अनुभूतिप्रकाशः अध्यायः ३
३. छान्दोग्योपनिषदि श्वेतकेतुविद्याप्रकाशो नाम तृतीयोऽध्यायः ।
छान्दोग्ये श्वेतकेतुर्यामारुणैर्लब्धवानिमाम् ।
ब्रह्मविद्यां सङ्ग्रहेण वक्ष्येऽहं सुखबुद्धये ॥ १॥
वेदानधीत्य गर्वेण श्वेतकेतुः पराङ्मुखः ।
आसीत्प्रत्यङ्मुखीकर्तुं गुरुराहातिविस्मयम् ॥ २॥
एकतत्त्वे श्रुते सर्वमश्रुतं च श्रुतं भवेत् ।
अमतं च मतं तद्वदविज्ञातं च बुध्यते ॥ ३॥
नर्ग्वेदज्ञानमात्रेण यजुर्वेदादि बुध्यते ।
तस्मादेकधिया सर्वज्ञानं स्यादित्यलौकिकम् ॥ ४॥
मैवं मृद्धेमलोहेषु लौकिकेष्वस्य दर्शनात् ।
मृदादिज्ञानतः सर्वं मृन्मयं ज्ञायते स्फुटम् ॥ ५॥
मृदो घटशरावाद्याः विकारात् तत्तदाकृतिः ।
मृद्बोधाद्बुध्यते नेति यदुच्येत न बुध्यताम् ॥ ६॥
आकृत्याधारभागो यो घटस्यासौ तु बुध्यते ।
आधारो मृत्तिकाऽधेय आकारश्चोभयं घटः ॥ ७॥
आधारभागमात्रेऽपि ज्ञाते ज्ञातो घटो भवेत् ।
गोपुच्छमात्रसंस्पर्शाद्गोस्पर्शव्रतपूर्तिवत् ॥ ८॥
आकृतेर्यद्वदज्ञाने घटाज्ञानं त्वयोच्यते ।
तद्वदाधारबोधेन घटो बुद्धः कुतो न हि ॥ ९॥
आकृत्याधारयोस्तुल्यं भागत्वं न मृदं विना ।
केवलाकृतिमात्रः सन् घटः क्वाऽपि समीक्ष्यते ॥ १०॥
मृद्रूपात्कारणद्रव्यात्कार्यद्रव्यं घटादिकं (घटात्मकम्)।
अन्यत्तत्समवेतं हि मृदीति प्राह तार्किकः ॥ ११॥
स्वयुक्त्याऽसौ तथा ब्रूते नत्वेतल्लोकसम्मतम् ।
घटे मृदः पृथग्भूते कीदृक् तत्त्वमुदीर्यताम् ॥ १२॥
वाचैवारभ्यते किंवा पृथगानीयते वद ।
वाचैवारभ्यते तत्त्वं किञ्चिन्न स्यात्खपुष्पवत् ॥ १३॥
मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः ।
वन्ध्यापुत्र इति प्रोक्तो निस्तत्त्वमखिलं खलु ॥ १४॥
पृथगानयनं कर्तुं धीमतापि न शक्यते ।
अतोऽनृतो घटो नैव सत्य इत्यभ्युपेयताम् ॥ १५॥
समवायस्त्वया प्रोक्त आरोपं ब्रूमहे वयम् ।
स्थाणावारोपितश्चोरो यथा मृदि घटस्तथा ॥ १६॥
आरोपात्पूर्वमूर्ध्वं च तदभावादसत्यता ।
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ॥ १७॥
कालत्रयानुगः स्थाणुः सत्यो मृच्च तथेक्ष्यताम् ।
सत्यानृते च मिथुनीकृत्य कुम्भ इतीर्यते ॥ १८॥
शब्दप्रत्ययकार्याणि सन्ति मृद्घटयोः पृथक् ।
स्थाणौ चौरे च दृष्टानि पृथक् तानि तथाऽत्र च ॥ १९॥
द्विविधव्यवहारस्य सद्भावेऽपि विवेकिनः ।
सत्यायां मृदि तात्पर्यं नानृतेऽस्ति घटादिके ॥ २०॥
इक्षौ रसोऽस्त्यृजीषं च रसं गृह्णाति बुद्धिमान् ।
नर्जीषमेवं कुम्भेऽपि मृद्भागे युक्त आदरः ॥ २१॥
ये घटादिषु मृद्भागा ज्ञातव्या आदरेण ते ।
सर्वेऽपि राशिविज्ञानादेव ज्ञाता भवन्ति हि ॥ २२॥
मृद ऐक्येऽपि सर्वत्वमाकारैस्तदुपाधिभिः ।
निरुपाधिकविज्ञानात् सर्वोपहितधीर्भवेत् ॥ २३॥
कटकादौ सत्यभागा बुद्धा हेमधिया तथा ।
कुठारादौ सत्यभागा बुध्यन्ते लोहबुद्धितः ॥ २४॥
यद्यत्कार्यं तस्य तस्य धीः स्वोपादानबुद्धितः ।
इति व्याप्तिं विवक्षित्वा दृष्टान्ता बहवः श्रुताः ॥ २५॥
सर्वे जगदुपादाने श्रुते सति भवेच्छ्रुतम् ।
मते ज्ञाते मतं ज्ञातमित्यलौकिकता कुतः ॥ २६॥
श्रवणं गुरुशास्त्राभ्यां मननं तु स्वयुक्तिभिः ।
विज्ञानं स्वानुभूत्येति श्रवणादेरसङ्करः ॥ २७॥
श्वेतकेतुः सर्वबोधमेकबोधेन विश्वसन् ।
प्रत्यङ्मुखो भवेत्तस्मै सर्वोपादानमीरितम् ॥ २८॥
इदं जगन्नामरूपयुक्तमद्य सदीक्ष्यते ।
सृष्टेः पुरा सदेवासीन्नामरूपविवर्जितम् ॥ २९॥
मृद्धेमलोहवस्तूनि विकारोत्पत्तितः पुरा ।
निर्विकाराण्युपादानमात्राण्यासन् यथा तथा ॥ ३०॥
स्वसजातिविजात्युत्थभेदत्रयविवर्जनात् ।
एकमेवाद्वितीयं तत् सद्वस्त्वित्यवगम्यताम् ॥ ३१॥
वृक्षस्य स्वगतो भेदः शाखाद्यवयवैस्तथा ।
वृक्षान्तरात्सजातीयो विजातीयः शिलादितः ॥ ३२॥
न सत्यवयवाः सन्ति तेनैकं स्यादखण्डकम् ।
जात्यभावात्सजातीयं विजातीयं च दुर्भणम् ॥ ३३॥
एकादिभिः पदैर्भेदत्रयमत्र निर्वायते ।
सर्वभेदविहीनं यदखण्डं तत्सदीक्ष्यताम् ॥ ३४॥
अस्तीति शब्दबुद्धी द्वे दृश्येते नामरूपयोः ।
तदभावात्पुरा सृष्टेः शून्यमाहुरवैदिकाः ॥ ३५॥
नामरूपात्मकं शून्यात्किलैतदुपपद्यते ।
तदयुक्तं न वन्ध्यायाः पुत्रात्पुत्रान्तरोद्भवः ॥ ३६॥
शून्यजत्वे नाम शून्यं रूपं शून्यमितीदृशः ।
शून्यानुवेधो भासेत सद्वेधस्त्ववभासते ॥ ३७॥
ततः सत्कारणं सत्तु सर्वसृष्ट्यर्थमैक्षेत ।
बहु स्यामहमेवातः प्रजायेयेति मायया ॥ ३८॥
वस्तुतो बहुभावश्चेदद्वैतं सद्विनश्यति ।
माभून्नाश इति श्रुत्या प्रकर्षेण जनिः श्रुता ॥ ३९॥ (सन्नाशः)
प्रकर्षो नाम पूर्वस्मादाधिक्यमधिका तु या ।
सा माया न सती नापि शून्या स्याद्दूषितत्वतः ॥ ४०॥
मायया बहुरूपत्वे सदद्वैतं न नश्यति ।
मायिकानां हि रूपाणां द्वितीयत्वमसम्भवि ॥ ४१॥
अचिन्त्यशक्तिर्मायातो दुर्घटं घटयत्यसौ ।
उपादाननिमित्तत्वे कल्प्येते सति मायया ॥ ४२॥
बहु स्यामित्युपादानभावः प्रोक्तो मृदादिवत् ।
ऐक्षतेति निमित्तत्वमिति प्रोक्तं कुलालवत् ॥ ४३॥
मायावृत्तिविशेषे या चिच्छायाऽसौ सदीक्षणम् ।
ईक्षित्वा ससृजे तेजस्तादृक् सङ्कल्पलीलया ॥ ४४॥
आकाशवायू प्राक् सृष्टाविति प्रोवाच तित्तिरिः ।
दिङ्मात्रमारुणिः सृष्टेर्वक्तुं तेज उदैरयत् ॥ ४५॥
ब्रह्मोपलक्षणायैव सृष्टिः सर्वत्र कथ्यते ।
जगतः कियताऽप्येतच्छक्यं लक्षयितुं खलु ॥ ४६॥
तेजसोऽचेतनत्वेऽपि तेजः कञ्चुकसंयुतम् ।
सद्ब्रह्म (तद्ब्रह्म)पूर्ववद्वीक्ष्य सङ्कल्पात्ससृजे ह्यपः ॥ ४७॥
अप्कञ्चुकं ब्रह्म पृथ्वीमन्नहेतुमकल्पयत् ।
तेजोऽबन्नेभ्य एतेभ्यो देहबीजानि जज्ञिरे ॥ ४८॥
जरायुजाण्डजोद्भिज्जानीति बीजत्रयं खलु ।
जीवरूपप्रवेशार्थमैक्षत ब्रह्म देवताः ॥ ४९॥
दृष्ट्वा भूय इहोत्पन्नास्तेजोऽबन्नाख्यदेवताः ।
एकैकां त्रिवृतं तासु कुर्वे देहादिसृष्टये ॥ ५०॥
तेजस्यबन्नयोरंशावल्पौ प्रक्षिप्य मिश्रणात् ।
तेजस्त्रिवृत्कृतं तद्वदन्ययोरपि योज्यताम् ॥ ५१॥
तेजोऽबन्नैस्त्रिवृद्भूतैरण्डजादिवपुष्ययम् ।
निर्माय जीवरूपेण प्राविशत्तेषु सर्वतः ॥ ५२॥
अहङ्कारस्तु चैतन्यसंयुक्तः प्राणधारणात् ।
जीवः स्यात्सर्वदेहेषु व्याप्नोत्यापादमस्तकम् ॥ ५३॥
सद्वस्तुन्येवमारोप्य संसारो मायया कृतः ।
अविचारकृतारोपनिवृत्त्यर्थं विचार्यताम् ॥ ५४॥
त्रिवृत्करणमन्यादौ स्पष्टं तावद्विचारिणः ।
प्रसिद्धे तैजसेऽप्यग्नावबन्नांशाववस्थितौ ॥ ५५॥
ज्वालायां रोहितं रूपं बहुलं तत्तु तेजसः ।
किञ्चिच्छुक्लमपामेतत्किञ्चित्कृष्णं तु भूमिगम् ॥ ५६॥
रूपत्रये भूतगते विविक्ते भौतिकोऽनलः ।
कारणव्यतिरेकेण वाचैवारभ्यते वृथा ॥ ५७॥
जगतश्चाक्षुषस्येत्थं मिथ्यात्वं वक्तुमादितः ।
तेजोऽबन्नत्रयस्यात्र चाक्षुषस्योदिता जनिः ॥ ५८॥
आदित्यचन्द्रविद्युत्सु मिथ्यात्वं वह्निवन्नयेत् ।
गृहीत्वैतावता व्याप्तिं कार्यमिथ्यात्वमूह्यताम् ॥ ५९॥
तेजोऽबन्नाख्यकार्याणां मिथ्यात्वे स्यात्सदद्वयम् ।
कारणं सत्यमेषां तु पूर्वेषां ज्ञानिनां मतिः ॥ ६०॥
दृश्ये बाह्ये भौतिकत्वमस्तु देहे तु नो तथा ।
इति मूढमतेर्नुत्यै देहे भौतिकतोच्यते ॥ ६१॥
यदन्नं पार्थिवं भुक्तं तद्धीमांसपुरीषकैः ।
सूक्ष्ममध्यस्थूलभागैर्देहेऽस्मिन्परिणम्यते ॥ ६२॥
प्राण लोहितमूत्रांशैरपां परिणतिस्त्रिधा ।
वाङ्मज्जास्थिविभेदः स्याद्धृततैलादि तेजसः ॥ ६३॥
स्थूले च मध्यमे भागे कारणानुगतिः स्फुटा ।
धीप्राणवाक्षु सन्देहं दधिदृष्टान्ततोऽनुदत् ॥ ६४॥
घृते विलीनो दध्यंशोऽनुगतो भाति न स्फुटः ।
तथापि दधिकार्यत्वं विद्यते सर्वसम्मतम् ॥ ६५॥
तथा मनःप्राणवाचां भवत्वन्नादिकार्यता ।
अतीन्द्रियत्वात् प्रत्यक्षा कारणानुगतिर्न हि ॥ ६६॥
नित्यद्रव्यं मनो नान्नकार्यमित्याह तार्किकः ।
स एषोंऽङ्गारदृष्टान्तद्वारेण प्रतिबोध्यते ॥ ६७॥
यथा खद्योतमात्रः स्यादङ्गारः काष्ठसङ्क्षये ।
काष्ठवृत्तौ(वृद्धौ)ज्वलत्यग्निस्तथा विद्यान्मनोन्नयोः ॥ ६८॥
त्यक्तेऽन्ने पञ्चदशसु दिनेषु क्षीयते मनः ।
तेन स्मर्तुं न शक्तोऽभूच्छ्वेतकेतुर्न किञ्चन ॥ ६९॥
अन्नेन पुष्टे मनसि वेदान् सस्मार तत्क्षणात् ।
अन्वयव्यतिरेकाभ्यां मनोऽन्नमयमिष्यताम् ॥ ७०॥
भौतिकत्वेऽखिलस्यैवं स्थिते भूतातिरेकतः ।
तन्नास्ति तद्वद्भूतानि नैव सद् व्यतिरेकतः ॥ ७१॥
जगतः कारणं यत्सदद्वैतं तद्विजज्ञिवान् ।
श्वेतकेतुस्तावतास्य जीवत्वं न निवर्तते ॥ ७२॥
स्वस्य ब्रह्मत्वबोधेन जीवत्वमपगच्छति ।
इत्यभिप्रेत्य तं शिष्यं पुनः प्रोत्साहयत्यसौ ॥ ७३॥
स्वप्नावसानं जानीहि मम व्याकुर्वतो मुखात् ।
स्वस्य स्वरूपं सत्तत्वमिति सुप्तौ स्फुटं खलु ॥ ७४॥
यदा सुषुप्तिमाप्नोति पुमानेतं तदा जनाः ।
स्वपितीत्याहुरेतस्य तात्पर्यं प्रविचिन्त्यताम् ॥ ७५॥
तिङन्तं पदमज्ञानां सुबन्तं तु विवेकिनाम् ।
स्यान्निद्राणस्य नामैतद्वस्तुतत्त्वावभासकम् ॥ ७६॥
स्वप्नजागरयोर्जीवः सत्तत्त्वाद्भिन्नवद्भवेत् ।
सुषुप्तौ सम्यगेकत्वं याति सद्वस्तुना सह ॥ ७७॥
जीवत्वमात्मनः प्राणधारणान्न स्वभावतः ।
सद्रूपत्वं स्वतस्तत्तु स्फुटं स्वपिति नामतः ॥ ७८॥
स्वमपीतीति नाम्नोऽस्य निरुक्तिरवगम्यताम् ।
स्वरूपं वास्तवं सुप्तौ प्राप्यमित्युदितं भवेत् ॥ ७९॥
उपाधेर्मनसो जाग्रत्सुप्त्यवस्थे हि नात्मनः ।
इत्यभिप्रेत्य शकुनिदृष्टान्तः प्रोच्यते धियः ॥ ८०॥
शकुनिः सूत्रबद्धो यः स गच्छन्विविधा दिशः ।
अलब्ध्वाधारमाकाशे बन्धनस्थानमाव्रजेत् ॥ ८१॥
सत्तत्वे भायया बद्धं मनो जागरणं व्रजेत् ।
अलब्ध्वा तत्र विश्रान्तिं सत्तत्वे लीयते पुनः ॥ ८२॥
आत्मच्छायाऽपि मनसा सदाऽऽगच्छति गच्छति ।
गत्यागती तु संसारः स च स्वात्मनि कल्पितः ॥ ८३॥
मनोलयेऽनुपाधिः सन्नात्मा संसारवर्जितः ।
स्वेन वास्तवरूपेण सुषुप्ताववतिष्ठते ॥ ८४॥
चिच्छाया च वपुः स्थूलमिन्द्रियाण्यात्मबोधने ।
द्वाराणीत्याह मन्त्रोऽयं रूपंरूपमिति स्फुटम् ॥ ८५॥
देहे देहे प्रतिच्छायारूपोऽभूत् स्वात्मबुद्धये ।
मायाभिरिन्द्रो बहुधा देहोऽभूत् स्वात्मबुद्धये ॥ ८६॥
इन्द्रियाश्वास्तेन युक्तास्तच्च स्वात्मावबुद्धये ।
छायामाश्रित्य तत्रात्मा बोधितः सुप्तिवर्णनात् ॥ ८७॥
अशनायापिपासोक्त्या देहमाश्रित्य बोध्यते ।
अशनायापिपासाख्याद्वयं स्वपितिनामवत् ॥ ८८॥
अशनाया जनैः प्रोक्ता क्षुधावस्तुविवेकिभिः ।
नयत्यशितमित्येवमप्सु निर्वचनं भवेत् ॥ ८९॥
पीता आपोऽशनं भुक्तं द्रवीकृत्य नयन्त्यतः ।
अशनायेति शब्दोक्ता विण्मांसोत्पत्तिरन्नतः ॥ ९०॥
विण्मांसहेतुरन्नं यदेतस्योत्पादकं जलम् ।
जलस्योत्पादकं तेजस्तस्य चोत्पादकं च सत् ॥ ९१॥
अनुमायात्र कार्येण ज्ञेयं तत्कारणं परम् ।
सन्मूलकारणं ज्ञेयं स्याद्विश्वासोऽनुमानतः ॥ ९२॥
पुरीषाद्यन्नकार्यं स्यात् सत्येवान्नस्य सत्त्वतः ।
सत्यामेव यथा कुम्भो मृदि दृष्टो न चान्यथा ॥ ९३॥
व्रीह्माद्यन्नं सतीष्वेव दृष्टमप्सु न चान्यथा ।
आपश्च स्वेदरूपा स्युः सत्येवोष्णे हि तेजसि ॥ १४॥
तेजश्च भावरूपत्वात्सम्भवेन्न सता विना ।
सतस्तूत्पत्तिराहित्यान्नान्वेष्यं कारणान्तरम् ॥ ९५॥
सम्मूलाः सकला देहा इदानीं च सति स्थिताः ।
अन्ते सत्येव लीयन्ते विद्यात्सत्तत्त्वमद्वयम् ॥ ९६॥
यथा भूतातिरेकेण भौतिकं नैव विद्यते ।
भूतानि च सतोऽन्यानि तथा नेत्युपपादितम् ॥ ९७॥
अशनायामुखेनेत्थं सत्तत्त्वे धीः प्रवेशिता ।
पिपासामुखतोऽप्यस्मिन् सति धीरवतार्यते ॥ ९८॥
उदन्येति पिपासाया पर्यायस्तं विवेकिनः ।
उदकं जयतीत्येवं तेजस्येवं प्रयुञ्जते ॥ ९९॥
पीतं जलं शरीरस्थं तेजसा जीर्यते ततः ।
मूत्रं रक्तं च निष्पन्नं द्रवत्वाज्जलजे उभे ॥ १००॥
ताभ्यामापोऽनुमीयते ताभिस्तेजस्ततस्तु सत् ।
व्याप्तिं गृहीत्वा सर्वत्र योजनायोदितं पुनः ॥ १०१॥
देहे येऽवयवाः सन्ति पदार्थाः सन्ति ते बहिः ।
तेषु सर्वेषु सन्मात्ररूपत्वमवधार्यताम् ॥ १०२॥
भौतिकत्वं पुरा प्रोक्तं तदुक्तं देहबाह्ययोः ।
इन्द्रियद्वारतो वोद्धुं प्रोच्यते मरणक्रमः ॥ १०३॥
म्रियमाणस्य वागादिवृत्तिर्मनसि लीयते ।
मनोवृत्तेर्लयः प्राणे प्राणवृत्तेस्तु तेजसि ॥ १०४॥
श्वासस्योपरतावुष्णं स्पृष्ट्वा जीवननिश्चयम् ।
कुर्वत्युष्णं तु तत्तेजः सद्वस्तुनि विलीयते ॥ १०५॥
छायादेहेन्द्रियद्वारैः पदार्थो योऽत्र बोधितः ।
स एष सर्वजगतोऽणिमा वस्त्वन्तरं न तु ॥ १०६॥
स्थूलत्वाणुत्वरूपाभ्यां वस्त्वेकं भासते द्विधा ।
स्थूलमिन्द्रियगम्यत्वान्नामरूपात्मकं जगत् ॥ १०७॥
सदद्वैतं भवेत्सूक्ष्ममिन्द्रियाविषयत्वतः ।
एतदात्मकतैवास्य स्थूलस्येतीह युज्यते ॥ १०८॥
अणुत्वं वस्तुनः प्रोक्तं यत्तत्सत्यमबाधनात् ।
स्थूलत्वं मायया कॢप्तं ज्ञानेनैतस्य बाधनात् ॥ १०९॥
अबाध्यो यः स एवात्मा सर्वस्य न तु कल्पितः ।
श्वेतकेतो यदद्वैतं तदसि त्वं न मानवः ॥ ११०॥
चिच्छायावानहङ्कारोऽधीते वेदचतुष्टयम् ।
त्वं तु साक्ष्येव तस्यातः सदसि त्वं न चेतरः ॥ १११॥
भिन्नोऽभूद्धृदयग्रन्थिः श्वेतकेतोर्विवेकतः ।
धीदोषं संशयं मार्ष्टुं भूयो ब्रूहीत्यवोचत ॥ ११२॥
सता सम्पद्यते जीवः सुषुप्तावित्युदीरितम् ।
तथा चेत्सति सम्पन्नोऽहमित्यस्य कुतो न धीः ॥ ११३॥
नानावृक्ष रसैक्येन सम्पन्ने मधुनि स्थितः ।
न बुध्यते रसोऽस्येति तथा सर्वलयान्न धीः ॥ ११४॥
जीवोपाधिलयेऽप्यत्र तद्बीजस्यावशेषतः ।
तदुपाधिक एवास्मिन् देहेऽन्येद्युः प्रबुध्यते ॥ ११५॥
चित्तैकाग्र्याय तच्छङ्का परिहार्या तु वस्तुषु ।
पूर्वोक्तमेव तद्बोद्धुं तदेवाह पुनर्गुरुः ॥ ११६॥
प्राज्ञम्मन्यतया तत्त्वमविश्वस्य स्वशङ्कया ।
पुनः पुनरपृच्छत्तं प्रत्याहासौ पुनः पुनः ॥ ११७॥
सुषुप्तौ बुद्ध्यभावेऽपि पुनर्जागरणेऽस्ति धीः ।
आगच्छं सत इत्येत्वं तदा कस्मान्न वेत्यसौ ॥ ११८॥
सुप्तौ सद्रूपमज्ञात्वा सदैक्यं प्राप्तवांस्ततः ।
सतो नागमनं स्मार्यमपामस्मरणं यथा ॥ ११९॥
गङ्गाजलं प्रविश्याब्धौ मेघेनाकृष्य सिच्यते ।
नाज्ञातत्वात्स्मृतिस्तत्र तद्वदत्र स्मृतिर्न हि ॥ १२०॥
व्याघ्रादिः सुप्त एवात्र बुध्यते वासनावशात् ।
न नष्टा वासनेत्येवं विवक्षित्वोच्यते पुनः ॥ १२१॥
जीवस्य नश्वरस्यैक्यं न नित्येन सतेति चेत् ।
जीवो न नश्यति क्वापीत्येवं वृक्षवदीक्ष्यताम् ॥ १२२॥
शाखां वृक्षे जीवपूर्ण जीवस्त्यजति यामसौ ।
शुष्येन्नान्या तथा जीवेऽपगते म्रियते वपुः ॥ १२३॥
नामरूपयुतं स्थूलं तद्धीनात्सदणोः कथम् ।
उत्पन्नमिति चेद्बीजाद्वटवृक्षवदीक्ष्यताम् ॥ १२४॥
न्यायागमाभ्यां सिद्धं च श्रद्धाहीनः पराङ्मुखः ।
न बुध्यते श्वेतकेतो श्रद्धस्वान्तर्मुखो भव ॥ १२५॥
सत्सर्वत्र स्थितं कस्मान्न सर्वे विदुरीदृशम् ।
मुमुक्षुस्तु कथं वेत्तीत्यत्र दृष्टान्त उच्यते ॥ १२६॥
लवणस्य घनं नीरे विलीनं वेत्ति न त्वचा ।
जिह्वया वेत्ति तद्वत्सदुपायेनैव बुध्यते ॥ १२७॥
सति सर्वेन्द्रियागम्ये क उपायः स उच्यते ।
उपाय उपदेशोऽत्र भवेद्गन्धारमार्गवत् ॥ १२८॥
गन्धाराद्यो वने नीतस्तस्करैर्बद्धनेत्रकः ।
तस्य बन्धं विमुच्यात्र कृपालुर्मार्गमादिशत् ॥ १२९॥
तेनादिष्टमविस्मृत्य धीमान् गन्धारमाप्तवान् ।
अविद्ययावृतं तत्त्वं वेत्त्येवमुपदेशतः ॥ १३०॥
अश्लेषनाशौ विदुषः सञ्चितागामिकर्मणोः ।
प्रारब्धे भोगसङ्क्षीणे मुच्यते न तु जायते ॥ १३१॥
कीदृशी मतिरस्येति चेद्वागालियाद्यथा ।
मूढस्य तद्वदेवास्य वैलक्षण्यं न किञ्चन ॥ १३२॥
समानायां मृतावेको मुक्तो नान्यः कुतो वद् ।
सत्यानृताभिसन्धत्वं वैषम्यं ज्ञानिमूढयोः ॥ १३३॥
तस्करातस्करौ चौर्यशङ्कया तलरक्षकैः ।
गृहीतौ न कृतं चौर्यमित्याहतुरुभावपि ॥ १३४॥
गृहीतः परशुं तप्तं तौ तयोस्तस्करोऽनृतम् ।
अभिसन्धाय दुग्धः सन् हन्यते तलरक्षकैः ॥ १३५॥
अतस्करः सत्यसन्धो न दग्धो मुच्यते च तैः ।
अज्ञान्यनृतसन्धोऽत्र सत्यसन्धस्तु तत्त्ववित् ॥ १३६॥
मर्त्योऽहमिति सन्धाय म्रियते जायते च सः ।
ब्रह्माहमिति सन्धाय मुच्यते न च जायते ॥ १३७॥
बुद्धिदोषं समाधातुं दृष्टान्तास्तैस्तवात्र किम् ।
त्वं सदेवेत्यभिप्रेत्य नवकृत्व उपादिशत् ॥ १३८॥
भिन्नग्रन्थिः श्वेतकेतुर्मननाच्छिन्नसंशयः ।
सदद्वैतं स्वमात्मानं विशेषेणावबुद्धवान् ॥ १३९॥
श्वेतकेतोर्ब्रह्मविद्या व्याख्याता स्फुटमेतया ।
तुष्टोऽस्माननुगृह्णातु विद्यातीर्थमहेश्वरः ॥ १४०॥
इति श्रीमद्विधारण्यमुनिविरचिते अनुभूतिप्रकाशे
छान्दोग्योपनिषदि श्वेतकेतुविद्याप्रकाशो नाम तृतीयोऽध्यायः ॥ ३॥
Proofread by Rama Sivaraman