ईश्वरप्रोक्तं रुद्राध्यायविध्युपदेशम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
स्कन्द उवाच ।
अथान्यं विधिमाख्यास्ये रुद्रमन्त्रस्य सत्तम ।
शृणुष्व सावधानेन चेतसा शिवभाषितम् ॥ १॥
ईश्वर उवाच ।
दिवैव जापो विधिवत्प्रकुर्या-
च्छ्रीरुद्रमन्त्रस्य सदैव शङ्करि ।
रात्रौ न जप्यो मनुरेष निश्चितं
शिवाभिषेके तु सदैव योज्यः ॥ २॥
कालाष्टम्यां सोमवारे महेशि
भूतायां वै ग्रहणे पर्वकाले ।
श्रीरुद्रं सञ्जप्य शम्भोः प्रसादा-
द्भुक्त्वा भोगान्मुक्तिमभ्येति चान्ते ॥ ३॥
मद्रुद्रजाप्यं परिहाय मर्त्या
मुक्त्यै कथं ते प्रभवन्ति मूढाः ।
रत्नं स्वहस्तस्थमपास्य मोहा-
द्गृह्णाति काचं मणिमत्र लोकः ॥ ४॥
रुद्रैकादशिनीं जपन्निह जनो भस्मत्रिपुण्ड्राङ्कितो
रुद्राक्षाभरणाः शिवैकशरणः पूतो महापातकैः ।
तेनैवोत्तमदिव्यलिङ्गमगजे संसिच्य नीरैर्वरैः
सर्वोर्वीवरदानकोटिजफलं लब्ध्वा स मुक्तो भवेत् ॥ ५॥
भस्मच्छन्नो भवघ्नं प्रजपति यदिराद्रमन्त्रं सतारं
पारं तं भवासागस्य गिरिजे मत्प्रीतिभाक् प्राप्नुयात् ।
दिव्यं भालतले त्रिपुण्ड्रमगजे बिभ्रत्स रुद्राक्षभृत्
सन्त्यज्यान्यमृदोर्ध्वपुण्ड्रमखिलं विद्याविधिं प्राप्नुयात् ॥ ६॥
यदि सितभसितत्रिपुण्ड्रधारी
विमलमनुं प्रजपेत(?) रुद्रसूक्तं
शिवपदकमले निविष्टचेता
भवति भवादपि मुच्यते गृहस्थः ॥ ७॥
वर्णी वनी शतमनुं शतरुद्रमन्त्रं
भस्माक्षधृग्यदि जपेत(?) विमुक्तिसिद्ध्यै ।
विध्युज्झितोऽपि नियताश्रमवर्णधर्मैः
रुद्रस्य जाप्यपरमः सकलं लभेत ॥ ८॥
यो भानुसोदरवरोत्तममूलसंस्थो
रुद्रार्थवादविधि बोधित मन्त्रसारः ।
तस्याविमुक्तसदनं मरणान्तकाले
प्राप्यं सदेशि मदनान्तकदृष्टिदृष्टः ॥ ९॥
श्रीबिल्वमूलगतिभाक् शतरुद्रमन्त्र-
जापेन पापसहितोऽपि विमुक्तपापः ।
स एव पङ्कजपादयुग्म-
निष्ठानकृच्छाम्भवसत्तमोऽद्रिजे ॥ १०॥
प्रातः श्रीशतरुद्रमन्त्र जपतो भस्मत्रिपुण्ड्राक्षधृक्
सायाह्नेऽपि ततोऽपि सङ्गव कृतं सायन्तने जन्महम् ।
रात्रौ तत्प्रजपन्निशासु गिरिजे भस्माक्षधृक् मुक्तिभाक् ॥ ११॥
आपातालनभःस्थलान्तभुवन ब्रह्माण्डमाविस्फुर-
ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्
ध्यायेदीप्सितसिद्धये द्रुतपदं विप्रोऽभिषिञ्चेच्छिवम् ॥ १२॥
स्कन्द उवाच ।
एवमाह महादेवः कैलासे गिरिजां प्रति ।
रुद्राध्याय विधिं कृत्स्नं किं भूयः श्रोतुमिच्छामि ॥ १३॥
शम्भोः पदाम्भोजसमर्चने रताः
कुम्भोद्भवाद्या मुनयश्च शाम्भवाः ।
अम्भोजजाद्याश्च हि पञ्चरुद्रं
जपन्ति दम्भादिविवर्जिताशयाः ॥ १४॥
ताराद्यन्तपदं जपेद्यदि मुदा रुद्रं द्रुतोच्चं विना
नत्वा प्राञ्जलिरीशनाम कलयन् मुक्तोमहापातकैः ।
भस्मोद्धूलितदेह एव हि जपन् श्रीरुद्रमन्त्रं द्विजो
रुद्राक्षामलदेह एव हि भवेन्मुक्तोमहापातकैः ॥ १५॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं रुद्राध्यायविध्युपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ३२ रुद्रमहिमा । १-९५॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 32 rudramahimA . 1-95..
Notes:
Skanda स्कन्द narrates to Jaigīṣavya जैगीषव्य about the Rudrādhyāya Vidhi रुद्राध्याय विधि as told by Śiva शिव; and concludes by highlighting the phalam फलम् of the same.
Proofread by Ruma Dewan