मन्त्रिकोपनिषत् अथवा चूलिकोपनिषत्

मन्त्रिकोपनिषत् अथवा चूलिकोपनिषत्

स्वाविद्याद्वयतत्कार्यापह्नवज्ञानभासुरम् । मन्त्रिकोपनिषद्वेद्यं रामचन्द्रमहं भजे ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ (परमात्मस्वरूपम्) ॐ अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् । त्रिवर्त्मानं तेजसोऽहं सर्वतःपश्यन् न पश्यति ॥ १॥ (द्धिवर्त्मानं तेजसैद्धं) (परमात्मदर्शनोपायः) भूतसंमोहने काले भिन्ने तमसि वैखरे । अन्तः पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे ॥ २॥ (मायावशगतस्य अज्ञ्यस्य संसार) अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः कुमारकैः । विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् ॥ ३॥ ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत् ॥ ४॥ गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सितासिता च रक्ता च सर्वकामदुधा विभोः ॥ ५॥ (जीवेशयोः लक्षणम्) पिबन्त्येनामविषयामविज्ञातां कुमारकाः । एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगः ॥ ६॥ ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसहद्विभुः । सर्वसाधारणीं दोग्ध्रीं पीयमानां तु यज्वमिः ॥ ७॥ पश्यन्त्यस्यां महात्मानः सुवर्णं पिप्पलाशनम् । उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः ॥ ८॥ शंसन्तमनुशंसन्ति बह्वृचाः शास्त्रकोविदाः । रथन्तरं बृहत्साम सप्तवैधैस्तु गीयते ॥ ९॥ मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् । पठन्ति भार्गवा ह्येते ह्यथर्वाणो भृगूत्तमाः ॥ १०॥ (परमात्मन् एव कालादिबहुरूपत्वम्) सब्रह्मचारिवृत्तिश्च स्तम्भोऽथ फलितस्तथा । अनड्वान्रोहितोच्छिष्टः पश्यन्तो बहुविस्तरम् ॥ ११॥ कालः प्राणश्च भगवान्मृत्युः शर्वो महेश्वरः । उग्रो भवश्च रुद्रश्च ससुरः सासुरस्तथा ॥ १२॥ प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च । स्तूयते मन्त्रसंस्तुत्यैरथर्वविदितैर्विभुः ॥ १३॥ (परमात्मनो नानादर्शनविकल्पितत्वम्) तं षड्विंशक इत्येते सप्तविंशं तथापरे । पुरुषं निर्गुणं साङ्ख्यमथर्वशिरसो विदुः ॥ १४॥ चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च । अद्वैतं द्वैतमित्याहुस्त्रिधा तं पञ्चधा तथा ॥ १५॥ ब्रह्माद्यं स्थावरान्तं च पश्यन्ति ज्ञानचक्षुषः । तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः ॥ १६॥ (सर्वलयाश्रयब्रह्मज्ञानेन ब्रह्मभावापत्तिः) यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् । तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरे यथा ॥ १७॥ यस्मिन्भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः । पश्यन्ति व्यक्ततां भूयो जायन्ते बुद्बुदा इव ॥ १८॥ क्षेत्रज्ञाधिष्ठितं चैव कारणैर्विद्यते पुनः । एवं स भगवान्देवं पश्यन्त्यन्ये पुनः पुनः ॥ १९॥ ब्रह्म ब्रह्मेत्यथायान्ति ये विदुर्ब्राह्मणास्तथा । अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः ॥ लीनाश्चाव्यक्तशालिन इत्युपनिषत् ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति मन्त्रिकोपनिषत्समाप्ता ॥ चूलिकोपनिषद् Encoded and proofread by Sunder Hattangadi
% Text title            : Mantrika Upanishad
% File name             : mantrika.itx
% itxtitle              : mantrikopaniShat athavA chUlikopaniShat (sAmAnya)
% engtitle              : Mantrika Upanishad
% Category              : upanishhat, mantra
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : Vedic tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : 32/108; Shuklayajurveda Samanya upanishad
% Indexextra            : (Scan, vyAkhyA)
% Latest update         : Jan. 11, 2000
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org