ऋषिकश्यपप्रोक्तं भस्मधारणमहिमावर्णनम्
(शिवरहस्यान्तर्गते भीमाख्ये)
काश्यपः (उवाच) ।
भस्माभ्यक्ततनुर्नित्यं पूजयेदिन्दुशेखरम् ।
भस्मधारणहीनानां प्रसादो नैव शाम्भवः ॥ २॥
भवेज्जन्मशतेष्वेव द्विजस्यापि विशेषतः ।
भस्मधारणहीनानां ज्ञानं नैवोपजायते ॥ ३॥
ज्ञानाङ्गत्वदिदं भस्म सृष्टमीशेन मुक्तिदम् ।
भस्मभस्मेति यो ब्रूयात्स तु पापैः प्रमुच्यते ॥ ४॥
भस्मना पादपर्यन्तं यः स्नाति नियतं सदा ।
स तु सन्तरते घोरं संसारं दुःखदं नरः ॥ ५॥
द्विजो वणिग्गृहस्थो वा यतिर्वापि वनाश्रमी ।
त्रिकालं भस्मनिरतो देवदेवप्रसादभाक् ॥ ६॥
भस्मस्नान विहीनात्मा कृत्वा कर्माण्यपि द्विजः ।
नैव तत्फलमाप्नोति कुर्वन्यत्किञ्चिदप्यसौ ॥ ७॥
प्रत्यवैति द्विजो वापि भवत्येव न संशयः ।
भस्मप्रभावो वेदान्तैः सर्वदा प्रतिपाद्यते ॥ ८॥
अथर्वशिरसि स्वैरं भस्म प्रोक्तं हि पावनम् ।
शिरोद्गतमिदं भस्मस्नानमापादमस्तकम् ॥ ९॥
अग्निरित्यादिभिर्मन्त्रैः स्नात्वा पापैः प्रमुच्यते ।
यो वा कोवाऽन्त्यजो वापि नित्यं भस्मतनुर्भवेत् ॥ १०॥
स महेशप्रसादस्य पात्रं भवति निश्चितम् ।
द्विजो वाप्युत्तमाचारो भस्मस्नानविवर्जितः ॥ ११॥
यो भस्मधारिणं दृष्ट्वा नाभिनन्दति दुर्मतिः ।
तस्योत्पत्तौ च साङ्कर्यमनुमेयं विपश्चिता ॥ १२॥
यतिर्वेदान्तनिष्ठोऽपि नैव तद्ज्ञानमाप्नुयात् ।
पठन् वा पाठयन्वापि नैव तद्ज्ञानमाप्नुयात् ॥ १३॥
जीवात्मैक्यं परं ज्ञानं भस्मस्नानेन जायते ।
भस्माभ्यक्ततनुर्नित्यं त्रिपुण्ड्रपरिचिह्नितः ॥ १४॥
स तपस्वी स दानार्हः सर्वकर्मार्हको भवेत् ।
त्रिणेत्रदयया पात्रं पवित्रो भवति ध्रुवम् ॥ १५॥
मित्रभूतः सुराणां च भवत्येव न संशयः ।
भस्मधारणहीनो यः शिवलिङ्गं समर्चयेत् ॥ १६॥
न तस्य पूजां गृह्णाति महादेवः पराङ्मुखः ।
भविष्यति न सन्देहः प्रत्युत प्रत्यवैति च ॥ १७॥
सर्वदा सर्वकालेषु भस्मधृक्पावनः शुचिः ।
यः स्नाति स्नानदशकैर्विद्या बुद्ध्यापि मानवः ॥ १८॥
भस्मस्नानादिनिर्मुक्त सोऽशुचिः सर्वकर्मणि ।
पवित्रं परमेतद्वै भस्मैव श्रुतिचोदितम् ॥ १९॥
श्रौतानलोद्भवं भस्म महापापनिवर्तकम् ।
मुक्तिदं ज्ञानदं पुंसामग्निरित्यादिमन्त्रितम् ॥ २०॥
भस्मधृत्वैव सन्ध्यायामधिकारी न संशयः ।
अधृत्वा यदि तद्भस्म सन्ध्यां कुर्याद् द्विजाधमः ॥ २१॥
भस्मधृत्वा पुनः सन्ध्यामाचरेत्सन्ध्ययोर्द्वयोः ।
श्राद्धं यज्ञस्तथा होमो विवाहोपनयादिकम् ॥ २२॥
देवताभ्यर्चनं नित्यं काम्यं स्वध्यायतर्पणम् ।
सर्वं भस्मधृगेवाशु सर्वेषां फलमश्नुते ॥ २३॥
स तपस्वी सदा पात्रं सर्वान्त्सन्तारयेन्नरान् ।
भस्मधारणमन्त्रेण दुःखं तरति मानवः ॥ २४॥
अशुचिर्भिन्नमर्यादो भस्मधृक्पावनो भवेत् ।
अभक्ष्यभक्षणं कृत्वा गत्वाऽगम्यामपि द्विजः ॥ २५॥
भस्मनः स्नानमात्रेण सर्वपापैः प्रमुच्यते ।
वराहं मूषकं बालमुन्मत्तं श्वानरासभम् ॥ २६॥
स्पृष्ट्वा दृष्ट्वा द्विजो नित्यं भस्मस्नानं समाचरेत् ।
उदङ्कीं सूतिकां दृष्ट्वा यस्तपस्यति भस्मना ॥ २७॥
भस्मस्नानेन पापानां राशिर्वैभस्मसाद्भवेत् ।
भस्मधृक्सर्वदा पूज्यो यथा(यतः) शिवमयो हि सः ॥ २८॥
सन्ध्ययोरथ मध्याह्ने निशीये भस्मधृग्भवेत् ।
साचारोऽपि दुराचारो भस्मधृक्पावनो भवेत् ॥ २९॥
भस्मत्रिपुण्ड्रसहितो नित्यमर्चति शङ्करम् ।
तेन दत्तं जलं पत्रं साक्षाद्गृह्णाति शङ्करः ॥ ३०॥
हव्यं गृह्णन्ति च सुराः कव्यं पितृगणाः स्मृताः ।
भस्मधारणमात्रेण शम्भुस्तस्मै प्रसीदति ॥ ३१॥
प्रसादः (प्रसन्नः) शङ्करो यस्मिन्मुक्तिस्तस्य करे स्थिता ।
दानं यद्दीयते दात्रा यो गृह्णात्यपि वै द्विजः ॥ ३२॥
भस्मधारणमात्रेण उभयोर्वर्धते फलम् ।
प्रातः स त्यज्यते विप्रो भस्मनाऽऽपादमस्तकम् ॥ ३३॥
त्रिपुण्ड्रधृक्समस्तैश्च चरितैर्निशि पातकैः ।
त्रियायुषं त्रिपुण्ड्राङ्कः रात्रिपापं व्यपोहति ॥ ३४॥
मध्याह्नेऽपि तथा प्रातः पातकैः प्रविमुच्यते ।
सायङ्काले भस्मधारी अपराह्णादघात्सदा ॥ ३५॥
मुक्तो भवति गौरीशप्रियकृत्स भविष्यति ॥ ३६॥
भस्माभ्यक्ततनुर्भवेदथ महारुद्राक्षमालाधरो
रुद्राध्यायजपादरः शिवमहापञ्चाक्षरे सादरः ।
श्रीमत् त्र्यम्बकपादपङ्कजवरे ध्यायन्विमुक्तो भवे-
त्पापौघाद्भवसागराद्धर महादेवाश्रयाद्भावतः ॥ ३७॥
॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं भस्मधारणमहिमावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः ९ । २-३७॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 9 . 2-37..
Notes:
Ṛṣi Kaśyapa ऋषि कश्यप speaks to Garuḍa गरुड about BhasmadhāraṇaMahimā भस्मधारणमहिमा, especially in context of worship of Śiva शिव.
Proofread by Ruma Dewan