श्री आर्तत्राणपरायणस्तोत्रम्

श्री आर्तत्राणपरायणस्तोत्रम्

वात्सल्यादभयप्रदानसमयादार्तार्ति निर्वापणा- दौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् । सेव्यः श्रीपतिरेक एव जगतां सन्त्यत्र षट् साक्षिणः प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ १॥ प्रह्लाद प्रभुरस्ति चेत्तव हरिः सर्वत्र मे दर्शय स्तम्भे चेत्यवदद्धिरण्यकशिपुस्तत्राविरासीद्धरिः । वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमावेदयन् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥ श्रीरामोऽत्र विभीषणोऽयमनघो रक्षोभयादागतः सुग्रीवानय पालयामि कृपया पौलस्त्यमप्यागतम् । इत्युक्त्वाभयमस्य सर्वविदितो यो राघवो दत्तवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३॥ नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मेशदेवेश्वराः पान्त्वित्यार्तरवं निशम्य करिणं देवेष्वशक्तेष्वपि । मा भैषीरिति यो ररक्ष मकराच्चक्रेण तं सहरन् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४॥ हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे क्वासि क्वासि सुयोधनाद्यपहृतां हा रक्ष मां द्रौपदीम् । (सुयोधनादवगतां) इत्युक्तेऽक्षयवस्त्रसंवृततनुं योऽरक्षदर्धक्षणा- (वस्त्ररक्षिततनुं योऽरक्षदापद्गणाद्-) दार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५॥ यत्पादाब्जनखोदकं त्रिजगतां पापौघविच्छेदनं यन्नामामृतपूरमस्तु पिबतां संसारसन्तारकम् । पाषाणोऽपि यदङ्घ्रितो मुनिव धू रूपं परं प्राप्तवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ६॥ पित्रा भ्रातरमुत्तमासनगतं भक्तोत्तमः स ध्रुवो दृष्ट्वा तत्सममारुरुक्षुरुदितो मात्रावमानं गतः । यं गत्वा शरणं जगाम तपसा हेमाद्रिसिंहासनं ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ७॥ योऽरक्षद्वसनादिभिर्विरहितं विप्रं कुचेलाभिधं दीनं दीनचकोरपालनविधुः श्रीशङ्खचक्रोज्ज्वलः । यज्जीर्णाम्बरमुष्टिमेयपृथुकानादाय भुक्त्वा क्षणात् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ८॥ यं कल्याणगुणाभिरामममलं शास्त्राणि सञ्चक्षते । यस्मिन् योगयुते प्रतिष्ठितमिदं विश्वं वदन्त्यागमाः । यो योगीन्द्रमनःसरोरुहतमःप्रध्वंसने भानुमान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥ योऽत्रासीदरविन्दगर्भजनुषं ब्रह्माणमार्तिं गतं भीतं कैटभराक्षसेन मधुना कल्पान्तकाले महान् । हत्वा तौ मधुकैटभौ रणमुखे भक्तार्तिसंशोषणात् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १०॥ यन्नामस्मरणादघौघरहितो विप्रः पुराजामिलः प्रायान्मुक्तिमशेषतो विरहितः संसारदावानलात् । सोऽयं भागवतोत्तमावन इति प्राप्तप्रतिष्ठोऽचिरात् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ११॥ कावेरीहृदयाभिरामपुलिने पुण्ये जगन्मण्डले चन्द्रार्काख्यसरित्तटीपरिसरे धात्रा समाराधिते । श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १२॥ वक्त्रेन्दुद्युतिमण्डिताब्जनयनो गण्डोल्लसत्कुण्डलः श्रीवत्सोरुमणिश्रियाप्तहृदयः स्वर्णाम्बरो यो भुजैः । शङ्खं चक्रगदाभयानि बिभृते पद्माङ्घ्रिरत्युन्नतो ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १३॥ कर्मब्रह्मनिदानवेदनिकरं हृत्वा महीमण्डलं त्यक्त्वा निर्मितमन्दिरोऽभवदथो मध्येमहासागरम् । हन्तुं सोमकनानकं तमसुरं मत्स्यस्वरूपं दधा- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १४॥ कृत्वा मन्दरनामकं गिरिवरं मन्थानदण्डं पुरा क्षीराब्धौ मथनं चितेनुरधिकं सर्वेऽपि देवासुराः । मज्जन्तं नगमुद्दिधीर्षुरभवद्यः कच्छपाकारवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १५॥ भूलोकं प्रलये महार्णवजले तान्तं नितान्तं चिरं ब्रह्माद्यैरखिलैरशक्यममरैर्धर्तुं महोपद्रवे । वाराही तनुरत्र धर्तुमनसा येनास्थिता लीलया ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १६॥ missing in the manuscript ॥ १७॥ स्वाराज्ये बलिचक्रवर्त्यपहृते दारिद्र्यसम्पीडितै रिन्द्राद्यैरमरैरशेषमुनिभिः संस्तुत्य सम्प्रार्थितः । तानेतान् सफलान् विधातुमखिलान् यो वामनाकारवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १८॥ कर्मब्रह्मविचारदक्षमनसो धर्मार्थकामेषु च । प्रोत्साहं नितरामसक्तमनसः कुर्वन्ति ये ब्राह्मणाः । इत्वा क्षत्त्रमपालयद् द्विजवरान् यो भार्गवाकारवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १९॥ इन्द्रादीनमरांस्तथा मुनिवरान् यो रावणो बाधते भागान् हन्ति तथैव यो दिविषदामाग्नेयागादिषु । जित्वा तं सकलांश्च रक्षितुमना यो रामरूपं दधा- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २०॥ गोपालानतिपामरानविदुषो मायावृतान् रक्षितुं यः प्रापानकदुन्दुभेश्च सदने श्रीकृष्णरूपं हरिः । तज्ज्येष्ठो बलराम इत्यजनि यो ह्यन्वर्थनामा महान् आर्तत्राणपरायणः स भगवान्नारयणो मे गतिः ॥ २१॥ इन्द्रादीनमरांस्तथा मुनिवरान् सम्पीडितान् राक्षसै- स्त्रातुं मन्त्रगुरूपदेशविधिना भूतानि सम्मोहयन् । नित्यं धर्मपरायणः स्वयमपि श्रीबौद्धरूपं दधा- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २२॥ वर्णाचारविवर्जिते कलियुगे दुष्टस्वभावैर्जनै- गर्वेणोद्धतमानसैर्मुनिगणान् सम्पीड्यमानांस्तथा । त्रातुं कल्क्यवतारमाप भगवान् यः सर्वसाक्षी पुमान् आर्तत्राणपरायणः स भगवन्नारायणो मे गतिः ॥ २३॥ शैलारातिनियुक्तभीषणमहाकादम्बिनीमण्डले रुद्ध्वा खं विदिशो दिशोऽशनिशिलासारान् भृशं वर्षति । योऽरक्षद्व्रजगोकुलं करतलेनोद्धृत्य गोवर्धनं ह्यातत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २४॥ कारावेश्मनि भीमविक्रमजरासन्धेन बन्दीकृतान् भूपालानखिलाननन्यगतिकान् विज्ञपितस्वव्यथान् । बन्धान्मोचयितुं प्रभञ्जनभुवा योऽजीघनत्तं समि- त्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २५॥ क्षुत्तृष्णार्तसहस्रयोगिसहितं दुर्वाससं क्रोधिनं द्रौपद्या विघसाणुमभ्यवहरन् शाकं स्वहस्तार्पितम् । तृप्त्यातर्पयदात्मनोऽस्य जगतस्तृप्तिं समावेदयन् आर्तत्राणपराणः स भगवान्नारायणो मे गतिः ॥ २६॥ सीताया अपचारिणं हरिहरब्रह्मादिभिर्दुर्ग्रहं बाणेनाभिहतं निजेन पुनरप्यायातमङ्घ्रिद्वयम् । काकाकारनिशाचरं करुणयारक्षद्विपन्नं भया- दार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २७॥ वालिप्राप्तकलत्रराज्यविभवं दीनं कुशं निर्दशं सुग्रीवं स्वपदग्रहैकशरणं कृत्वा कटाक्षास्पदम् । तद्दुःखान्यहिते सरोषमकरोद्यः स्वप्रतिज्ञाबलात् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २८॥ शूद्रे घोरतपस्समाचरति तद्दोषेण मृत्युं गते कस्मिंश्चित् पृथुके तदीयजननीपित्रोर्महादुःखयोः । हत्वा शू द्रशिरो मृतस्य च शिशोः प्राणान् पुनर्योऽददात् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २९॥ यस्माद्रक्तपिपीलिकादिरचनादेवेशपर्यन्तकं यो रक्षत्यखिलं चराचरमिदं नित्यं जगन्निर्मितम् । कर्मब्रह्मविचारदक्षमनसामैक्येन यो रक्षिता ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३०॥ तत्सृष्ट्वा तदनुप्रविश्य सदभूत्त्यच्चाभवद्यः पुमान् एषा ह्येव मुखाच्छ्रुतिश्च सकला यं बोधयत्यादरात् । यो गृह्णाति यथोर्णनाभिरुदरे सर्वं जगन्निर्मितं ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३१॥ सत्यं ज्ञानमनन्तमादिसकलश्रुत्यर्थमीमांसया सत्योऽहं चिदहं (तथान्तरहितो) ब्रह्मास्म्यहं सर्वदा । एवं वृत्तिभिरर्दितानविदुषो यो बोधयत्याख्यया ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३२॥ चिद्रूपी च समस्तभेदरहितो यश्चाभवन्निर्ममो- यः स्थूलादिशरीरबन्धरहितो यः सत्यरूपः सदा । कर्तुं स्वीयमुपासकं फलयुतं यः कल्पिताकारवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३३॥ शब्दात् सर्पमृतिस्तथा गजमृतिः स्पर्शात्तथा रूपतो नष्टोऽभूच्छलभस्तथैव रसतो मत्स्याश्च गन्धादलिः । सर्वैः स्वैर्विषयैर्निपीडिततनून् यः पालयत्याश्रितान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३४॥ भूलोकादिसमस्तलोकनिचयं कृत्वागजातं तनोः स्वीयायाः सकलं चराचरमिदं पादादिशीर्षान्तकम् । यो ब्रह्माण्डसमष्टिरूपतनुभृद्वैराजनामा बभा- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३५॥ श्रोत्रत्वासनादिधीन्द्रियचयो वागादिकर्मेन्द्रिय- स्तोमः प्राणचयश्च सप्तदशकं लिङ्गं मनो धीरपि । तादृग्लिङ्गसमष्टिरूपतनुमान् हैरण्यगर्भो बभू- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३६॥ अव्यक्तं प्रकृतिः प्रधानमपि चाविद्या च माया तथा- निर्वाच्या गुरुमूर्तिरादिरहिता चिच्छक्तिरित्युच्यते । तादृग्घेतुसमष्टिरूपतनुभृत् सर्वेश्वरो यो बभू- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३७॥ एको दीव्यति यश्चराचरजगद्गूढोऽखिलव्यापक- श्चान्तर्यामितया स्थितश्च जगतां यः कर्मणामीश्वरः । आवासो निखिलस्य पश्यति च विद्यः केवलो निर्गुण- श्चार्तन्त्राणपरायणः स भगवान्नारायणो में गतिः ॥ ३८॥ यो देवो निजमायया जगदिदं निर्माय सम्पोषयन् अन्ते स्वात्मनि सन्दधाति नितरामानन्दपूर्णो हरिः । सत्यात्मा विभुरादिमध्यरहितो गम्भीरकर्मा महान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३९॥ सर्वात्मानमजं चिदम्बरपरिज्ञेयं मनोऽगोचरं वागर्वाचि गतं जराकृतितनुं चैतन्यसम्पादकम् । एकं नैकविधस्वरूपममलं यं वेद पङ्केजभू- रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४०॥ निर्भेद निरुपद्रवं निरुपमं निर्वाणदं निर्मलं निष्कम्पं निरुपाधिकं निरशनं नित्यामृतोद्दायकम् । निर्वेलं निरतोदयं निरुदयं यं वेद दुर्गाधिराट्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४१॥ सत्यं ज्योतिरनादि यञ्च कलयन्नात्मन्यजस्त्रं जग- न्निर्द्वैतो विचचार चारणगणैः संस्तूयमानः शुकः । लोको बुद्बुदतौल्यमेति किल यत्राम्भोनिधौ चाञ्चलन् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४२॥ नद्यः स्यन्दनसंयुता जलनिधौ स्वे नामरूपे यथा सन्त्यज्यैक्यमुपागताश्च सकलास्तद्वत् पुमान् ब्रह्मवित् । रूपं नाम विहाय पूर्णतनुमन्नरायणैक्यं गत- श्चार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४३॥ ब्रंहिष्ठादिपिपीलिकान्तहृदये या प्रीतिरास्ते सदा सैषार्धोऽभिमतः समस्तविदुषामाद्यस्य वाक्यस्य च । सैषानन्दलवो हि यस्य महतो नारायणस्य प्रभो- रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४४॥ आदित्यादिचतुर्मुखान्तहृदये या प्रीतिरास्ते सदा सैषार्धोऽभिमतः समस्तविदुषां मध्यस्थवाक्यस्य च । अन्त्यात्त्वैक्यपदी ददौ सपदि या नारायणैक्यं तयो- रार्तत्राणपरायणः स भगवान्दारायणो मे गतिः ॥ ४५॥ येनाघ्राणनिरीक्षणग्रहणधीर्वाग्व्याकृतिर्येन च स्वाद्वस्वाद्विति येन विन्दति च तत्प्रज्ञानमित्युच्यते । प्रज्ञानं मयि तादृशं विजयते यस्य स्वरूपं विभो- रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४६॥ यच्चैतन्यमशेषदेवनिचये सर्वेषु मर्त्येष्वपि प्राणिष्वद्य गवादिषु प्रकटितं ब्रह्मेति तत्रोच्यते । तादृब्रह्म विराजते मयि सदा यस्यैव धाम प्रभो- रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४७॥ विद्यार्हे परिपूर्णमत्र निवसन् देवः परात्माभितो बुद्धेः साक्षितया स्फुरन्नहमिति ज्ञेयः सदा प्रोच्यते । सोऽयं तादृगहं बभूव सततं यस्यैव चांशः प्रभो- रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४८॥ सर्वत्र स्वयमेव पूर्णतनुमान् देवः परात्मा विभुः सर्वैर्ब्रह्मविदां गणैः सुमनसां ब्रह्मेति संवर्ण्यते । तद्ब्रह्माहमिति प्रमास्मि वदतो यः स्वानुभूतिं ददा- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४९॥ एकं वास्त्वितरेण शून्यमभितः सन्त्यक्तनाम स्वयं रूपेणापि विवर्जितं यदभवत्तत्त्वम्पदार्थं विदुः । श्रीनारायणमूर्तिरेव भगवान् यत्तत्पदार्थश्रुता- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५०॥ श्रोतुः शिष्यजनादपीन्द्रियचयाद्देहत्रयाच्चापि य- द्वस्त्वेकं नितरां विलक्षणमहो तत्त्वम्पदार्थं विदुः । तादृक् त्वं तदसीति देशिकगिरा प्राप्नोति येनैकता- मार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५१॥ नित्यं वस्तु विराजते स्वयमहो स्वस्यापरोक्षं सदा साक्षी स्वीयतनोश्च सर्वविबुधैः सोऽयं तदात्मोच्यते । आत्मा योऽयमभूतपूर्वमहिमा यस्यैव लेशः स्फुरन् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५२॥ आत्मा यस्तु विराजतेऽस्य जगतो दृश्यस्य सर्वस्य च स्थित्वा साक्षितया चकास्ति तमिमं ब्रह्मेति सर्वे विदुः । ब्रह्मात्मायमिति प्रसन्नहृदये नारायणात्मा बभा- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५३॥ चिद्रूपो मधुशासनो मधुहरो मायातिगो निर्गुणो सन्तो विश्वपरः पुराणपुरुषो नित्योदितो निर्मलः । नित्यानन्दवपुर्भवन् भवहरो यो वासुदेवः पुमान्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५४॥ आर्तत्राणपरायणस्तवमिमं धर्मादिमोक्षप्रदं व्यासाचार्यकृतं परं शुभकरं सर्वाघविध्वंसनम् । नित्यं यः पठति प्रभातसमये श‍ृण्वन्नरो भक्तिमान् श्रीवैकुण्ठपदं स याति विमलं योगीन्द्रलभ्यं पदम् ॥ ५५॥ इति श्री आर्तत्राणपरायणस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Artatrana Parayana Stotram 03 06
% File name             : ArtatrANaparAyaNastotram.itx
% itxtitle              : ArtatrANaparAyaNastotram ((ArttatrANaparAyaNastutiH 3)
% engtitle              : ArtatrANaparAyaNastotram
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 03-06
% Indexextra            : (Scan)
% Latest update         : November 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org