानि सन्न्यसेत् ॥ ६३॥
नेत्राञ्जनं प्रकुर्याच्च वस्त्रभूषादि चार्पयेत् ।
प्राणप्रतिष्ठां कुर्याच्च बीजवर्णनिनादिताम् ॥ ६४॥
ॐ कं खं गं घं ङं आं पृथिव्यप्तेजोवाय्वाकाशात्मने
ॐ हृदयाय नमः ।
ॐ चं छं जं झं अं इं
शब्दस्पर्शरूपरसगन्धात्मने ईं शिरसि स्वाहा ।
ॐ टं ठं डं ढं णं उं श्रोत्रत्वक्
चक्षूरसनाघ्राणात्मने ऊं शिखायै वषट् ।
ॐ तं थं दं धं नं एं वाक्पाणिपादपायूपस्थात्मने
ऐं कवचाय हुम् ।
ॐ पं फं बं भं मं ॐ वचनादान-
विहरणोत्सर्गानन्दात्मने औं नेत्रत्रयाय वौषट् ।
ॐ यं रं लं वं शं सं हं लं क्षं तं अं मनोबुद्ध्यहङ्कार-
चित्तात्मने अः अस्त्राय फट् ॥ ६५॥
अथ देवं स्पृष्ट्वा-'ॐ आं ह्रीं क्रौं यं रं लं वं शं
षं सं हं सः देवस्य प्राण इह प्राणाः ।
ॐ आं ह्रीं क्रौं यं रं लं वं शं षं सं हं सः देवस्य जीव इह स्थितः ।
ॐ आं ह्रीं क्रौं यं रं लं वं शं षं सं हं सः देवस्य सर्वेन्द्रियाणीह ।
ॐ आं ह्रीं क्रौं यं रं लं वं शं षं सं हं सः देवस्य
वाङ्मनश्चक्षुश्रोत्रघ्राणप्राणाः इह तिष्ठन्तु स्वाहा ॥ ६६॥
अर्चाहृदि अङ्गुष्ठं दत्वा जपेत् -
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाश्चरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥ ६७॥
प्रणवेन सन्निरुध्य ध्यात्वा सजीवमेव तम् ।
हनुमन्मन्त्रमेवाऽस्याः कर्णे जपेन्नमेत्ततः ॥ ६८॥
स्थापयेन्मन्दिरे सिंहासने सम्प्रार्थयेत्तथा ।
सर्वानिष्टानि देव त्वत्स्थापनेन लयं परम् ॥ ६९॥
यान्तु सर्वान् कुरु कीश सुखिनः सर्वतोमुखान् ।
धूपं दीपं च नैवेद्यं दद्यात्ताम्बूलकं जलम् ॥ ७०॥
नीराजनं प्रकुर्याच्च पुष्पाञ्जलिं दिशेत्ततः ।
कार्पासवर्तीः प्राज्वाल्य नीराजनमिदं वदेत् ॥ ७१॥
अत्र नीराजनम्-
जय कपे बलवँस्त्वं जय कपे बलवँस्त्वम् ।
सुरनरमुनिजनवन्दितपत्कज हनुमँस्त्वम् ॥ ७२॥
प्रौढप्रताप पवनसुत त्रिभुवनजयकारिन् ।
असुररिपुमदगञ्जन भयसङ्कटहारिन् ।
जय०॥ ७३॥
भूतपिशाचविकटग्रहपीडा ते जपनात् ।
हनुमद्गर्जितश्रवणान्नश्यति थरकम्पात् ।
जय०॥ ७४॥
रघुवरसहायोल्लङ्घ्य सागरमतिदीर्घम् ।
सीताशोधनमाप्त्वा लङ्कां प्राज्वालयत् ।
जय०॥ ७५॥
रामचरणरतिदायक शरणागतत्रातः ।
पूर्णानन्दित हनुमन् वाञ्च्छितफलदातः ।
जयः ॥ ७६॥
पूर्णाहुतिं दिशेत् परिहारं च कारयेत्तथा ।
विप्रान् साधून् सतीर्भक्तान् भोजयेद्दक्षिणां दिशेत् ॥ ७७॥
नित्यं सम्पूजयेद्देवं स नाशयेदनिष्टकम् ।
ध्वजादिदर्शनं कुर्यात्पठेन्मन्त्रं निरन्तरम् ॥ ७८॥
सिन्दूरतैलार्कपुष्पमाला ध्यात्वाऽर्पयेत् सदा ।
भुक्तिर्मुक्तिर्भवेच्चापि लक्ष्मि मनुष्यतां व्रजेत् ॥ ७९॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१५०-अध्यायान्तर्गतं श्रीहनुमन्महामन्त्रस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १५०/५५-७९॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 150/55-79..
Proofread by PSA Easwaran