विष्णुप्रोक्तं गर्भवासभयमुक्त्यार्थ शम्भुपूजोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
- ब्रह्माविष्णुसंवादे -
विष्णुरुवाच
गर्भवासभयं यस्य भविष्यति चतुर्मुख ।
तस्य तद्भयनाशस्तु नः विना शम्भुपूजया ॥ ३६॥
शम्भो शम्भो महेशेति ये वदन्त्यनिशं मुदा ।
न तेषां गर्भवासोत्थं भयं सञ्जायते नृणाम् ॥ ३७॥
महादेवः महेशेति ये वदन्त्यनिशं मुदा ।
न तेषां गर्भवासोत्थं भयं सञ्जायते नृणाम् ॥ ३८॥
कालाग्निरुद्र वीरेति ये वदन्त्यनिशं मुदा ।
न तेषां गर्भवासोत्थं भयं सञ्जायते नृणाम् ॥ ३९॥
शङ्करोमासहायेति ये वदन्त्यनिशं मुदा ।
न तेषां गर्भवासोत्थं भयं सञ्जायते नृणाम् ॥ ४०॥
त्रिपुरारे मखघ्नेति ये वदन्त्यनिशं मुदा ।
न तेषां गर्भवासोत्थं भयं सञ्जायते नृणाम् ॥ ४१॥
त्रिलोचनेति भर्गेति ये वदन्त्यनिशं मुदा ।
न तेषां गर्भवासोत्थं भयं सञ्जायते नृणाम् ॥ ४२॥
पिनाकपाणे सोमेति ये वदन्त्यनिशं मुदा ।
न तेषां गर्भवासोत्थं भयं सञ्जायते नृणाम् ॥ ४३॥
चन्द्रचूडेति भीमेति ये वदन्त्यनिशं मुदा ।
न तेषां गर्भवासोत्थं भयं सञ्जायते नृणाम् ॥ ४४॥
यस्य स्मरणमात्रेण सद्यः संसारनाशनम् ।
तस्य देवाधिदेवस्य शिवस्यैवार्चनं परम् ॥ ४५॥
न यन्नामसमं नाम श्रुतौ श्रुत्यन्त एव वा ।
तस्य देवाधिदेवस्य नाम स्मर्तव्यमैश्वरम् ॥ ४६॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं गर्भवासभयमुक्त्यार्थ शम्भुपूजोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २०। ३६-४६॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 20 . 36-46..
Notes:
Viṣṇu विष्णु gives Upadeśa उपदेश to Brahmā ब्रह्मा (Caturmukha चतुर्मुख) about worshiping Śambhu शम्भु and remembering Him with certain Names that results in freedom from fear of being subject to births.
Proofread by Ruma Dewan