नन्दिकेश्वरकाशिका अथवा नन्दिकेशकाशिका
॥ श्री शिवाय नमः ॥
नन्दिकेश्वरकाशिका अथवा नन्दिकेशकाशिका
(नन्दिकेश्वरप्रमथप्रणीता)
नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् ।
उद्धर्तुकामस्सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् ॥ १॥
अत्र सर्वत्र सूत्रेषु ह्यन्त्यं वर्णं चतुर्दशम् ।
धात्वर्थं समुपादिष्टं पाणिन्यादीष्टसिद्धये ॥ २॥
॥ अ इ उ ण् ॥ १॥
अकारो ब्रह्मरूपः स्यान्निर्गुणः सर्ववस्तुषु ।
चित्कलाम् इं समाश्रित्य जगद्रूप उण् ईश्वरः ॥ ३॥
अकारः सर्ववर्णाग्रयः प्रकाशः परमेश्वरः ।
आद्यमन्त्येन संयोगात् अहमित्येव जायते ॥ ४॥
सर्वं परात्मकं पूर्वं ज्ञप्तिमात्रमिदं जगत् ।
ज्ञप्तेर्बभूव पश्यन्ती मध्यमा वाक् ततः स्मृता ॥ ५॥
वक्त्रे विशुद्धचक्राख्ये वैखरी सा मता ततः ।
सृष्ट्याविर्भावमात्रात्मा मध्यमावत् समायुतम् ॥ ६॥
अकारं सन्निधीकृत्य जगतां कारणत्वतः ।
इकारः सर्ववर्णानां शक्तित्वात् कारणं मतम् ॥ ७॥
जगत्स्रष्टुमभूद्वाञ्छा (प्रभोरिच्छा) यदा ह्यासीत्तदाऽभवत् ।
कामबीजमिति प्राहुर्मुनयो वेदपारगाः ॥ ८॥
अकारो ज्ञप्तिमात्रं स्यात् इकारश्चित्कला मता ।
उकारो विष्णुरित्याहुर्व्यापकत्वान्महेश्वरः ॥ ९॥
॥ ऋ ऌ क् ॥ २॥
ऋऌक् सर्वेश्वरो मायां मनोवृत्तिमदर्शयत् ।
तामेव वृत्तिमाश्रित्य जगद्रूपमजीजनत् ॥ १०॥
वृत्तिवृत्तिमतोरत्र भेदलेशो न विद्यते ।
चन्द्रचन्द्रिकयोर्यद्वत् तथा वागर्थयोरपि ॥ ११॥
स्वेच्छया स्वस्य चिच्छक्त्या विश्वमुन्मीलयत्यसौ ।
वर्णानां मध्यमक्लीबमृऌवर्णद्वयं विदुः ॥ १२॥
॥ ए ओ ङ् ॥ ३॥
एओङ् मायेश्वरात्मैक्यविज्ञानं सर्ववस्तुषु ।
साक्षित्वात्सर्वभूतानां स एक इति निश्चितम् ॥ १३॥
॥ ऐ औ च् ॥ ४॥
ऐऔच् ब्रह्मस्वरूपस्सन् जगत्स्वान्तर्गतं ततः ।
इच्छया विस्तरं(विस्तृतं) कर्त्तुमाविरासीन्महामुनिः(कृपानिधिः) ॥ १४॥
॥ ह य व र ट् ॥ ५॥
भूतपञ्चकमेतस्मात् हयवरट् महेश्वरात् ।
व्योमवाय्वम्बुवह्न्याख्यभूतान्यासीत्स एव हि ॥ १५॥
हकारात् व्योमसंज्ञश्च यकारात् वायुरुच्यते ।
रकारात् वह्निस्तोयं तु वकारात् इति शैवराट् ॥ १६॥
॥ ल ण् ॥ ६॥
आधारभूतं भूतानामन्नादीनां च कारणम् ।
अन्नाद्रेतस्ततो जीवः कारणत्वात् लण् ईरितम् ॥ १७॥
॥ ञ म ङ ण न म् ॥ ७॥
शब्दस्पर्शौ रूपरसगन्धाश्च ञमङणनम् ।
व्योमादीनां गुणा ह्येते जानीयात्सर्ववस्तुषु ॥ १८॥
॥ झ भ ञ् ॥ ८॥
वाक्पाणी च झभञ् आसीद्विराड्रूपं चिदात्मनः ।
सर्वजन्तुषु विज्ञेयं स्थावरादौ न विद्यते ॥ १९॥
॥ घ ढ ध ष् ॥ ९॥
घढधष् सर्वभूतानां पादपायू उपस्थकः ।
कर्मेन्द्रियगणा ह्येते जाता हि परमार्थतः ॥ २०॥
॥ ज ब ग ड द श् ॥ १०॥
श्रोत्रत्वङ्नयनघ्राणजिह्वादीन्द्रियपञ्चकम् ।
सर्वेषामपि जन्तूनामीरितं जबगडदश् ॥ २१॥
॥ ख फ छ ठ थ च ट त व् ॥ ११॥
प्राणादिपञ्चकं चैव मनो बुद्धिरहङ्कृतिः ।
बभूव कारणत्वेन खफछठथचटतव् ॥ २२॥
वर्गद्वितीयवर्णोत्थाः प्राणाद्याः पञ्चवायवः ।
मध्यवर्गत्रयाज्जाता अन्तःकरणवृत्तयः ॥ २३॥
॥ क प य् ॥ १२॥
प्रकृतिं पुरुषञ्चैव सर्वेषामेव सम्मतम् ।
सम्भूतमिति विज्ञेयं कपय् स्यादिति निश्चितम् ॥ २४॥
॥ श ष स र् ॥ १३॥
सत्त्वं रजस्तम इति गुणानां त्रितयं पुरा ।
समाश्रित्य महादेवः शषसर् क्रीडति प्रभुः ॥ २५॥
शकारत् रजसोद्भूतिः षकारत् तमसोद्भवः ।
सकारात् सत्त्वसम्भूतिरिति त्रिगुणसम्भवः ॥ २६॥
॥ ह ल् ॥ १४॥
तत्त्वातीतः परं साक्षी सर्वानुग्रहविग्रहः ।
अहमात्मा परो हल् स्यादिति शम्भुस्तिरोदधे ॥ २७॥
॥ इति नन्दिकेश्वरकृता काशिका सम्पूर्णा ॥
॥ इति शिवम् ॥
Notes:
NandikeśvaraKāśikā नन्दिकेश्वरकाशिका; ascribed to Nandi नन्दि, is a cosmogonical interpretation of the MāheśvaraSutrāṇi / ŚivaSūtrāṇi माहेश्वरसूत्राणि / शिवसूत्राणि that comprise of 14 cryptic verses composed of the Sound Sequences that emanated from the Ḍamaru डमरु of Śiva Naṭarāja शिव नटराज, revealed as Saṃskṛta phonemes संस्कृत वर्ण to Ṛṣi Pāṇini ऋषि पाणिनि forming the basis of his work on Saṃskṛta grammar known as Aṣṭādhyāyī अष्टाध्यायी.
॥ माहेश्वरसूत्राणि ॥
१. अ इ उ ण् ।
२. ऋ ऌ क् ।
३. ए ओ ङ् ।
४. ऐ औ च् ।
५. ह य व र ट् ।
६. ल ण् ।
७. ञ म ङ ण न म् ।
८. झ भ ञ् ।
९. घ ढ ध ष् ।
१०. ज ब ग ड द श् ।
११. ख फ छ ठ थ च ट त व् ।
१२. क प य् ।
१३. श ष स र् ।
१४. ह ल् ।
MāheśvaraSutrāṇi
1. a i u ṇ
2. ṛ ḷ k
3. e o ṅ
4. ai au c
5. ha ya va ra ṭ
6. la ṇ
7. ña ma ṅa ṇa na m
8. jha bha ñ
9. gha ḍha dha ṣ
10. ja ba ga ḍa da ś
11. kha pha cha ṭha tha ca ṭa ta v
12. ka pa y
13. śa ṣa sa r
14. ha l
Encoded and proofread by Ruma Dewan