ऋषिकश्यपप्रोक्तं भस्ममाहात्म्यम्
(शिवरहस्यान्तर्गते भीमाख्ये)
काश्यप उवाच ।
भस्मनः पञ्चनामानि श्रुतिगीतानि वै द्विज ।
विभूतिर्भसितं भस्म क्षारं रक्षेति च क्रमात् ॥ १॥
भासकज्ञानदानेन भस्मैतत्कीर्तितं सदा ।
ऐश्वर्यदानात्सा भूतिर्भसितं पापनाशनात् ॥ २॥
क्षारं रक्षा च वै पापक्षरणाद्रक्षणात्तथा ।
जाबालैर्नितरामुक्तं भस्म पापभयापहम् ॥ ३॥
भस्म मुक्तिप्रदत्वाच्च प्रसादकरणं महत् ।
यो भस्मरहितो विप्रः स एव श्वपचोऽन्त्यजः ॥ ४॥
स नित्यसूतकी भूयाद्भस्मधारणवर्जितः ।
तेनाधीतं तथैवैष्टं जप्तं सर्वं च निष्फलम् ॥ ५॥
आमनन्ति सदा भस्म श्वेताश्वतर शाखिनः ।
आमनन्ति सदा भस्म अथर्वशिरसि स्थिताः ॥ ६॥
आमनन्ति सदा भस्म बृहज्जाबालशाखिनः ।
श्रुतयो भस्ममाहात्म्यं वदन्ति बहुधा द्विज ॥ ७॥
मुनयो ब्रह्मविष्ण्वाद्या भस्ममाहात्म्यवेदिनः ।
देवैः सदैव सुधृतं भस्मेदं पावनं परम् ॥ ८॥
ब्रह्मणा विष्णुनेन्द्रेण धृतं रुद्रैः सदैव हि ।
देवस्त्रीभिर्धृतं भस्म सर्वदा तत् त्रिपुण्ड्रवत् ॥ ९॥
देव्या च गणपेनैव स्कन्देन च धृतं परं ।
स्त्रीभिर्धार्यमिदं भस्म मङ्गलं तद्भ्रुवोऽन्तरा ॥ १०॥
सभर्तृकाभिः सततं शिवाराधनसाधनम् ।
ज्ञानाङ्गत्वेन कथितं सर्वदा पावनं परम् ॥ ११॥
शिवप्रसादजनकं भस्मधारणमुत्तमम् ।
शिवप्रसादजनकं त्रिपुण्ड्रपरिधारणम् ॥ १५॥
शिरोललाटवक्षस्सुदोर्द्वये यस्त्रिपुण्ड्रधृक् ।
स एव प्रियकृच्छ्रेष्ठो महेशस्य गणेश्वरः ॥ १६॥
भस्मना पूतभालो यः स तपस्वी स तु द्विजः ।
स एव प्रेमसदनं मदनान्तकरस्य च ॥ १८॥
भस्मधृक् पूयते पापैर्महद्भिरपि कृत्स्नशः ।
भस्मभालं त्रिपुण्ड्राङ्कं दृष्ट्वा भीतो यमः सदा ॥ १९॥
नृगणाश्च पिशाचाश्च ग्रहाश्चैव विनायकाः ।
तं नरं नोपसर्पन्ति सर्वदा भस्मधारिणम् ॥ २०॥
भस्मधारणमात्रेण सदा शाम्यन्ति वे ग्रहाः ।
पञ्चाक्षरेण यो भस्म अभिमन्त्र्यैव धारयेत् ॥ २१॥
आर्द्रैः शुष्कैस्तथा पापैर्मुच्यते नात्र संशयः ।
भस्मैव परमं तूर्यं पावनं ज्ञानभासकम् ॥ २२॥
यो विनिन्दति भस्मेदं स निन्द्यां योनिमाप्नुयात् ।
भस्मयुक्तं त्रिपुण्ड्राङ्कं भोजयित्वा तु शाम्भवम् ॥ २३॥
स भोजयति गौरीशं तेन तुष्टो महेश्वरः ।
पवित्राणां पवित्रं हि भस्मैव द्विजपुङ्गव ॥ २४॥
न भस्मात् (भस्मनः) पावनतरं त्रिषु लोकेषु विद्यते ।
न भूत्या(यै) प्रमदेतैव इति श्रुत्यनुशासनम् ॥ २५॥
भस्मना पूजयेल्लिङ्ग्ङ्गं त्र्यम्बकेण स मुच्यते ।
सर्वेभ्योह्यपि पापेभ्यः स मुक्तो मोचयन्पुरा ॥ २६॥
स जीवन् शिवतामेति साक्षाद्रुद्रसमो भवेत् ।
नित्याशुचिरयं देहो भस्मना शुचि(शैच)भाक् भवेत् ॥ २७॥
भस्मैतच्च विहायैवमन्यपुण्ड्रधरो यदि ।
मुक्तिं विन्देत चेत्तस्मात्सागरः सम्प्लविष्यति ॥ २८॥
विषपानेन नित्यत्वं यदि विन्देत मानवः ।
भस्मस्नानवीहीनोयः स भवेन्मायया वृतः ॥ २९॥
यो भस्मस्नानयुक्तो भवति सुरनरो स द्विजो वाऽधमो वा ।
नैवान्यद्भगवत्प्रमोदजनकं ज्ञानं महत्प्राप्नुयात् ॥ ३०॥
यो भस्माभ्यक्तदेहो भवति जनिजरानाशपापाद्विहीनः
पापै(हित्वा)स्तापजदुःखभागनिकरं ज्ञानं महद्विन्दति ॥ ३१॥
भुक्त्वा सौख्यमतीव शङ्करगणश्रेष्ठः सुरम्याकृतिः ।
भूयादेव महाप्रभावसहितो विप्रऽथ मुक्तो भवेत् ॥ ३२॥
॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं भस्ममाहात्म्यं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः ११ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 11 . vAvRRittashlokAH ..
Notes:
Ṛṣi Kaśyapa ऋषि कश्यप delivers Upadeśa उपदेश (to Garuḍa गरुड) about BhasmaMāhātmyam भस्ममाहात्म्यम्.
He initiates by speaking about the Five Names of Bhasma i.e. BhasmaPañcanāmāni भस्मपञ्चनामानि viz., Vibhūti विभूति, Bhasita भसित, Bhasma भस्म, Kṣāra क्षार, Rakṣā रक्षा, and explains the meaning of each name.
Proofread by Ruma Dewan