लिङ्गोपनिषत्
ॐ धर्मजिज्ञासा । ज्ञानं बुद्धिश्च । ज्ञानान्मोक्षकारणम् ।
मोक्षान्मुक्तिस्वरूपम् । तथा ब्रह्मज्ञानाद्बुद्धिश्च । लिङ्गैक्यं
देहो लिङ्गभेदे न । अज्ञानात् ज्ञानं बुद्धिश्च । चतुर्वर्णानां
धारणां कुर्यात् । पशुपक्षिमृगकीटकलिङ्गधारणमुच्यते ।
पञ्चबन्धस्वरूपेण पञ्चबन्धा ज्ञानस्वरूपाः । पिण्डाज्जननम् ।
तज्जननकाले धारणमुच्यते । ``सर्वलिङ्गं स्थापयति
पाणि- मन्त्रं पवित्रम्'', ``अयं मे हस्तो भगवान्''
इति धारयेत् । ``या ते रुद्र शिवा तनूरघोराऽपापकाशिनी'',
``रुद्रपते जनिमा चारु चित्रम्'', ``वयं सोम व्रते तव ।
मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहि ।'', ``त्रियम्बकं
यजामहे'' इति धारयेत् । ब्राह्मणानां धारणां कुर्यात् । ``पवित्रं
ते विततं ब्रह्मणस्पते'', ``सोमारुद्रा युवमेतान्यस्मे विश्वा
तनूषु भेषजानि धत्तम् । अवस्यतं मुञ्चतं यन्नो अस्ति तनूषु
बद्धं कृतमेनो अस्मत् । सोमापूषणा जनना रयीणां जनना दिवो जनना
पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य
नाभिम् ।'' इति प्राकट्यं कुर्यात् । न कुर्यात्पशुभाषणम् ।
श्रौतानामुपनयनकाले धारणम् । चतुर्थाश्रमः संन्यासाः ।
पञ्चमो लिङ्गधारणम् । अत्याश्रमाणां मध्ये लिङ्गधारी
श्रेष्ठो भवति । शिरसि महादेवस्तिष्ठतु इति धारयेत् ।
अन्यायो न्यायः । पृथिव्यापस्तेजो वायुराकाश इति पञ्चस्वरूपं
लिङ्गम् । त्वक्च्छ्रोत्रनेत्रजिह्वाघ्राणपञ्चस्वरूपमिति लिङ्गम् ।
रेतोबुद्ध्यापमनस्स्वरूपमिति लिङ्गम् । सङ्कल्प इति लिङ्गम् ।
ज्योतिरहं विरजा विपाप्मां भूयासं स्वरूपमिति लिङ्गम् । व्रतं चरेत् ।
सन्तिष्ठेन्नियमेन । सर्वं शाम्भवीरूपम् । शाम्भवी विद्योच्यते ।
चरेदेतानि सूत्राणि । पञ्चमुखं पञ्चस्वरूपं पञ्चाक्षरं
पञ्चसूत्रं ज्ञानम् । सिद्धिर्भवत्येव । ज्ञानाद्धारणं लिङ्गदेह-
प्रकार उच्यते । शिरःपाणिपादपायूपस्थं सर्वं लिङ्गस्वरूपम् ।
ब्राह्मणो वदेत् ॥
ओङ्कारो बाणः शक्तिरेव पीठं सिन्दूरवर्णं सर्वं लिङ्गस्वरूपम् ।
कैवल्यं केवलं विद्यात् । व्यवहारपरः स्यात् । प्राण एव
प्राणः । पूर्वं ब्रह्मा पीठम् । विष्णुर्बाणः । रुद्रः स्वरूपम् ।
सर्वभूतैरथापरित्याज्यश्च । विग्रहमनुग्रहलिङ्गेषु शक्तिकपालेषु
सर्ववशङ्करं विद्यात् । जातिविषयान् त्यजेत् । श्रौताश्रौतेषु
धारणम् । वेदोक्तविधिना श्रौतं तद्रहितमश्रौतम् । सर्ववर्णेषु
धारणं कैलाससिद्धिर्भवति । धारणं देहे कैलासस्वरूपम् ।
धारणं देहे कैवल्यस्वरूपम् । धाल्रणं देहे प्रणवस्वरूपम् ।
धारणं देहे वेदस्वरूपम् । धारणं देहे ब्रह्मस्वरूपम् । धारणं
देहे शिवस्वरूपम् । शिरसि बाणं बाहुनाभिपीठप्रकृतिरूपकं देहे
धारणं यस्य न विद्यते तद्देहं न पश्येत् । शिरःकपालं केशान् न
कुर्यात् । शिरःपीठं लिङ्गात्मकं सर्वम् । शाम्भवीविग्रह उच्यते ।
प्राणादिलिङ्गस्वरूपं गुरोलिङ्गम् । गुरुसम्भवात्मकं लिङ्गं प्रगुरोः ।
ततः प्रथमं प्रणिपतति । प्रणवस्वरूपं लिङ्गं ब्रह्मलिङ्गम् ।
प्रकाशात्मकं लिङ्गं विद्यालिङ्गम् । विद्यालिङ्गं ज्ञानस्वरूपम् ।
लिङ्गं प्रचरेच्छास्रात् । लिङ्गस्वरूपेयं सिद्विर्भविष्यति ।
सर्वदेहेषु लिङ्गधारणं भवति । इति वेदपुरुषो मन्यते ।
महापुरुषोपेतं यो वेद स एव नित्यपूतस्थः । स एव नित्यपूतस्थः
स्याद्दैवलौकिकः पुरुषः । स एवामुष्मिकपुरुष इति मन्यन्ते ।
जीवात्मा परमात्मा च स एवोच्यते । इष्टप्राणाभावेषु लिङ्गधारणं
वदन्ति । इष्टे धारणम् । तिस्रः पुरस्त्रिपदा विश्वचर्षणी । पुरनाशे
लिङ्गस्वरूपाज्ञासिद्धिर्भवत्यवज्ञानेऽसति । संयुक्तं लिङ्गं मोक्ष
एव भवत्येव । मोक्षमेव धारणं विद्यात् । उशन्तीव मातरं कुर्यात् ।
इत्येवं वेदेत्युपनिषत् । ॐ तत्सत् ॥
(शैव-उपनिषदः)
इति लिङ्गोपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti