पारायणोपनिषत्
अथाह वै वेदानां वेदत्वमेतेन शाक्ते शक्तित्वमेति न
वेदमातुर्वेदमातृत्वमेतेन तत्सवितुर्वरेण्यं भर्गो देवस्य
धीमहि । धियो यो नः प्रचोदयात् । परोरजसे सावदोम् । महाकालाय
विद्महे श्मशानवासिने धीमहि । तन्नो रुद्रः प्रचोदयात् । रुद्र
एवाग्निरिति । अथ प्रकाशः ॐ भूर्भुवः स्वः ॐ ऐं क्लीं सौः ।
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
परोरजसे सावदोम् । सौः क्लीं ऐं ह्रौं क्रीं क्रीं क्रीं ह्रूं ह्रूं
ह्रीं ह्रीं दक्षिणकालिके क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं स्वाहा ।
ह्रां ऐं क्लीं श्रीं ॐ ॐ ॐ श्रीं क्लीं ऐम् ।
महाकालाय विद्महे श्मशानवासिने धीमहि । तन्नो रुद्रः प्रचोदयात् ।
रुद्र एवाग्निरिति सङ्घट्टनाधीशो भवेत् ।
तदिदम्पारायणवशादानन्दपूर्णो भवेत् ।
ओघत्रयनामविशिष्टमाकृतिविशिष्टं नवनाथनामविशिष्टं वा
नाममयीमाज्ञां दद्यात् । घटिकापारायणं चरेत् । दिनाक्षरयुगाक्षरे
तद्दिननित्याहंसस्तदनु मातृकां जपेत् । कालनित्यां जपेत् ।
द्विशतसाहस्रशीर्षं तरसाग्निजापी भवेत् । मन्त्रपारायणी भवेत् ।
नामपारायणीभवेत् । चक्रपारायणी भवेत् । स सर्वं पश्यति ।
स सर्वं जलमयो भवेत् । वह्नौ वह्निमयो भवेत् । चराचरगतिर्भवेत् ।
पराशतषष्टिवाणीज्ञो भवेत् । षोढान्यासाधिकारी भवेत् । मासतः
पक्षतो वारतः पारायणी भवेत् । सर्वाधिकारी भवेत् । दृष्टाकं
चरेत् । तदाचरणी अमृतत्वं गच्छति । ब्रह्मत्वं गच्छति ।
साक्षात्सप्तमीरूपो भवेदिति प्रोतं वेद ॥
(शैव-उपनिषदः)
इत्याथर्वणीये सौभाग्यकाण्डे पारायणोपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti