श्रीनृसिंहार्चनपद्धतिः २

श्रीनृसिंहार्चनपद्धतिः २

श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः । श्रीमत्पद्मसमुद्भवादिभिरलं संसेवितः सर्वदा । यन्नामस्मृतितोऽपि कर्णविवरं विघ्नस्य वार्ता कदा ॥ नो यातीत्थमतीवयस्य पटुता जागर्ति तं सिद्धिदम् । हेरम्बं हृदि चिन्तयामि विलसत्प्रेम्णाघ सङ्घाछदम् ॥ १॥ मातस्त्वत्पदपद्मयोर्मम मनोभृङ्गश्चिरं तिष्ठतु । प्रेम्णातीव विहाय सर्वविषयास्वादस्पृहां चञ्चलः ॥ एवं तं परिपूयेप्सितममुंकामं मदीयं शिवे । कस्याप्यत्र भवेत् सुखं न गिरिजे नानाविपत्सम्भवे ॥ २॥ उत्तरानन्दनाथानां हृदि चिन्त्य पदद्वयम् । उपासकानां कृपया मतमन्त्रमहोदधेः ॥ ३॥ यथामति समादाय शारदातिलकस्य च । अति सङ्क्षेपतः कुर्वे नृसिंहार्चाविधिक्रमं ॥ ४॥ केयं कृतिः क्व मन्दोऽहं अतोदः साहसं गुरुम् । बालोऽहमिति मां मत्वा क्षन्तव्यं सदुपासकैः ॥ ५॥ नोचेत्कृपालवः सेतो कथं स्यात् वचनं स्फुटम् । अङ्गीकार्येति कृपया रचनेयं मया कृता ॥ ६॥ तत्र श्रीमान्साधकेन्द्रो ब्राह्मे मुहूर्ते चोत्थाय । समुद्रमेखले देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ ७॥ इति भूमिं प्रार्थ्य । श्वासानुसारेण भूमौ पादं दद्यात् इति । प्रातरुत्थानविधिः । ततः आवश्यकं कृत्वा रात्रिवासांसि त्यक्त्वा शुद्धे वाससी परिधाय आचम्य मनसा शुचिर्भूत्वा मृद्धासने समुपविश्य शिरसि सहस्त्रदलमध्ये श्रीगुरुं ध्यायेत् । यथा । सहस्त्रदलपङ्कजे सकलशीतरश्मिप्रभं वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् । प्रसन्नवदनेक्षणं सकलदेवतारूपिणं स्मरामि शिरसिच्छितदं तदभिधानपूर्वं गुरुम् ॥ इति ध्यात्वा ॥ तच्चरणकमलनिस्पन्दधारयात्मानं अभिषिक्तं मत्वा सङ्घट्टनमुद्रया स्वशिरसि पादुके न्यसेत् । यथा ऐं ह्रीं श्रीम् ॥ अमुकानन्दनाथ अमुकदेव्याम्बा श्रीपादुकां पूजयामि नमः । इति गुरुपादुकां विन्यस्य मानसोपचारैः पूजयेत् । गुरुपादुकाभ्यां नमः ॥ लं पृथिव्यात्मकं गन्धं कल्पयामि नमः । इत्यङ्गुष्ठेन कनिष्ठिकां स्पृशेत् । हं आकाशात्मकं पुष्पं कल्पयामि नमः । वौषडिति तर्जनीं अङ्गुष्ठेन स्पृशेत् । गुरुपादुकाभ्यां नमः । तथैव स्पृशेत् । गुरुपादुकाभ्यां नमः । रं वह्नितत्त्वात्मकं दीपं कल्पयामि नमः । मध्यमां अङ्गुष्ठेन स्पृशेत् । गुरुपादुकाभ्यां नमः । वं अमृतत्वाय । सुधा इत्यनामिकया अङ्गुष्ठं स्पृशेत् । गुरुपादुकाभ्यां नमः । सं सर्वमयतत्त्वात्मकं ताम्बूलं कल्पयामि नमः इति । सर्वाभिरङ्गुलीभिः । इति सम्पूज्य योनिमुद्रया प्रणम्य गुर्रुपादुकामन्त्रं यथाशक्त्या प्रजप्य श्रीगुरुद्वैतं ध्यायेत् । गुरुस्तोत्रं उदीरयेत् । यथा - नमस्ते नाथ भगवान् शिवाय गुरुरूपिणे । विद्यावतारसंसिध्यै स्वीकृतानेकविग्रहः ॥ १॥ नवाय नवरूपाय परमार्थैकरूपिणे । सर्वज्ञानतमोभेदभानवे चिद्घनायते ॥ २॥ स्वतन्त्राय दयाकॢप्त सविग्रहाय चिदात्मने । परतन्त्राय भक्तानां भव्यानां भावरूपिणे ॥ ३॥ विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् । प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ ४॥ पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः । सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥ ५॥ इति स्तुत्वा । व्यापकत्वेन भावयेत् इति गुरुपूजाविधिः । ततो मूलाधारादि ब्रह्मरन्ध्रान्तं मूलविद्या विचिन्तयेत् । उद्यद्दिनकरोद्योतां यावत् बद्धदृढासनः । अशेषाशुभशान्त्यर्थं समाहितमनाश्चिरम् ॥ १॥ तत्प्रभापटलव्यासं स्वदेहं परिचिन्तयेत् । ततो वक्ष्यमाणऋष्यादिके षडङ्गं कृत्वा यथोक्तम् । श्री नृसिंहमूर्तिं ध्यात्वा पूर्ववन्मानसोपचारैःसम्पूज्य यथाशक्ति मूलं प्रजप्य वक्ष्यमाणमन्त्रेण जपं समर्प्य श्री गुरुदेवतात्मनामैक्यं विभाव्य नृसिंहस्तोत्रमुदीरयेत् । यथा- प्रातः स्मरामि नृहरिं च अनन्तमाद्यं लक्ष्म्याश्रिताङ्गममलं सुरसङ्घबन्धम् । यत्पादनिर्गतजलं जलमूर्ध्निधारी श्रीशङ्करेण सततं दुरितापहारि ॥ १॥ प्रातःस्मरामि भुवनत्रयपालनाथ स्तम्भं हिरण्यकशिपोः प्रविदारणाय । भित्वा नखैरजनि येन तमार्तबन्धुम् प्रह्लादरक्षणपरं करुणैकसिन्धुम् ॥ २॥ प्रातः स्मरामि फणिराजफणातपत्रं पीताम्बरं त्रिनयनं कृतसच्चरित्रम् । चक्रं च शङ्खममलाब्जगदादधानं दौर्भिः सुवर्णमणिभूषणराजमानम् ॥ ३॥ प्रातःस्मरामि सितकण्ठमपापशीलं क्षीराब्धिमध्यनिलयं हृतशत्रुजालम् । ब्रह्मात्मजादि मुनिभिः स्तुतमुग्ररूपं नारायणं मुररिपुं विविधस्वरूपम् ॥ ४॥ प्रातःस्मरामि धृतदैत्यवरान्त्रमालं दीर्घस्वरप्रचकितारिव लोकजालम् । घोरास्यलोलरसनं हरिमाप्तकामं श्वासानिलक्षुभितवारिनिधि प्रकामम् ॥ ५॥ यः श्लोकपञ्चकमिदं प्रातर्नित्यं पठेन्नरः । तस्मै नरहरिः सर्वं मनोभिष्टं प्रयच्छति ॥ ६॥ एवं स्तुत्वा नरहरिं निजकृत्यं निवेदयेत् । प्रातः प्रभृति सायान्तं सायादि प्रातरन्ततः ॥ ७॥ यत्करोमि जगन्नाथं तदस्तु तव पूजनम् । इति सम्प्रार्थ्यग्न्यकृतार्थमाज्ञां प्रार्थयेत् ॥ ८॥ यया त्रैलोक्यनाथाब्ज पदारविन्द स्वामिन्नृहरे त्वच्चरणाज्ञयैव । प्रातः समुत्थाय तत्प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥ ९॥ संसारयात्रामनुवर्तमानं त्वदाज्ञया विश्वगुरोर्नृसिंहः । स्पर्धातिरस्कारकलिप्रमादि भयानि मासाभिभवन्तु देव ॥ १०॥ जानामि धर्मं नच मे प्रवृत्तिः जानाम्यधर्मं न च मे निवृत्तिः । त्वया सुरश्रेष्ठ हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ११॥ इत्यनुज्ञां गृहीत्वा गुरूपदेशेन ज्ञातं सहजसिद्धमजपाञ्जपं निवेदयेत् । यथा । विशेषसयुत चतुर्दलमूलाधारा छायारुणवाससे वारणास्याया वराभयचारुपाशां कुशोद्योतितकराय रक्तवर्णाय स्वशक्तिसहिताय गणपतये षट्शतमजपाजपं समर्पयामि नमः । ॐ ब भ म य र ल युत षट्दलस्वाधिष्ठान छायायाभयवरकमण्डल्वक्षमालाय सावित्रीसहिताय ब्रह्मणे षट्सहस्रमजपाजपं समर्पयामि नमः । ॐ उ ढ ण त थ द ध न प फ युत दशदल मणिपुरस्थाय शङ्खचक्रगदापद्महस्ताय पीताम्बरधराय श्रीवत्सलाञ्छनायेन्द्र-नीलनिभाय जगन्मोहनाय लक्ष्मीसहिताय विष्णवे षट्सहस्रमजपाजपं कल्पयामि नमः । क ख ग घ ङ् च छ ज झ ञ् ट ठ अनाहतस्थाय कर्पूरधवलाय कपर्दिने शशाङ्क शेखराय गङ्गाधराय नागाभरणाय कृत्तिवाससे भस्मोद्धूलनाय नीलकण्ठाय वृषभवाहनाय सायुधाय पार्वतीसहिताय रुद्राय षट्सहस्रमजपाजपं समर्पयामि नमः । अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः एतद्युता षोडषदलविशुद्धस्थाय मूर्तामूर्ताय अमेयापाकलङ्काय ज्योतिस्वरूपाय विद्याशक्तिसहिताय जीवात्मने सहस्रमजपाजपं कल्पयामि नमः । ह क्ष युत द्विदलायाज्ञाचक्रस्थाय स्वशक्तिसहिताय परमात्मने सहस्रमजपाजपं कल्पयामि नमः । अनुलोमविलोममातृकायुताय सहस्रदलकमलस्थाय स्वशक्तिसहिताय श्रीगुरवे सहस्रमजपाजपं समर्पयामि नमः । इति जपं समर्प्य । पुनः कं तु जपसङ्कल्पं कुर्यात् । यथा । अथ सूर्योदयादारभ्याहोरात्रेण षट्शताधिकमेकविंशतिसहस्रं उच्छ्वासविश्वासात्मकं अजपाजपमहं करिष्येति सङ्कल्प्य हंसः सोऽहमितिमन्त्रेण प्राणायामत्रयं कृत्वा ऋष्यादि न्यसेत् ॥ यथा । ॐ अस्य श्री अजपागायत्री मन्त्रस्य परमहंसऋषये नमः । शिरसि । अव्यक्त गायत्रीछन्दसे नमः ॥ मुखे ॥ परमहंस देवतायै नमः । हृदये । हं बीजाय नमः । गुह्ये ॥ स्वाहा शक्तये नमः । पादयोः । सोऽहं कीलकाय नमः ॥ सर्वाङ्गे ॥ ॐ कारतत्त्वाय नमः । हृदये । नभस्थानाय नमः । मूर्ध्नि । हेमवर्णाय नमः । सर्वाङ्गे । उदात्ताय नमः । कण्ठे । श्रीलक्ष्मीनृसिंहप्रीत्यर्थं जपे विनियोगः । इति ऋष्यादि न्यासः । अथ षडङ्गम् । हं सों सूर्यात्मने स्वाहा । अङ्गुष्ठाभ्यां नमः । हं सों सोमात्मने तर्जनीभ्यां नमः । हं सां निरञ्जनात्मने मध्यमाभ्यां नमः । हं सैं निराभासात्मने अनामिकाभ्यां नमः । हं सौं अनुसूक्ष्मात्मने प्रचोदयात् स्वाहा । कनिष्ठिकाभ्यां नमः । हं सः अव्यक्तप्रबोधात्मने स्वाहा । करतलकरपृष्ठाभ्यां नमः एवं हृदयादि । अथ ध्यानम् । अग्नीषोमगुरुद्वयं प्रणवकं बिन्दुत्रिकोणोज्वलम् । भास्वद्रुद्रमुखं शिवाङ्घ्रियुगलं पार्श्वस्थकालानलम् ॥ उद्यद्भास्करकोटिकोटिसदृशां हंसं जगद्व्यापिनम् । शब्दब्रह्मतनुं हृदिंअम्बुजकुटीनीडे सदा संस्मरेत् ॥ १॥ अयं परमहंसस्तु सर्वव्यापिप्रकाशवान् । सूर्यकोटि प्रतीकाशः स्वप्रकाशो न भाषते । हं कारणे बहिर्याति सकारण विशत्यम् । हंसः सोऽहं इमं ध्यायन्प्रजपेद्यः समुक्तिभाक् ॥ ३॥ इति ध्यात्वा ॥ तदनुसन्दधानेन हंस वा गायत्री मन्त्रस्य यशाशक्त्या प्रजप्य केनापि चिद्विलासने प्रवर्तमानोऽस्मीति मत्वा गृहाद्बहिर्गच्छेत् । हंस वा गायत्री यथा । हंसो हंसाय विद्महे सोऽहं हंसाय धीमहि ॥ हंसः सोऽहं प्रचोदयात् । इत्यजपाविधिः ॥ ततो विहितदिने विहितकाष्ठे ॥ ४॥ ॐ क्लीं कामदेवाय सर्वजनप्रियाय नमः । इति मन्त्रेण दन्तान् विशोधयेत् । इति दन्ताधावनम् । ततः मूलेन मुखप्रक्षालनम् । इति मुखप्रक्षालनविधिः । ततः शुचिराचान्तः श्रीलक्ष्मीनृसिंहपदारविन्दकृतचित्तो गृहीतस्नान सामग्रिको नद्यादौ गत्वा अस्त्रमन्त्रेण तीरं प्रक्षाल्य स्नानसामग्रिं तत्र निधाय गुरुगणपतिरिष्टदेवतावन्दनपूर्वकं जलान्तः प्रविश्य मलापकर्षणस्नानं कृत्वा नाभीमात्रजले स्थित्वा स्वशाखोक्तविधि स्नात्वा । तान्त्रिकस्नानं कुर्यात् । यथा । आचम्य प्राणायामत्रयं कृत्वा । प्राणायामलक्षणं दक्षिणामूर्तिसंहितायाम् । मूलमन्त्रेण देवेशो वामेनापूर्य चोदरम् । कुम्भकेन द्विरावृत्या दक्षिणेन विरेचयेत् इति । वक्ष्यमाणऋष्यादिकरषडङ्गं कृत्वा ॥ श्रीनृसिंहप्रीत्यर्थ नृसिंहमन्त्राङ्गत्वेन तान्त्रिकस्नानमहं करिष्ये ॥ इति सङ्कल्प्य । स्वपुरतो जले हस्तमात्रं चतुरस्रतीर्थं परिकल्प्य तत्र कोमित्यङ्कुशमुद्रया ॥ गङ्गे च यमुने चैव गोदावरि सरस्वती । नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु ॥ १॥ ब्रह्माण्डोदर तीर्थानि करैः स्पृष्ट्रातितेरवे ॥ तेन सत्येन मे देव तीर्थे देहि दिवाकर ॥ २॥ आवाहयामि त्वां देवि स्नानार्थमिह सुन्दरि ॥ एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥ ३॥ इति तीर्थान्यवगाह्य । तत्र वहन्यर्कै भूमण्डलानि सञ्चिन्त्य तमिति ॥ १२॥ वारं अभिमन्त्र्य धेनुमुद्रया नमस्कृत्येमं मन्त्रं पठेत् ॥ ॐ आधारः सर्वभूतानां विष्णोरतुल तेजसा । तद्रूपश्च ततो जाता आपस्तां प्रणमाम्यहम् ॥ १॥ इति पठित्वा तत्र वक्ष्यमाणश्रीष्टदेवतां यन्त्रं विभाव्य तत्र सावर्णां श्रीष्टदेवतां ध्यात्वा मूले तां स्नपयित्वा मूलं स्मरन् त्रिः निमज्योपमज्य स्वशिरसि योन्या कुम्भमुद्रया वा चिरभिषिञ्चेत् । ततः आचम्य मूलेन श्रीनृसिंहं तर्पयामि इति त्रिः सन्तर्प्य परिवारदेवताः सकृत् सन्तर्प्य तीर्थानि सूर्यमण्डले विसृज्य श्री नृसिंहं हृदि विसृजेत् इति स्नानविधिः ॥ ततः तीरात् बहिरागत्य वस्त्रं सम्पीड्य मूलाभ्युक्षिते वासांसि धारयेत् ॥ नद्याद्य लाभे अस्त्राय फडिति मन्त्रेण शोधितभाण्डजले पूर्वोक्तप्रकारेण स्नायात् ॥ एतदशक्तौ स्नानानन्तरं मूलेन शिरसि त्रिः अभिषिच्य चाचम्य देवता त्रिः सन्तर्प्य । अत्राप्यशक्तौ मानसस्नानं कुर्यात् ॥ तद्यथा ॥ सरितात्रयं अनुस्मृत्य चरणत्रयमध्यतः ॥ स्रवन्तः सच्चिदानन्दं प्रभावं भावगोचरम् । विमुक्तिसाधकं पुंसां स्मरणादेव योगिनाम् । तेनप्लावितमात्मानं भावयेत्पापशान्तये । इडा गङ्गेति विख्याता पिङ्गला यमुना नदी । मध्ये सरस्वती ज्ञेया तत्प्रयागमिदं स्मृतम् ॥ एवं कृत्वान्तरे स्नानं विरजाय कृते नमः । धर्माधिकारी भवति नात्र कार्यविचारणा इति सङ्ग्रहमतेन मानसस्नानम् । ततः स्वासने उपविश्य आचम्य तिलकं कुर्यात् । वैष्णवाचमनं यथा । ॐ केशवाय स्वाहा । नारायणाय स्वाहा । माधवाय स्वाहा । त्रिः पीत्वा । गोविन्दाय नमः । दक्षिणकरं प्रक्षाल्य विष्णवे नमः । वामकरं प्रक्षाल्य । मधुसूदनाय नमः । ऊर्ध्वोष्ट्रे । त्रिविक्रमाय नमः । अधरोष्ट्रे । ॐ वामनाय नमः । ॐ श्रीधराय नमः । मुखं प्रक्षाल्य । ॐ हृषिकेशाय नमः । इति हस्तौ प्रक्षाल्य । ॐ पद्मनाभाय नमः पादयोः । दामोदराय नमः शिरसि । सङ्कर्षणाय नमः मुखं स्पृशेत् । वासुदेवाय नमः प्रद्युम्नाय नमः इत्यङ्गुष्ठ दशनीभ्यां नासापुटयोः । ॐ अनिरुद्धाय नमः पुरुषोत्तमाय नमः इत्यक्षिणी । ॐ अधोक्षजाय नमः । नृसिंहाय नमः कर्णौ । अङ्गुष्ठनाभिकाभ्याम् । अच्युताय नमः । इत्यङ्गुष्ठकनिष्ठिकाभ्यां नाभौ । जनार्दनाय नमः । इति करतलेन हृदयम् । उपेन्द्राय नमः शिरसि । हरये नमः कृष्णाय नमः इत्यसौ सर्वाभिः । इति वैष्णवाचमनं विधाय तिलकं कुर्यात् । यथा । द्वारावतीमादाय ऊर्ध्वं पुण्ड्रं कुर्यात् । केशवाय नमः । नारायणाय नमः । ललाटे । माधवाय नमः गोविन्दाय नमः । उदरे । विष्णवे नमः । मधुसूदनाय नमः हृदये नन्दकम् । त्रिविक्रमाय नमः वामनाय नमः कण्ठे । श्रीधराय नमः हृषिकेशाय नमः दक्षिणा भुजशङ्खम् । पद्मनाभाय नमः दामोदराय नमः दक्षिणस्कन्धे । सङ्कर्षणाय नमः वासुदेवाय नमः दक्षिणकण्ठे । प्रद्युम्नाय नमः अनिरुद्धाय नमः वामभुजचक्रम् । पुरुषोत्तमाय नमः अधोक्षजाय नमः वामस्कन्धे । नारसिंहाय नमः अच्युताय नमः वामकण्ठे । जनार्दनाय नमः उपेन्द्राय नमः पृष्ठे । हरये नमः श्रीकृष्णाय नमः ककुदि मूर्ध्नि । शार्ङ्गबाणौ । तिलकविधिः । ततः तुलसीमालाधारणं कृत्वा वैदिकसन्ध्यां कृत्वा । तान्त्रिकमारभेत् । यथा आचम्य मूलेन । शिखादि बद्ध्वा गुर्वादिवन्दनपूर्वकं प्राणायामत्रयं कृत्वा । ऋष्यादि करषडङ्गं कृत्वा । सूर्यमण्डले यथोक्तं श्रीनृकेसरी मूर्तिं ध्यात्वा स्वपुरतः पात्रान्तरे जलमापूर्य । गङ्गेचेति मन्त्रेण क्रों इत्यङ्कुशमुद्रया तत्र सवितृमण्डलात्तीर्थान्यावाह्य तज्जलं लवमित्यमृतबीजेन धेनुमुद्रयामृतीकृत्य मूलेन त्रिः अभिमन्त्र्य तत्प्रवक्ष्यमाणो श्री लक्ष्मीनृसिंहयन्त्रं विलिख्य तत्र श्री नृकेसरिमूर्तिमावाय ॥ गन्धादिभिः सम्पूज्य । पूर्ववदाचम्य श्रीनृकेसरिप्रीत्यर्थं प्रातः सन्ध्यावन्दनं करिष्येति सङ्कल्प्य ॥ तज्जलं वामहस्ते गृहीत्वा दक्षिणानामिकाभ्यां तेन जलेन सकृन्मूलं जप्त्वा दिशान्तादिभिः ॥ मातृकाभिरात्मानं प्रोक्ष्यावशिष्टं तत्पुनः दक्षिण हस्ते गृहीत्वा ईड्यान्तः समाकृष्य तद्धौत पारसञ्चयं कृष्णवर्णं पिङ्गलया विरेच्य पुरः कल्पितवज्रशिलायां पुर्ववदास्फाल्य पुनः पूर्ववदाचम्याञ्जलिना तज्जलमापूर्य सूर्यायार्घ्यं दद्यात् ॥ यथा । ह्रीं हंसः श्री सूर्य एषोर्घ्यः स्वाहेति त्रिरर्घ्यं दत्वा । तेनैव श्रीसूर्य तर्पयामि नमः । त्रिः सन्तर्प्य मूलं सूर्यमण्डलस्थान श्रीनृसिंहाय एषोर्घ्यःस्वाहेति त्रिरर्घ्यंदत्वा । श्री लक्ष्मीनृसिंहं तर्पयामि इति मूलेनैव त्रिः सन्तर्प्य यथोक्तं श्रीनृसिंहं ध्यात्वा यथाशक्त्या गायत्रीमूलं प्रजप्य वक्ष्यमाणमन्त्रेण जपं निवेद्य श्रीलक्ष्मीनृसिंहं ध्यायन्प्रणमेत् ॥ गायत्री यथा ॥ वज्रनरवाय विद्महे तीक्ष्णदंष्ट्राय धीमहि ॥ तन्नो नारसिंह प्रचोदयात् ॥ इति मूलं प्रजप्य दशांशं तर्पयेदिति प्रातः सन्ध्या ॥ एवमेवावशिष्टं सन्ध्याद्वयं कार्यं ऊहौ तत्तत्कालसन्ध्यां करिष्येति सङ्कल्प्य ॥ अन्यत्सर्वं समानम् ॥ सन्ध्यात्रयस्यावश्यकत्वमकरणे प्रत्यवायश्रवणात् ॥ ततः तीर्थं नमस्कृत्य गृहीतजलपात्रः स्तोत्रादिकं पठन् पूजास्पर्शनमागत्य प्रक्षालितपादश्च अन्तःपूजा गृहद्वारि स्थित्वा ॥ ॐ सूर्यसोमयमः कालो महाभूतानि पञ्च च । एते शुभाशुभस्येतत्कर्मणो नवसाक्षिणः इति पठित्वा द्वारार्घ्यं कुर्यात् । यथा त्रिकोणमण्डलं विलिख्य गन्धादिभिः सम्पूज्य तत्राधारं प्रतिष्ठाप्यहः द्वारार्घ्यं साधयामि इत्युक्त्वा अस्त्रायफडिति पात्रं प्रक्षाल्य आधारोपरि प्रतिष्ठाप्य ॥ नमः इति जलमापूर्य गङ्गेचेतिमन्त्रेण क्रोनित्यङ्कुशमुद्रया सवितृमण्डलं तत्र तीर्थान्यावाह्य ॥ ॐ इति गन्धादि निक्षिप्य धेनुमुद्रां प्रदर्श्य मूलेनाष्टवारमभिमन्त्र्य तेनोदकेन द्वारं प्रोक्ष्य श्रीनृसिंहपूजामण्डपाय नमः इति योनिमुद्रया प्रणम्य द्वारपूजामारभेत् ॥ हस्ते अक्षताः गृहीत्वा ऊर्ध्वे गं गणपतये नमः ॥ दक्षिणभागे मं महालक्ष्म्यै नमः ॥ वामे सं सरस्वत्यै नमः । पुनर्दक्षिणे विं विद्यायै नमः । पुनर्वामे गङ्गायै नमः ॥ पुनः दक्षिणे यं यमुनायै नमः । पूनर्वामे क्षं क्षेत्रपालाय नमः । पुनर्दक्षिणे गङ्गायै नमः । पुनर्वामे यं यमुनायै नमः । पुनर्दक्षिणे धां धात्रे नमः । पुनर्वामे विं विधायै नमः । पुनर्दक्षिणे शङ्खनिधये नमः । पुनर्वामे पं पद्मनिधये नमः । अधो देहल्यां द्वारश्रियै नमः । इति सम्पूज्य द्वारपालान् नमेत् ॥ यथा ॥ नन्दाय नमः । सुनन्दाय नमः । चण्डाय नमः । प्रचण्डाय नमः । बलाय नमः । प्रबलाय नमः । भद्राय नमः । सुभद्राय नमः । इति दक्षिणवामतो द्वारपालान्सम्पूज्य वामाङ्गं सङ्कोचयन् वामशान्स्पृशन् वामाङ्घ्रिणान्ततः प्रविश्य नैऋत्यां ब्रह्मणे नमः वास्तुपुरुषाय नमः ॥ इति सम्पूज्य । इति द्वारपालपूजा ॥ ततः पूजागृहे स्वोपवेशनस्थाने कूर्मचक्रं विभाव्य कूर्मस्य मुखस्थाने कुशासनं आस्तीर्य तत्र मूलाभिमन्त्रिततोयेन प्रोक्ष्य ॥ ॐ पद्मासनाय नमः इति धेनुमुद्रां प्रदर्श्य तिष्ठन् ॥ भूमिं प्रार्थयेत् । यथा । पृथिव्या मेरुपृष्ठऋषिः ॥ कूर्मो देवता । सुतलं छन्दः । आसने विनियोगः ॥ पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् । इति भूमिं स्पृशन् ॥ ॐ आधारशक्तये नमः ॥ मण्डूकाय नमः कूर्माय नमः वराहाय नमः अनन्ताय नमः आत्मासनाय नमः । विमलासनाय नमः । योगासनाय नमः । स्वस्तिकाय नमः इत्यासनादि देवताः ॥ गन्धादिभिः सम्पूज्य मन्त्रोपविश्य भूतोत्सारणं कुर्यात् ॥ यथा अपसर्पन्तु ते भूताः ये भूताः भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् । सर्वेषामविरोधेन पूजाकर्म समारभेत् ॥ इति मन्त्रद्वयं पठित्वा वामपादेन पाणिघातत्रयेण भौमाऊर्ध्वतालत्रयेण अन्तरिक्षस्थान् तिर्यक् दृष्ट्यावलोकनेन दिव्यानेवं त्रिः विधाय विघ्नानुत्सार्य अस्त्रायफडिति छोटिकया प्राची दिशं बध्नामीति प्रतिदिशं बध्वा ॥ रमिति बीजेन नाराचमुद्रया समन्दग्निप्राकारविधिं विधाय समन्ताज्जलधारां कृत्वा त्रिशूलमुद्रया परितो रक्षां कुर्यादिति दिग्बन्धः ॥ ततः ईशान्यां दीपं प्रतिष्ठाप्य प्रार्थयेत् ॥ ॐ नमो दीपनाथाय आरक्तवर्णाय इमां पूजां गृहाण गृहाण स्वाहा ॥ दीपनाथाय नम इति सम्पूज्य ॥ ॐ तीक्ष्णदंष्ट्र महाकाय द्वादशकलाशक्तिसहिताय कल्पान्तदहनोपम ॥ भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥ इति भवानुज्ञां गृहीत्वा ॥ वामे स्वप्रकाशानन्दनाथवरेण्यम्बा श्रीपादुकां पूजयामि नमः । उत्तरानन्दनाथ उत्तमादेव्यम्बा श्री पादुकां पूजयामि नमः ॥ विमर्शानन्दनाथाय नमः । दक्षिणे गं गणपतये नमः । इति प्रणम्य पूर्ववत् प्राणायामत्रयपूर्वकम् ॥ सुमुखश्चेत्यादिकालज्ञानं कृत्वा मम समस्तपापक्षयद्वाराचतुर्विधपुरुषार्थसिद्ध्यर्थं यथाशक्त्या मीलितद्रव्यैः श्रीलक्ष्मीनृसिंहपूजां करिष्ये पूजाधिकारसिद्ध्यर्थं भूतशुद्ध्यादिकं करिष्ये ॥ आदौ मूलेन करशुद्धिं कृत्वा ॥ मूलं श्रीलक्ष्मीनृसिंह मां रक्ष स्वहृदये पूजाञ्जलिं दत्वा ॥ आत्मरक्षां विधाय । हूमिति मूलाधारात् कुण्डलिनीं उत्थाप्य जीवात्मनि संयोज्य परमात्मनि विलापयेत् ॥ ततः पादादि जानुपर्यन्तं चतुरस्रं सवज्रं लं बीजं पीतवर्णं यदिन्द्रियं गमनविषयं प्राणेन्द्रियं गन्धगुणं ब्रह्मेन्द्रेशं निवृत्तिकालं समानवायुं गन्तव्यदेशं भूमण्डले विचिन्त्य पृथ्वीमप्सु प्रविलापयामि इति विलापयेत् ॥ जान्वादि नाभिपर्यन्तं चन्द्रार्कनिभं पद्मद्वयाङ्कितं वं बीजं श्वेतवर्णं हस्तेन्द्रियं ग्राह्य ग्रहणंविषयं रसनेन्द्रियं रसगुणं चिद्विशं प्रतिष्ठाकलं उदानवायुं जलमण्डलं विचिन्त्यलं अप्सु वह्नौ प्रविलापयामि इति विलापयेत् ॥ नाभ्यादिहृदयपर्यन्तं त्रिकोणाकारं स्वस्तिकाङ्कितं रं बीजं रक्तवर्णं पृथ्वीन्द्रियं विसर्जविसर्गविषयं चक्षुरिन्द्रियं रूपगुणं शिवेशविद्याकलं व्यानवायुवह्निमण्डले विचिन्त्य वह्निं वायौ प्रविलापयामीति विलापयेत् ॥ हृदि भ्रूमध्यपर्यन्तं वृत्ताकारं षड्बिन्दुलाञ्छितं यं बीजं धूम्राभां मुद्रियस्थितमानन्दविषयं त्वगेन्द्रियं स्पर्शात् सगुणमीशानं शशाङ्कं तिकलमपानवायुं नभस्वमण्डलं विचिन्त्य वायुं नभसि विलापयामीति विलापयेत् ॥ भ्रूमध्यादिब्रह्मरन्ध्रान्तं वृत्ताकारं स्वच्छवर्णं ध्वजलाञ्छितं हं बीजं वागिन्द्रियं सवदनं शब्दविषयं श्रोत्रेन्द्रियं शब्दविषयं श्रोत्रेन्द्रियं शब्दगुणं सदाशिवेशशान्त्यतीतकलं प्रणववायुं आकाशमण्डलं विचिन्त्य आकाशमहङ्कारे प्रविलापयामीति विलापयेत् ॥ अहङ्कारमहत्तत्त्वे विलापयेत् महत्तत्त्वं प्रकृतौ प्रविलापयामि विलापयेत् । प्रकृतिमायां परेब्रह्मणि प्रविलापयामीति विलापयेत् । इति क्रमेण भूतानि विलीनानि विभाव्य । वामकुक्षौ पापपुरुषं ध्यायेत् ॥ ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् । सुरापानहृदायुक्तं गुरुतल्पकटिद्वयम् ॥ तत्संयोगापदद्वन्द्वभङ्गप्रत्यङ्गपातके उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ॥ अचेतनमधोवक्त्रं दग्धपादोपशोभितम् । अधोमुखं त्रिनयनं कुक्षौ पापं विचिन्तयेत् ॥ तोयमिति प्राणायात्रयं कृत्वा षोडशवारं जपन्वामनासया वाममापूर्य ॥ पापदेहं विशोष्य रमिति चतुर्दशवारं कुम्भकयोगेन सञ्जप्य ॥ तमसान्तं सन्दह्य नापूर्य बीजाम् ॥ ३२॥ द्वात्रिंशद्वारं जपन् दक्षिणनासापुटे न तद् भस्म रेचयेत् । ततो वमिति बीजं जपन्ललाटस्थ चन्द्रान्मातृकावर्णमयीममृतवृष्टिं नित्यानित्यपापपुरुष भस्माल्पव्यन्यासक्रमेणाववद् निष्पाद्य लमिति जपेन तद् भस्म कठिनीकृत्य परमात्मनः प्रकृतिः ततोऽहङ्कारः तस्मात् आकाशं तस्मात् वायुः तस्मादग्निः तस्मादापः तेभ्यः पृथिवीति भूतानि यथास्थानं संस्थानं संस्थाप्य सोऽहं मन्त्रेण हृदानीय कुण्डलिनी यथा यथा स्थानं प्रपद्यात्मानं प्रयचोत्तीर्णं भावयेत् इति योगाभावे भावनायाः भूतशुद्धिः ॥ अथ प्राणप्रतिष्ठा ॥ अस्य श्री प्राणप्रतिष्ठा मन्त्रस्य । ब्रह्माविष्णुशिवेभ्यो ऋषिभ्यो नमः शिरसि ॥ ऋग्यजुसामानिछन्देभ्यो नमः मुखे ॥ प्राणशक्तिदेवतायै नमः हृदये ॥ आं बीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः । क्रों कीलकाय नमः नाभौ ॥ मम समस्त पापक्षयद्वारेण श्री लक्ष्मीनृसिंहमन्त्राङ्गत्वेन प्राणप्रतिष्ठापने विनियोगः । इति ऋष्यादिन्यासः ॥ अथ षडङ्गन्न्यासः । ॐ ऐं ह्रीं श्रीं आं ह्रीं क्रों भ्रं ङ् कं खं गं घं आं आकाशं वायुतेजोजलभूम्याम्मात्मने अङ्गुष्ठाभ्यां नमः ॥ ॐ इं ज् चं छं जं झं ईं शब्दस्पर्शरूपरसगन्धात्मने तर्जनीभ्यां नमः । ॐ उं टं ठं डं ढं णं ऊं श्रोत्रत्वग्जिह्वाप्राणप्राणात्मने मध्यमाभ्यां नमः ॥ एवं तं थं दं धं नं ऐं वाक्पाणिपादपायूपस्थानात्मने अनामिकाभ्यां नमः ॥ ॐ पं फं बं भं मं औं वचनादानविसर्गानन्दात्मने कनिष्ठिकाभ्यां नमः ॥ ॐ अं शं यं रं लं वं षं क्षं सं हं ळं अ मनोबुद्धिरहङ्कार चित्तचैतन्यात्मने करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासः । श्रां नमः नाभ्यादि आपादान्तम् । ह्रीं नमः हृदयादि नाभ्यान्तम् । क्रौं नमः मस्तकादि हृदयान्तम् । यं त्वगात्मने नमः । रं अस्रगात्मने नमः । लं मांसात्मने नमः । वं मेदात्मने नमः । शं अस्थ्यात्मने नमः । षं मज्जात्मने नमः । सं शुक्रात्मने नमः । ह्रों अर्जात्मने नमः । हं प्राणात्मने नमः । सं जीवात्मने नमः । इति हृदये ॥ अथ ध्यानम् । रक्तोदधिस्थपोतस्य रक्तपद्मासनस्थिताम् । पाशचापकपालानि बाणशूलाङ्कुशां करैः ॥ १॥ स विभ्रती रक्तवर्णां देवीं त्रिनयनान्विताम् । नवतारुण्यगर्वाढ्यां प्राणशक्तिमहं भजे ॥ २॥ इति ध्यात्वा ॥ हृदये हस्तं दत्वा ॥ ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं ळं क्षं ॐ ह्रां हंसः मम प्राणे इह प्राणाः ॥ मम पुनर्बीजमुच्चार्य ॥ मम जीव इह स्थितः ॥ पुनः बीजमुच्चार्य । मम सर्वेन्द्रियाणि । मम वाङ्मनश्चक्षुश्रोत्रघ्राणपाणिपादौपस्थ सर्वे प्राणाः इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥ ॐ क्षं सं हंसः ह्रां ॐ ॥ इति प्राणप्रतिष्ठा ॥ गर्भाधानादि पञ्चदश संस्कारसिद्ध्यर्थं पञ्चदशप्रणवावृत्तिं करिष्ये ॥ १५॥ षोडशवारं प्रणवं जप्त्वा ॥ अथान्तर्मातृकान्यासः ॥ ॐ ॥ अस्य श्री अन्तर्मातृका मन्त्रस्य ब्रह्मणे ऋषये नमः ॥ शिरसि । गायत्री छन्दसे नमः । मुखे । मातृका सरस्वती देवतायै नमः । हृदये । हलूभ्यो बीजेभ्यो नमः । गुह्ये । स्वरेभ्यो शक्तिभ्यो नमः । पादयोः । अव्यक्तकीलकाय नमः । सर्वाङ्गे । समस्तपापक्षयद्वारा श्रीलक्ष्मीनृसिंहमन्त्रागत्वेनान्तर्मातृकान्यासे विनियोगः ॥ इति । ऋष्यादिन्यासः ॥ अथ षडङ्गन्यासः ॥ ॐ अं कं ४ श्रां अङ्गुष्ठाभ्यां नमः ॐ इं चं ४ ईं तर्जनीभ्यां नमः ॐ डं टं ४ ऊं मध्यमाभ्यां नमः ॐ एं तं ४ ऐं अनामिकाभ्यां नमः ॐ ॐ पं फं ४ औं कनिष्ठिकाभ्यां नमः ॐ यं ९ अं करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासः । अथध्यानम् । मूलाधारध्वनिं श्रुत्वा प्रबुद्धा शक्ति कुण्डलि । ज्वलत्पावकसङ्काशा सूक्ष्मतेजस्वरूपिणी ॥ १॥ निर्गतान्मातृकावर्णान् ॥ मूलाधाराच्छरः पद्मं स्पृशन्ती वियदाकृतिः ॥ तया स्पृष्टं शिरपद्मात् अमृतौघस्वरूपिणी ॥ निर्गतान्मातृकावर्णान् सुषुम्नावर्त्मना तनुम् ॥ ३॥ व्यापयित्वा स्थितान्वाणीन् एवं ध्यात्वा प्रविन्यसेत् ॥ इति ध्यात्वा कण्ठे विशुद्धौ षोडशदलकमलमध्ये मुखं ध्यात्वा तद्दलेषु प्रादक्षिण्येन अं नम इति सर्वत्र ॥ अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः १६ इति विन्यस्य ॥ हृदये अनाहतद्वादशकमले तथैव काऽपि ॥ कं खं ठं तान्तान् । मणिपुरे नाभिस्थाने दशदले कमले ॥ उं ढं इत्यादि फं तान् लिङ्गमूले स्वाधिष्ठाने षड्दले बादिलान्तान् ॥ मूलाप्यादे चतुर्दले कमले वादिसान्तान् ॥ आज्ञाचक्रे द्विदले हं क्षम् ॥ इति विन्यस्य हंसौ । आदिक्षान्तान्नुच्चार्य पुनः हंसौः इत्युच्चार्य व्यापकं कुर्यादित्यन्तर्मातृकान्यासः ॥ अथ बहिर्मातृकान्यासः ॥ प्रतिन्यासे करशुद्धिरिति साम्प्रदायिकः ॥ अस्य श्री बहिर्मातृकामन्त्रस्य ऋष्यादि षडङ्गं प्राग्वत् ॥ बहिर्मातृकादेवतेतिविशेषः ॥ मम समस्तपापक्षयद्वारा श्रीनृसिंहमन्त्राङ्गत्वेन बहिर्मातृकान्यासः ॥ ध्याने विशेषः ॥ पञ्चाशद्वर्णभेदैः विहितवदनदोः पादयुक् कुक्षिवक्षोदेशां भास्वत्कपदं किलितशशिकलाबिन्दु कुन्दावदाताम् । अक्षस्रकपूर्णकुम्भा लिखितवरकरां त्र्यक्षणां पद्मसंस्थामच्छकल्पामतुल स्तनजघनभरां भारवीं तां नमामि ॥ १॥ इति ध्यात्वा ॥ सृष्टिन्यासेति सर्गान्ताः सर्व बिन्दुतिका स्थितौ ॥ बिन्द्वन्ता संहतौ चैषामित्युक्ते ॥ मुद्रालक्षणम् ॥ मध्यमानामिका फाले पुनस्ताभ्यां तर्जनी ॥ मुखवृत्तिप्रविन्यस्य नेत्रे नाम च मध्यमा ॥ अङ्गुष्ठकर्णयोर्न्यस्य कनिष्ठाङ्गुष्ठनासिके ॥ तर्जनी मध्यमानामागण्डयोर्विन्यसेत्सुधीः मध्यमानामिकाचोष्ठौ दन्तपङ्क्तावनामिका ॥ मध्यमेन शिरोदेशे मध्यमेन मुखे न्यसेत् ॥ हस्तादि पादपर्यन्तं अङ्गुलीभिश्च पञ्चभिः ॥ मुद्राभिराभिर्यं कुर्यात् मातृकान्याससन्ततिः ॥ तस्य सिध्यन्ति सकला पञ्चाशद्वर्णमातृकाः ॥ १॥ इति पञ्चाशद्वर्णमातृकादि न्यासाः ॥ अं नमः इति सर्वत्र ॥ मूर्ध्नि अनामिकामध्यमा ॥ इं. दक्षिणनेत्रे ॥ अनामिकां अङ्गुष्ठाभ्याम् ॥ ईं. वामनेत्रे ॥ अनामिकाङ्गुष्ठाभ्याम् ॥ डं. दक्षिणकर्णे ॥ अङ्गुष्ठेन. । ऊं वामकर्णे ॥ ऋं । दक्षिणनासापुटे ॥ ॠं. वामनासापुटे ॥ कनिष्ठाङ्गुष्ठाभ्याम् ॥ ऌं. दक्षिणगण्डे । ऌं. वामगण्डे ॥ मध्यमादित्रयेण ४ एं ऊर्ध्वोष्ठे ॥ अनामिकया ॥ ऐं अधरोष्ठे ! । ॐ ऊर्ध्वदन्तपङ्क्तौ ॥ ऊं अधोदन्तपङ्क्तौ ॥ अं. शिरसि मध्यमया ॥ अः मुखे ॥ कं. नमः दक्षिणबाहुमूले ॥ कनिष्ठिकानामिकामध्यमाभिः ॥ खं. दक्षिणकर्परे ॥ कनिष्ठानामिकाभिः ॥ गं. दक्षिणमणिबन्धे ॥ कनिष्ठिकानामिका मध्यमाभिः ॥ घं । दक्षिणहस्ताङ्गुलिमूले कनिष्ठिकानामिकाभिः ॥ ङ्ं दक्षिणहस्ताङ्गुल्यग्रे ॥ चं । वामवाहुमूले कनिष्ठिकानामिकामध्यमाभिः ॥ छं. वामकर्परे पूर्ववत् ॥ जं । वाममाणिबन्धे पूर्ववत् ॥ झं. वामहस्ताङ्गुलिमूले पूर्ववत् ॥ भं । वामहस्ताङ्गुल्यग्रे ॥ टं. दक्षिणपादगुल्फे कनिष्ठिकानाभिकामध्यनाभिः ॥ एवं सर्वत्र ॥ ठं. दक्षिणजानुनी कनिष्ठिकानामिका मध्यनाभिः ॥ एवं सर्वत्र ॥ तं. वर्त्म वामपादाङ्गुलिमूले ॥ थं वामपादजानुनी ॥ डं. दक्षिणपादगुल्फे । ढं. दक्षिणपादाङ्गुल्य ॥ दं. वामपादगुल्फे ॥ धं. वामपादाङ्गुलिमूले ॥ नम् । वामपादाङ्गुल्यये ॥ पं. दक्षिणपार्श्वे ॥ फं. वामपार्श्वे ॥ बं. पृष्ठे ॥ भं । नाभौ ॥ मं. जठरे ॥ सर्वाभिरङ्गुलीभिः ॥ यं त्वगात्मने नमः ॥ हृदये करतलेन ॥ रं. असृगात्मने नमः दक्षांशे करतलेन ॥ लं. मांसात्मने नमः ककुदि । तलेन ॥ वं. मेदात्मने नमः वामांसे तलेन ॥ शं. अस्यात्मने नमः ॥ हृदादि दक्षिणभुजे ॥ षं. हृदादि वामभुजे ॥ सं. प्राणात्मने नमः । हृदादि दक्षिणस्कन्धे ॥ हं. मज्जात्मने नमः हृदयादि वामस्कन्धे ॥ ळम् । जीवात्मने हृदयादि नाभौ ॥ क्षः परमात्मने हृदयादि मुखे ॥ इति बहिर्मातृका । इयमेव सृष्टिमातृका । अथ स्थितिमातृका ॥ अस्य श्री स्थितिमातृकामन्त्रस्य ऋष्यादि न्यासान्तं प्राग्वत् ॥ विश्वपालिनी मातृकादेवतायै नमः ॥ ध्याने विशेषः ॥ सिन्दूरकान्तिनमिता भरेणां त्रिनेत्रां विद्याक्षसूत्रं मृगपोतवरं दधानाम् ॥ पार्श्वस्थितां सहचरीमपि काञ्चनाभ्यां ध्यायेत्कराब्जधृतपुस्तक वर्णमालाम् ॥ इति ध्यात्वा ॥ डाडिगन्तान्यथास्थानं न्यसेत् ॥ ताभिरेव मुद्राभिः ॥ यथा ॥ डं. दक्षिणपादगुल्फे ॥ ढं. दक्षिणपादाङ्गुले ॥ णं । दक्षिणपादाग्रे ॥ तं. वामपादतले ॥ थं. वाम जानुनी ॥ दं. वामपादगुल्फे ॥ धं वामपादाङ्गुलिमूले ॥ नं वामपादाग्रे ॥ पं दक्षिण पार्श्वे ॥ फं वामपार्श्वे ॥ बं पृष्ठे ॥ भं नाभौ ॥ मं जठरे ॥ यं हृदये ॥ रं दक्षिण अंसे ॥ लं ककुदि ॥ वं वामांसे ॥ शं दक्षिणकक्षौ ॥ षं वामकक्षौ ॥ सं हृदये ॥ हं. वा. हृदि ॥ ळं नाभौ ॥ क्षं हृदयादि मुखे ॥ अं मूर्ध्नि ॥ आं मुखे ॥ इं. दं. त्रं. ॥ ईं. वा. त्रे. । उ. द. कर्णे ॥ ऊं वामकर्णे ॥ ऋं दक्षिणनासापुटे ॥ ऋं वामनासापुटे । ऌं दक्षिणगण्डे ॥ ऌं वामगण्डे ॥ एं ऊर्ध्वोष्ठे ॥ ऐं अधरोष्ठे ॥ ओं. ऊर्ध्वदन्तपङ्क्तौ । औं अधोदन्तपङ्क्तौ । अं. मूर्ध्नि । अ नमः मुखे ॥ कं. दक्षिणबाहुमूले ॥ खं. दक्षिणकर्परे ॥ गं । दक्षिणमणिबन्धे ॥ घं. दक्षिणाङ्गुलिमूले ॥ ङ. दक्षिणाङ्गुल्य ॥ चं । वामबाहुमूले ॥ छं. वामकर्परे ॥ जं. वाममणिबन्धे ॥ झं. वा. ले ॥ ञ्ं वामपादाङ्गुल्यग्रे ॥ टं. दले ॥ ठं. दक्षिणजानुनी ॥ इति मातृकान्यासः ॥ अथ संहारमातृकान्यासः ॥ अस्य श्री संहारमातृकामन्त्रस्य ॥ ऋष्यादि पूर्ववत् ॥ ध्याने विशेषः ॥ अक्षस्रजं हरिणि पातमुदग्रटकं विद्याकरैरविरतं दधति त्रिनेत्रम् । अर्धेन्दुमौलिमरूणामरविन्दवासां वर्णेश्वरीं प्रणमतः स्तनभारनम्राम् ॥ १॥ इति ध्यात्वा ॥ एताभिरेवमुद्राभिर्यथास्थानं न्यसेत् ॥ क्षं. हृ. खे ॥ ळं. हृ. भौ ॥ हं. हृ. दे ॥ षं. वा. क्षौः ॥ शं. द. क्षौ ॥ वं. वा. ले ॥ लं. अ. ले दि ॥ रं दक्षदो मूले ॥ यं हृदि ॥ मं जठरे ॥ भं. नाभौ ॥ बं. पृष्ठे ॥ फं. वामपार्श्वे ॥ पं. दक्ष ॥ नं. वामपादाङ्गुल्यग्रे ॥ धं. वामपादाङ्गुलि मूले ॥ दं. वामगुल्फे ॥ थं. वामजानुनी ॥ तं. वा । मूले ॥ णं. दक्षिणपादाङ्गुल्यये ॥ ढं. दक्षपादाङ्गुलि मूले ॥ डं. द. गुल्फे ॥ ठं. दक्षिणजानुनि ॥ टं. द. ले ॥ ञं. वामहस्तदाङ्गुल्यये ॥ झं. वा. ले ॥ जं. वा. घे. छं. वाम कूर्परे ॥ चं. वा. ले ॥ डं. दक्ष. ग्रे ॥ धं. द. मूले ॥ गं. द. धे ॥ खं. द. कूर्परे ॥ कं. दक्षिपादमूले ॥ अं. मुखे ॥ अ मूर्ध्नि ॥ औ. ऊ. क्तौ ॥ ओ. अ. क्तौ ॥ ऐं ऊर्ध्वोष्ठे ॥ एं. अधरोष्ठे ॥ ऌं वा । डे ॥ ऌं. दड़े ॥ ऋं. वा. सि ॥ ऋं. द. सि ॥ ऊं. वा. र्णे ॥ ईं वा । त्रे. ॥ इं. द. त्रै ॥ आ. कण्ठे ॥ अं. मूर्ध्नि । इति संहारमातृकान्यासः ॥ पुनः पूर्ववत् ॥ सृष्टिस्थितिन्यासौ कुर्यात् इति पञ्चधामातृकान्यासः ॥ अथ निवृत्यादि कलामातृकान्यासः ॥ अस्य निवृत्यादि कलामातृकामन्त्रस्य ॥ ब्रह्मणे ऋषये नमः ॥ शिरसि ॥ गायत्री छन्दसे नमः ॥ मुखे ॥ कलामयी मातृकादेवतायै नमः हृदये ॥ हस्तेभ्यो बीजेभ्यो नमः । गुह्ये ॥ स्वरेभ्यो शिक्तिभ्यो पादयोः ॥ अव्यक्ताय कीलकाय । सर्वाङ्गे ॥ मम समस्तपापक्षयद्वारा श्री लक्ष्मीनृसिंहचरणप्रसादसिध्यर्थं मातृकान्यासे विनियोगः ॥ अथ षडङ्गम् ॥ अं ॐ आं अङ्गुष्ठाभ्यां नमः । ॐ इं ईं तर्जनीभ्यां नमः । उं ऊं लं मध्यमा. एं ॐ ऐं अनामिका. ॐ ॐ औं कनिष्ठिका. अं ॐ अ करतल. ॥ एवं हृदयादि ॥ अथ ध्यानम् ॥ हस्तैपद्मरथाङ्गं गुणमथ हरिणं पुस्तकं वर्णमालाम् ॥ टं कं शुभ्रकपालं दरममृतलसत् हेमकुम्भं वहन्ती ॥ मुक्ता विद्युत्पयोस्फटिकनवजपाबन्धुरैः पञ्चवक्त्रैः ॥ त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां भारतीं तां नमामि ॥ ताभिः एव मुद्राभिः ॥ अं निवृत्यै नमः शिरसि ॥ आं प्रतिष्ठायै नमः मुखे ॥ इं. विद्यायै नमः द. त्रे ॥ इं । शान्त्यै नमः वा. त्रे ॥ उं इं थिका. द. र्णे ॥ ऊं. दीपिकायै. वा. र्णे ॥ ऋं. रैचिकायें. द. सि ॥ ऋं. मोचिकायै. वा. सि ॥ ऋं. परायै. द. डे ॥ ऌं. सूक्ष्मायै वा. डे ॥ एं सूक्ष्मामृतायै उ. ष्ठे ॥ ऐं ज्ञानामृतायै. अ. ष्ठे ॥ अं. आप्यायन्यै ऊ. क्तौ ॥ औं. व्यापिन्यै अ. तौ ॥ अं. सोमरूपायै । मूर्ध्नि ॥ अ अनन्तायै. मुखे ॥ कं. सृष्ट्यै. द. ले ॥ खं. ऋध्यै. द. रे ॥ गं. तृप्त्यै. द. र्श्वे ॥ घं. मेधायै. द. ले ॥ डं. कान्त्यै. द. ग्रे ॥ चं. लक्ष्यै । वा. ले ॥ छं. द्वित्यै. वा. रे ॥ जं. स्थिरायै. वा. धे ॥ झं. स्थित्यै. वा । ले ॥ ञ्ं. सिध्यै. वा. ग्रे ॥ टं. जरायै. द. ले ॥ ठं. पालिन्यै. द. नि ॥ डं. शान्त्यै. द. ल्फे ॥ ढं. ऐश्वर्यायै. द. ले ॥ णं. रत्यै. द. ग्रे ॥ तं । कामिन्यै. वा. ले ॥ थं. वरदायै. वा. नि ॥ दं. ह्लादिन्यै. वा. ल्फे ॥ धं । प्रीत्यै. वा. ले ॥ नं. दीर्घायै. वा. ग्रे ॥ पं. तीक्ष्णायै. द. र्श्वे ॥ फं. रौदृरै । वा. र्श्वे बं. भयायै. पृष्ठे ॥ भं. निद्रायै. नाभौ ॥ मं. तन्द्रायै. जठरे ॥ यं । मांसधातवे. क्षुधायै. हृदये ॥ रं. त्वग्धातवे. ॥ क्रौधिन्यै. द. शे. लम् । मेधाधातवे. क्रियायै. क. दि ॥ वं. असृग्धातवे. उक्तारिण्यै. वा. से ॥ शं । शुक्लाधातवे. मृत्युरूपायै. हृ. रे ॥ षं. अस्थिधातवे. पीतायै. हृ. रे ॥ सं । प्राणात्मने श्वेतायै. हृ. दे ॥ हं. मज्जाधातवे अरुणायै. हृ. दे ॥ ळं. जीवात्मने । असितायै. हृ. नाभौ ॥ क्षं. परमात्मने. अनन्तायै. हृ. मुखे ॥ इति निवृत्यादि कला ॥ अथ केशवादिमातृकान्यासः ॥ अस्य श्री केशवायदिमातृकामन्त्रस्य ॥ साध्यनारायणऋषये नमः ॥ शिरसि ॥ अमृतागायत्रीछन्दसे नमः ॥ मुखे ॥ लक्ष्मीनृसिंहदेवतायै नमः । हृदये ॥ हलुभ्यो बीजेभ्यो नमः ॥ गुह्ये ॥ स्वरेभ्यो शक्तिभ्यो नमः पादयोः ॥ अव्यक्तकीलकाय नमः सर्वाङ्गे ॥ ममसमस्तपापक्षयद्वारा श्रीलक्ष्मीनृसिंहप्रीत्यर्थं नृसिंहमन्त्राङ्गत्वेन जपे विनियोगः ॥ अथन्यासः ॥ ह्रीं अङ्गुष्ठाभ्यां नमः । श्री तर्जनीभ्यां नमः । क्लीं मध्यमाभ्यां नमः । ह्रीं अनामिकाह्यां नमः । श्रीं कनिष्ठिकाह्यां नमः । क्लीं करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादि ॥ अथध्याने ॥ शङ्खचक्रगदापद्मकुम्भादर्शाष्जपुस्तकम् ॥ बिभ्रन्तां मेघचपलावर्णां लक्ष्मीं हरिं भजेत् ॥ इति ध्यात्वा ॥ ॐ ह्रीं श्रीं क्लीं आं क्लीं श्रीं ह्रीं केशवकीर्तिभ्यां. शिरसि ॥ ॐ ह्रीं श्रीं क्लीं आंः क्लीं श्रीं ह्रीं नारायणकान्तिभ्यां मुखे ॥ ॐ ३ इं ३ माधवतुष्टिभ्यां. द २ त्रे ॥ ॐ ३ ईं ३ गोविन्द पुष्टिभ्यां. वा. त्रे ॥ ॐ ३ उं ३ विक्कुधृतिभ्यां. द. । र्णे ॥ ॐ ३ ऊं ३ मधुसूदनशान्तिभ्यां. वा. र्णे ॥ ॐ ३ ऋं ३ त्रिविक्रमक्रियाभ्यां. द. सि ॥ ॐ ३ ऋं ३ वामनादयाभ्यां. वा. सि ॥ ॐ ३ ऌं ३ मेधा श्रीधराभ्यां. द. डे ॥ ॐ ३ ऌं ३ ह्रषीकेशहर्षाभ्यां. वा । डे ॥ ॐ ३ एं ३ पद्मनाभाय श‍ृद्धाभ्यां. ऊ. ष्ठे ॥ ॐ ३ ऐं ३ दामोदरलज्जाभ्यां. अधरोष्ठे ॥ ॐ ३ ॐ ३ वासुदेवलक्ष्मीभ्यां ऊ. क्तौ ॥ ॐ ३ औं ३ सङ्कर्षणसरस्वतीभ्यां. अ. क्तौ ॥ ॐ ३ अं ३ प्रद्युम्नप्रीतिभ्यां मूर्ध्नि ॥ ॐ ३ अ ३ अनिरुद्धरतिभ्यां. मुखे ॥ ॐ ३ कं ३ चक्रिजपाभ्यां । द. ले ॥ ॐ ३ खं ३ नदीदुर्गाभ्यां द. रे ॥ ॐ ३ गं ३ शार्ङ्गप्रभाभ्यां । द. धे ॥ ॐ ३ घं ३ खड्गीसत्याभ्यां ।द. ले ॥ ॐ ३ ङ् ३ शड्।खीचण्डाभ्यां. द. ग्रे ॥ ॐ ३ चं ३ हा प्लिवाणिभ्यां. वा. ले ॥ ॐ ३ छं ३ मुसलिविलासिनीभ्यां. वा. रे ॥ ॐ ३ जं ३ शूलिं विजयाभ्यां । वा. धे ॥ ॐ ३ ॐ ३ झं ३ पाशी विरजाभ्यां. वा. ले ॥ ॐ ३ भं ३ अङ्कुशीविश्वाभ्यां. वा. ग्रे ॥ ॐ ३ टं ३ मुकुन्दविनदाभ्यां. द. ले ॥ ॐ ३ ठं ३ नन्दजसुनन्दाभ्यां. द. नि ॥ ॐ ३ डं ३ नदीस्मृतिभ्यां. द । ल्फे ॥ ॐ ३ ढं ३ नरऋध्वीभ्यां. द. ले ॥ ॐ ३ णं ३ नरकजित्समृद्धिभ्यां. द. ग्रे ॥ ॐ ३ तं ३ हरिशुद्धिभ्यां. वा. ले ॥ ॐ ३ थं ३ कृष्णबुद्धिभ्यां. वा. नि ॥ ॐ ३ दं ३ सत्यमुक्तिभ्यां. वा. ल्फे ॥ ॐ ३ धं ३ सात्वतमतिभ्यां. वा. ल्फे ॥ ॐ ३ नं ३ शौरिक्षमाभ्यां. वा । ग्रे ॥ ॐ ३ पं ३ पशुरमाभ्यां. दक्षिणपार्श्वे ॥ ॐ ३ फं ३ जनार्दन उमाभ्यां. वा. र्श्वे ॥ ॐ ३ बं ३ भूधरक्लेदिनीभ्यां. पृष्ठे ॥ ॐ ३ भं ३ विश्वमूर्ति क्लिन्नाभ्यां. नाभौ ॥ ॐ ३ मं ३ वैकुण्ठवसुधाभ्यां. जठरे ॥ ॐ ३ यं ३ त्वगात्मनेभ्यां. पुरूषोत्तमवसुधाभ्यां. हृदये ॥ ॐ ३ रं ३ असृगात्मभ्यां. बलिपराभ्यां. द. से ॥ ॐ ३ लं ३ मांसात्मभ्यां । बालानुजपरायणाभ्यां. ककुदि ॥ ॐ ३ वं ३ मेदात्मभ्यां. वालसूक्ष्माभ्यां । वा. से ॥ ३ शं ३ अस्थात्मभ्यां. वृषघ्नसन्ध्याभ्यां. ह. रे ॥ ॐ ३ षं ३ मन्नात्मभ्यां. वृषभप्रभाभ्यां. हृ. रे ॥ ॐ ३ सं ३ सुक्रामत्भ्यां. हंस प्रभाभ्यां. ह. दे ॥ ॐ ३ ळं ३ मेधाविमलाभ्यां. हृ. ॥ ॐ ३ हं ३ वाराहनिशाभ्यां. ह. दे ॥ नाभौ ॥ ॐ ३ क्षं ३ नृसिंहविद्युम्नाभ्यां. ह । खे ॥ इति केशवादिमातृकान्यासः ॥ अथ पीठन्यासः ॥ मं मण्डूकाय मूलाधारे ॥ कं कालाग्नि रुद्राय । स्वाधिष्ठाने ॥ अं आधारशक्यते. हृदये ॥ तत्रैव ॥ कूर्माय । अं अनन्ताय । पं पृथिव्यै. सुं सुधासिन्धवे. श्वें श्वेतद्वीपाय । कं कल्पवृक्षाय । मं मणिमण्डपाय । हं हेमपीठाय । धं धर्माय । दक्षांसम् ॥ ज्ञां ज्ञानाय । वामांसे ॥ वं वैराग्याय । वामोरौ ॥ एं ऐश्वर्याय । दक्षोरौ ॥ अं अधर्माय । मुखे ॥ अं अज्ञानाय । वामपार्श्वे ॥ अं अवैराग्याय । नाभौ ॥ अं अनैश्वर्याय । द. पार्श्वे ॥ अं अनन्ताय । वामपार्श्वे ॥ हं मध्ये ॥ तं तत्त्वमयाय । अं आनन्दकन्दाय । सं सविन्नालाय । विं विकारमयकेसरिभ्यो नमः । प्रं प्रकृतिमयपत्रेभ्यो. पं पञ्चाशद्वर्णकर्णिकायै. उपर्युपरि तत्रैव द्वादशकलात्मने सूर्यमण्डलाय । षोडशकलात्मने सोममण्डलाय । दशकलात्मने वह्निमण्डलाय । प्रबोधनात्मने संसत्वाय । प्रकृतायात्मनेररजसे. मोहात्मने तं तमसे. अं आत्मने । पं. परमात्मने. ह्रां ज्ञानात्मने. मां मायातत्त्वाय । विं विद्यातत्त्वाय । कं कलातत्त्वाय । पं परतत्त्वाय । ततः हृत्पद्माष्टदलेषु मध्ये च प्रदक्षिण्यै नमः । अं विमलायै. उत्कर्षिण्यै. ज्ञायायै. क्रियायै. योगायै. प्रगृह्यै. सत्यायै. ईशितायै । अनुग्रहायै. ॥ इति पीठन्यासः ॥ अस्य श्री एकाक्षरी मन्त्रस्य ॥ अत्रिऋषये नमः । शिरसि । गायत्री छन्दसे नमः । मुखे । श्री लक्ष्मीनृसिंह देवतायै नमः । हृदये ॥ ममसमस्तपापक्षयद्वारा श्रीलक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः ॥ क्ष्रां अङ्गुष्ठाभ्यां नमः । क्ष्रीं तर्जनीभ्यां नमः । क्ष्रुं मध्यमाभ्यां नमः । क्ष्रें अनामिकाभ्यां नमः । क्ष्रौं कनिष्ठिकाभ्यां नमः । क्ष्रः करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादि न्यासः ॥ अथ वर्णन्यासः ॥ क्ष्रौं नमः मूर्ध्नि ॥ मूलं ललाटे ॥ म. द. त्रे. ॥ मू. वामनेत्रे ॥ मू. द. यत्रे ॥ मू।वा।र्णे ॥ मू।दड़े ॥ मू।वाड़े ॥ मू।द।सि ॥ मू।वा।सि ॥ मू।आ।स्थे ॥ मू।द।ले ॥ मू।वा।ले ॥ मू।द।रे ॥ मू।ध।धे ॥ मू. वा. धे ॥ मू।दंए ॥ मू. वा. ने ॥ मू. हृदये ॥ मू. नाभौ ॥ मू।क. घाम् ॥ मू. गुह्ये ॥ मु।द।ले ॥ मू।दंइ ॥ मू. दक्षिणगुल्फे ॥ मू. द. ले ॥ मू. द. ग्रे ॥ एवमेव वामपादे ॥ मूलं व्यापकेन सर्वाङ्गे ॥ इति वर्णन्यासः ॥ विस्तारेणालं अनेन कृतेन यथाशक्त्या न्यासजपारव्येन कर्मणा श्रीनृसिंहः प्रीयताम् । अथातर्यजनम् ॥ तत्र पूर्ववत् ॥ ऋष्यादि षडङ्गं कृत्वा । श्रीलक्ष्मीनृसिंहं ध्यायेत् ॥ क्षीराब्धौ वसुमुख्यदेवनिकरैरग्रादिसंविष्टितः । चक्रं शङ्खगदाम्बुजं निजकरैर्बिभ्रन् त्रिनेत्रस्थितः ॥ सर्पाधीशफणातपत्रलसितः पीताम्बरालङ्कृतः । लक्ष्म्याश्लिष्ट कलेवरो नरहरिस्तां नीलकण्ठो मुदे ॥ १॥ इति ध्यात्वा मानसोपचारैः पूजयेत् ॥ यथा हृदि हस्तं दत्वा ॥ लक्ष्मीनृसिंहाभ्यां नमः । लं पृथिव्यात्मकं गन्धं कल्पयामि ॥ इत्यंगुष्ठेन कनिष्ठिकां स्पृश्येत् ॥ लक्ष्मीनृसिंहाभ्यां । खं आकाशतत्त्वात्मकं पुष्पं. वौषडिति तर्जनीमङ्गुष्ठेन. ॥ श्रीलक्ष्मीनृसिहाभ्यां । यं वायुतत्त्वात्मकं धूपं. तथैव स्पृशेत् ॥ लक्ष्मीनृसिहाभ्यां रं वह्नितत्त्वात्मकं दीपं. मध्यमाङ्गुष्ठं. ॥ लक्ष्मीनृसिंहाभ्यां. वं अमृतात्मकं नैवेद्यं सुधा इत्यनामिकयाङ्गुष्ठम् ॥ श्री लक्ष्मीनृसिंहाभ्यां सं सर्वात्मकं ताम्बूलम् ॥ इति सर्वाभिरङ्गुलीभिः ॥ इति सम्पूज्यान्तवैश्वदेवं कुर्यात् ॥ यथा ॥ स्वाधिष्ठानगते कुण्डे त्रिकोणप्रणवेन चिद्रूपवन्हिप्रज्वाल्य तत्राहन्तादिकं नयेत् ॥ अहन्तासत्य पैशुन्यकामक्रोधादिकं हविः ॥ मन एव स्रुवः प्रोक्तः सुषुम्नासृगुदीरिता ॥ मूलेन ॥ अहन्तां जुहोमि स्वाहा ॥ मू. असत्यं जुहोमि स्वाहा ॥ पैशुन्यं जुहोमि स्वाहा ॥ मू. काममहं जुहोमि स्वाहा ॥ मू. क्रोधमहं जुहोमि स्वाहा ॥ मू. मदमहं जुहोमि स्वाहा ॥ मू. मात्सर्यं जुहोमि स्वाहा ॥ इति अन्ते वैश्वदेवं कृत्वा ॥ यथाशक्त्या मूलं प्रजप्य वक्ष्यमाणनिवेदनमन्त्रेण जप निवेद्य बहिर्यजनं कृत्वा ॥ यथा ॥ आदौ पात्रस्थापनम् ॥ तत्रादौ अभिषेकार्थं कलशस्थापनम् ॥ अष्टगन्धादिना स्ववामे त्रिकोणषट्कोणवृत्तचतुरस्रमण्डलं कुर्यात् ॥ अष्टगन्धमाह ॥ चन्दनागरून्हीबेरकुष्ठकुमसेव्यकाः ॥ जयमासामुरमिति विष्णोर्गन्धाष्टकं विदुः ॥ १॥ एवं मण्डलं कृत्वा ॥ दशकलात्मने वह्निमण्डलायनमः इति वह्निमण्डलं गन्धादिभिः सम्पूज्य ॥ तत्र अस्त्रायफडिति प्रक्षालितमाधारं संस्थाप्य तदुपरि अस्त्रप्रक्षालितं कलशपात्रं प्रतिष्ठाप्य ॥ द्वादशकलात्मने सूर्यमण्डलाय नम इति सम्पूज्य ॥ वैदिकमन्त्रैर्मातृकाभिश्च जलमापूर्य ॥ गङ्गेच यमुनेचैवेति श्लोकं पठेत् ॥ इति क्रोमिति अङ्कुशमुद्रया तत्र सवितृमण्डलातीर्थानि आवाह्य गन्धादिभिः सम्पूज्य ॥ ऊं षोडशकलात्मने चन्द्रमण्डलाय नम इति चन्द्रमण्डलं सम्पूजयेत् इति ॥ कलशस्थापनम् ॥ अथ सामान्यार्घ्यविधिः ॥ कलशोदकेन भुवं प्रोक्ष्य पूर्ववत् मण्डलं प्राग्वत्सम्म्पूज्य ॥ पूर्ववदाधारं संस्थाप्य तदुपरि प्राग्वत् ॥ प्रक्षालितसामान्यार्घ्यं पात्रं संस्थाप्य पूर्ववत् सूर्यमण्डलं सम्पूज्य ॥ मूलेन जलमापूर्य ॥ पूर्ववत् तीर्थान्यावाह्य ॥ षोडशकलं चन्द्रमा सम्पूज्य यमिति सामान्यार्घ्यविधिः ॥ अथ शङ्खस्थापनम् ॥ यथासामान्यार्य्योदकेन वा षट्कोणत्रिकोणचत्तुरस्रं मण्डलं कृत्वा शङ्खमुद्रया संस्तभ्य तत्राग्न्यादिषु षडङ्गैः पूजयेत् ॥ यथा ॥ आग्नेया हृदयाय नमः ॥ ईशान्यां शिरोदेवतायै नमः । नैऋत्यां शिखायै देवतायै नमः । वायव्यां कवचदेवतायै नमः । मध्ये नेत्रदेवतायै नमः । चतुर्दिक्षु अस्त्रदेवतायै नमः । इति सम्पूज्यास्त्राय फडिति प्रक्षालितमाधारम् ॥ वह्निमण्डलाय दशकलात्मने नमः ॥ इत्याधारं संस्थाप्य ॥ तत्राष्टदिक्षु वह्नेर्दशकलाः पूजयेत् ॥ यं धूम्रायै. रं ऊष्मायै. लं ज्वालिन्यै. शं विस्फुलिङ्गिन्यै. षं सुश्रियै । सुं सुरूपायै. हं कपिलायै. ळं हव्यवाहनायै. क्षं कव्यवाहनायै. इति सम्पूज्य ॥ अग्निर्मूर्द्धा दिवः ककुदिति मन्त्रं पठेत् ॥ ततः अस्त्रायफडिति शङ्क्षाल्य ॐ क्लीं महाजलचराय फुं फट् स्वाहा ॥ पाञ्चजन्याय नमः ॥ इति मन्त्रेण शङ्खसामान्योर्योदकेन प्रक्षाल्याधारे संस्थाप्य ॥ द्वादशकलात्मने अं अर्कमण्डलाय । इति सम्पूज्य ॥ सूर्यद्वादशकलाः पूजयेत् ॥ कं भं तपिन्यै । खं भं तापिन्यै. गं फं धूम्रायै. घं पं मरीच्यै. ङं. नं ज्वालिन्यै. चं धं रुच्यै । छं दं सुषुम्नायै. जं थं भोगदायै. इति सम्पूज्य ॥ आवृष्णेनरजसा वर्तमानो. ऋक् ॥ मन्त्रं पठेत् ॥ ॐ क्षं नमः ळं. हं । सं. षं. शं. वं. लं. रं. यं. मं. भं. बं. फं. पं. नं. धं. तं. थं. तं. णं. ढं. डम् । ठं. टं. अं. झं. जं. छं. चं. डं. घं. गं. खं. कं. अं. अ. अ. ॐ औं. ऐं । एं. ऌं. ऌं. ऊं. उं. ईं. इ. आ. अ. इति विलोममातृकामूलं विलोमेनोच्चारेण कलशे जलमापूर्य जले उं षोडशकलात्मने चन्द्रमण्डलाय नम इति चन्द्रस्य षोडशकलाः पूजयेत् ॥ यथा ॥ श्रं अमृतायै. आं आनन्दायै. इं पूर्वायै. ईं तुष्ट्यै. उं पुष्ट्यै. ऊं रत्यै. ऋ. शशिन्यै. ऌं चन्द्रिकायै. ऌं कान्त्यै. एं ज्योत्स्नायै. ऐं श्रियै. ॐ प्रीत्यै. औं अङ्गदायै. अं पूर्णायै. अ पूर्णामृतायै. इति सम्पूज्य ॥ आप्यायस्व समेतुतेति मन्त्रं पठेत् ॥ ततः क्रोमित्यङ्कुशमुद्रया गङ्गेच यमुनेचैवेति मन्त्रेण सूर्यमण्डालात्तीर्थान्यावाह्य ॥ स्वहृदये देवतामावाह्य जलं स्पृष्ट्वा अष्टवारं ८ मूलं जप्त्वाङ्गानि विन्यस्य नम इति सम्पूज्य मत्स्यमुद्रया छायास्त्राय फडिति छोटिकादि मुद्रया संरक्ष्य ॥ कवचाय हुं इति अवगुण्ठिन्यावगुण्ठ्य वमिति अमृतबीजेन धेनुमुद्रयामृतीकृत्य सन्निरोधिन्या सन्निरुध्य ॥ शङ्खमौसलचक्रगरूडमहामुद्रा योनिमुद्राग्वालिनी प्रदर्श्य परमीकरणमुद्रया तज्जलं पावनं विचिन्तयेदिति शङ्खस्थापनम् ॥ ततः पात्रान्तरेण तदुदकमादाय पूजाद्रव्याणि आत्मानं च प्रोक्ष्य पाद्यादि पात्राणि स्थापयेत् ॥ शङ्खस्योत्तरतः पूर्ववत् त्रिकोणचतुरस्राणि मण्डलानि कृत्वा ॥ दशकलात्मने वह्निमण्डलाय नमः ॥ इति प्रत्येकं वह्निमण्डलं सम्पूज्य ॥ द्वादशकलात्मने सूर्यमण्डलाय नमः इति आधारे सूर्यमण्डलाय सम्पूज्य ॥ फडिति पात्राणि प्रक्षाल्याधारोपरि संस्थाप्य ॥ गङ्गेच यमुनेचैवेतिमन्त्रेण कलशोदकेनापूर्य क्रोमित्यङ्कुशमुद्रया तीर्थान्यावगाह्य षोडशकलात्मने चन्द्रमण्डलाय नम इति गन्धादिभिः सम्पूज्य ॥ पाद्यपात्र जले श्यामाकविष्णुभां ताब्जदूर्वा निक्षिपेत् ॥ अर्घ्यपात्रे ॥ दूर्वातिलसर्षपदर्भाग्राणि ॥ आचमनीय पात्रे ॥ लवङ्गजातिफलकङ्कोलान् ॥ मधुपर्कपात्रे ॥ दध्याज्यमधुघृतानि ॥ इति पात्रस्थापनम् ॥ ततः पीठपूजां कुर्यात् ॥ यथा सामानार्घ्याम्बुना पीठं प्रोक्ष्य ॥ मं मण्डूकाय नमः ॥ कङ्कालाग्निरुद्राय । आं आधारशक्तये. कुं कूर्माय नमः धं धरायै. क्षि क्षीराब्धये. शं श्वेतद्वीपाय कं कल्पवृक्षाय तदधः मणिहर्म्याय । रं रत्नवेदिकायै. रं रत्नसिंहाय । पाठपादेषु आग्नेयादि ॥ धं धर्माय । ज्ञां ज्ञानाय । वं वैराग्याय । ऐं ऐश्वर्याय पीठग्रात्रेषु ॥ प्रागादिक्रमेण ॥ अं अधर्माय । अं अज्ञानाय । अं अवैराग्याय । अं अवैश्वर्याय । मं मध्ये अनन्ताय । तत्रैव तं तत्त्वमयपद्माय । अं आनन्दकन्दाय । सं सविन्नालाय । विं विकारमयकेसरेभ्यो । प्रं प्रकृतिमयपत्रेभ्यो. पं पञ्चाशद्वर्णकर्णिकायै. द्वादशकलात्मने ॥ अं अर्कमण्डलाय । षोडशकलात्मने उं सोममण्डलाय । सं सत्वाय रं रजसे. तं तमसे. अं आत्मने. पं परमात्मने. ह्रीं ज्ञानाय । मं मायातत्त्वाय । कं कालतत्त्वाय । पं परतत्त्वाय. विं विमलायै. उं उत्कर्षिण्यै. ज्ञां ज्ञानायै. क्रिं क्रियायै. यों योगायै. प्रं प्रवाह्यै. सं सत्यायै. इं ईशितायै. अं अनुग्रहायै. ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगपद्मपीठात्मने नमः ॥ इति गन्धादिभिः पूजयेत् इति पीठपूजा ॥ ततः मूलमुच्चार्य पुष्पाञ्जलिं गृहीत्वा मूलाधारात् कुण्डलिनीं उत्थाप्य ब्रह्मरन्ध्रं नीत्वा परमात्मनि संयोज्य ॥ श्री नृसिंहरूपतेजो वहन्नासापुटाध्वनां जलौ योजयित्वा यन्त्रे मूर्ती वा संयोज्य ॥ प्राणप्रतिष्ठां कुर्यात् ॥ यन्त्र लक्षणम् ॥ बिन्दुगर्भित षट्कोणं पद्ममष्टदलं ततः ॥ कृत्वाधरागृहंरम्परेखात्रयसमन्वितम् ॥ १॥ नृसिंहं पूजयेत्तत्र परिवार समन्वितम् ॥ यन्त्रमेतन्नृसिंहस्य दर्शनात्सर्वकामदम् ॥ २॥ मूलमुच्चार्य ॥ आत्मसंस्थं अजं शुद्धं त्वामहं परमेश्वरम् ॥ अरण्यानिवहव्यांशं मूर्ति आवाहयाम्यहम् ॥ आगच्छ देवदेव त्वं परमानन्दाधिगृह ॥ पूजां गृहीतुं सम्पूर्णं परिवार समन्वितम् ॥ १॥ श्री लक्ष्मीनृसिंहाय नमः सहस्रशीर्षेत्यावाहनम् ॥ आवाहनी मुद्रां प्रदर्शयेत् ॥ सा यथा ॥ ऊर्ध्वाञ्जलीं अधः कुर्यात् इति आवाहनी मता ॥ इत्यावाहनम् ॥ सर्वत्रादौ मूलम् ॥ तवेयं महिमामूर्तिरस्यां त्वां सर्वगप्रभाम् ॥ भक्तिस्नेहसमाकृष्टं दीपवत् स्थापयाम्यहम् ॥ २॥ अस्मि चरासने देव सुखासीनाक्षरात्मकम् ॥ प्रतिष्ठिता भवेशत्वं भक्तानुग्रहतत्परम् ॥ पुरूषएवेत्यासनम् ॥ देवत्वं भक्तिसुलभा पूजावरणसंयुता ॥ यावत्वां पूजयिष्यामि तावत्वं संस्थितो भव ॥ ३॥ स्थापनीमुद्रां प्रदर्श्य ॥ यथा ॥ इयं तु विपरीता स्यात्तदा विस्थापनी मतेति ॥ इति स्थापनम् ॥ अनन्या नृहरे सेयं मूर्तिशक्ति सुरेश्वर ॥ सान्निध्यमस्यां कुरु भो सदा भक्तजनप्रिय ॥ ५॥ सन्निधापनी मुद्रा ॥ यथा मीलितं मुष्टियुगुलं सन्निधापनरूपिणी ॥ इति सन्निधापनम् ॥ आज्ञया तव देवेश कृपापूरितमानसा ॥ आत्मानं देवकं रूपं निरुपाधि सदाहरे ॥ ६॥ सन्निरोधिनी मुद्रा ॥ यथा ॥ अन्तराङ्गुष्ठमुष्टिभ्यां सन्निरोधनरूपिणी ॥ इति संरोधनम् ॥ अभक्तवाड्. मनश्चक्षुश्रोत्रदूरपरात्पर ॥ स्वतेजसान्तरेणाशु वेष्टितो भव सर्वतः ॥ ७॥ अवङ्गुष्ठनी मुद्रा ॥ एतस्या एव मुद्रायां तर्जन्यौ सरले यदा ॥ सव्यापसव्याभ्रमणात् मुद्रेयमनगुण्ठिनी ॥ इति अवगुण्ठनम् ॥ देवस्याङ्गे षडङ्गानि कुर्यादिति सङ्कलीकरणी मुद्रा ॥ इति सङ्कलीकरणम् ॥ ततः परमीकरणं नाम मुद्रया ॥ यथा ॥ अङ्गुलिः सरलाः कुर्यात् अङ्गुष्ठौग्रथितं प्रिये ॥ करविकृत संयोज्यह्यारार्तिकमिव प्रिये ॥ ८॥ परमीकरणं नाम मुद्रेयं तु महेश्वर ॥ इति परमीकरणम् ॥ अथामृतीकरणम् ॥ परिवृत्य करौ पश्चात् तर्जनी मध्यमस्थिता ॥ कनिष्ठिकानामिकाश्चैव परस्परयुता कुरु ॥ ९॥ धेनुमुद्रेयमारव्याताह्यमृतीकरणं भवेत् इति धेनुमुद्रयामृतीकरणं इति मुद्राः प्रदर्श्य स्वागतं कुर्यात् ॥ यथा ॥ यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये ॥ तस्य ते नृहरे स्वामिन् स्वागतं किं रमापते ॥ १०॥ इति स्वागतम् ॥ प्रक्षालयामि ते पादौ पादपात्रस्थ वारिणा ॥ यथाविधि जगन्नाथ संस्तुतेनाति भक्तितः ॥ ११॥ साङ्गाय सपरिवाराय सशक्तिकाय श्रीनृसिंहाय नमेति सर्वत्र पादयोः पाद्यम् ॥ एतावानस्येति पाद्यम् ॥ अर्घ्यं गृहाण नृहरे त्वमदत्तं सुरेश्वर ॥ संस्कृतं भाजनं शुद्धे यथा विद्यति भक्तितः ॥ १२॥ श्रीनृसिंहाय । त्रिपादूर्ध्वेत्यर्घ्यम् ॥ शीतलेन सुगन्धेन यदत्तेनामुना त्वया ॥ आचम्यतां रमानाथ वारिणानन्दकारिणा ॥ १३॥ श्रीनृसिंहाय नमः तस्माद्विराळिति मुखे आचमनीयम् ॥ गृहाण त्वममुं देव मधुपर्कं मयार्पितम् ॥ घृते न मधुना दध्नायुतं त्रिभुवनेश्वर ॥ १४॥ श्रीनृसिंहमुखे मधुपर्कम् ॥ पुनराचमनीयम् ॥ स्वामिन्तवाभिषेकार्थं गोदुग्धं स्थापितं मया ॥ पात्रे प्रक्षालमेते त्वं गृहीत्वा स्नानमाचर ॥ १५॥ श्रीनृसिंहाय नमः आप्यायस्वेतिप. दध्येतु पात्रशुद्धस्थं दीयते भक्तितो मया ॥ गृहीत्वा नृहरे देव प्रीत्या स्नानं समाचर ॥ १६॥ श्रीनृसिंहाय दध्ना स्नपयामि ॥ दधिक्राव्णो. दधिस्नानम् ॥ नवं मनोहरमिदं गोघृतं तवमायते ॥ दत्तमेतेन देव त्वं गृहीत्वा स्नानमाचर ॥ १७॥ घृतं मिमिक्षे. घृतं स्नानम् ॥ क्षोद्रमक्षुद्रचारित्र स्नानार्थममरेश्वर ॥ मया प्रदत्तमेतेन प्रीत्या स्नानं समाचरेत् ॥ १८॥ मधुवाता. श्री नृसिंहाय । मधुस्नानम् ॥ सीतसीताति सूक्ष्मेयं दत्वा त्वामनया मुदा ॥ अपि स्नाहि जगन्नाथ प्रह्लादाय निवारण ॥ १९॥ स्वादुः पवस्वेति शर्करां गङ्गागौतमिकां कलिन्दतनयारेवा विधिः कन्यका कावेरी पवना वृद्धिरमलो सिन्धूरिदं निर्मलम् ॥ आसां वारि नृसिंहदैत्यतदमन स्वामिन्मयाभक्तितः स्नानं कुर्वमनात्वमद्य विधिना दत्तेन भक्तिप्रिय ॥ २०॥ पुरुषसूक्तेन अभिषेकः ॥ श्रीनृसिंहाय । शुद्धोदकस्नानं पुनराचमनम् ॥ नैशनाना सुगन्धाढ्यं अङ्गोद्वर्तनकं मया ॥ लापितं त्वमिदं प्रीत्या देवाङ्गीकुरु भक्तितः ॥ २१॥ श्री लक्ष्मीनृसिंहाय । अङ्गोद्वर्तनम् ॥ स्नेहं गृहाण स्नेहेन लोकनाथ महायशाः । सर्वलोकेषु शुद्धात्मन् ददामि स्नेहमुत्तमम् ॥ २२॥ श्रीलक्ष्मीनृसिंहाय सुगन्धतैलम् ॥ शुभ्रं कोशय मे तत्त्वं परिद्ययनवाम्बरम् ॥ मयार्पितं काञ्चनस्य विकारैश्चित्रितं प्रभो ॥ २३॥ श्रीलक्ष्मीनृसिंहाय । उष्णोदकम् ॥ स्नानित्वमेतज्जलमुष्णमस्ति प्रपूरितं सम्प्रति काञ्चनस्य ॥ पात्रेभिषेकस्य सतुर्यघोषं ययातिमत्वाति हृदये च हर्षे ॥ २४॥ लक्ष्मीनृसिंहाय । तं यज्ञमिति वस्त्रम् ॥ पुनराचमनम् ॥ उत्तरीयपटं स्वामिन् आदत्तं उत्तरीकुरु ॥ मध्यदत्तममुं सूक्ष्मं प्रातवल्ली विचित्रतः ॥ २५। उत्तरीयरस्त्रम् ॥ आचमनीयम्. ॥ यज्ञसूत्रमिदं देव स्वर्णतन्तुविनिर्मितम् ॥ भक्त्या समर्पये तुभ्यं गृहीत्वा वरदोभव ॥ २६॥ श्रीलक्ष्मी नृसिंहाय । तस्माद्यज्ञादिति यज्ञोपवीतम् ॥ आचमनीयम् । सौवर्णानि सरत्नानि विविधानि धरायते । भूषणानि गृहीत्वा त्वं मद्दत्तानि प्रसीद मे ॥ २७॥ सौरभ्यनितिसमस्त सुगन्धमेनं सच्चन्दनाद्यखिलगन्धविराजमानम् ॥ गन्धं गृहीत्वाद्य जगद्गुरोहं भक्त्यातिभाले तव लेपयामि ॥ २८॥ श्रीलक्ष्मीनृसिंहाय । गन्धम् ॥ कनिष्ठिकाङ्गुष्ठयोगेन गन्धमुद्रा ॥ तण्डुलाः क्षीरवर्णाभाघृतकुकुम्मरञ्जिताः ॥ गृहित्वेमां नृसिंहत्वं लापितानूतिकं कुरु ॥ २९॥ लक्ष्मीनृसिंहाय । अक्षतां. मन्दाराभ्रसुमालतीबकुलजः कुन्दोद्भवैर्माधवीं सम्भूतैः कुसुमैः प्रफुल्लनलिनैर्जातीभवैश्चम्पकैः ॥ अन्यैश्वेत्तसुपीत रक्तकुसुमैः स्वामर्चयाम्याधिजा नाथ त्वं कृपया गृहाण कुसुमान्येतानि लोकेश्वर ॥ ३०॥ श्रीनृसिंहाय । तस्मादश्वा इति पुष्पम् ॥ पुष्पमुद्रा तर्जन्योङ्गुष्ठयोगतः ॥ नवीनमञ्जरी-उक्तान्यमूनि पुरुषोत्तम ॥ गृहीत्वा कृष्ण तुलसीपत्राणि वरदोभव ॥ ३१॥ अतो देवा इति वर्गः ॥ तुलसीपत्राणि ॥ पाटिराखिलानीश द्रव्याणि सुरभीणि ते ॥ अर्पितानि मया भक्त्या गृहीत्वा मुदितो भव ॥ ३२॥ श्रीनृसिंहाय सुगन्धद्रव्याणि ॥ पुष्पपूजा विधायेत्थं कुर्यादावरणार्चनमिति ॥ भावचूडामणिमहीधरोक्तिः ॥ अन्येषां मते नैवेद्यान्ते ॥ अथाङ्गपूजा ॥ तदनन्तरं आवर्णपूजा ॥ देवदेव जगन्नाथ नृसिंहाच्युत माधव ॥ अनुज्ञां देहि मे स्वीयपरिवारसमर्चने ॥ इति श्रीलक्ष्मीनृसिंहमूर्तिं प्रार्थ्य ॥ मूलेन विन्दौ मूर्तिं आषिशा पुष्पाञ्जलीं दत्वा ॥ श्रीष्टदेवता परिवारदेवताः पूजयेत् ॥ यथा हस्ते अक्षताः गृहीत्वा बिन्दोर्वायव्यां दिशान्तः यथा गुरुपङ्क्तिं सम्पूज्य ॥ षट्कोणेषु केसरमध्ये च अङ्गानि पूजयेदिति ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ॥ भक्त्या समर्पयेत्तुभ्यं प्रथमावरणार्चनम् ॥ इति प्रथमावरणम् ॥ प्रत्यावरणे करशुद्धिः ॥ अथाष्टदले ॥ प्रागादिदिग्दलेषु ॥ ॐ खगेश्वराय । खगेश्वरं पूज. शङ्कराय । शङ्करं पूज. शेषनागाय । शेषनागं पूज । शतानन्दाय । शतानन्दं पूज. कोणपत्रेषु ॥ श्रियै. श्रियं पूज. ईशानं कोणपत्रे ह्रियै. ह्रियं पूज. आग्नेयकोणपत्रे धृत्यै नमः धृतिं पूज. नैऋत्यपत्रे पुष्ट्यै । पुष्टिं पूज. वायव्यपत्रे द्वितीयां वर्णदेवतां गन्धादिभिः सम्पूज्य ॥ अभीष्ट. ॥ इति द्वितीयावरणम् ॥ द्वात्रिंशपत्रे प्रागादि ॥ कृष्णनृसिंहाय । पू. रुद्रनृसिंहाय । पूज. महाघोरनृसिंहाय । करालनृसिंहाय । पूज. भीमनृसिंहाय पूज. भीषणनृसिंहाय पूज. उज्वलनृसिंहाय विकरालनृसिंहाय । दैत्यान्तक नृसिंहाय । मधुसूदन नृसिंहाय । रक्ताक्ष नृसिंहाय । पिङ्गाक्षनृसिंहाय । अञ्जननृसिंहाय । दीप्ततेजनृसिंहाय । सुघोण नृसिं. सुघोड नृसिं. सुहनु नृसिं. विश्वाख्य नृसिं. राक्षसान्तक नृसिं । विशाल नृसिं. धूमकेश नृसिं. हयग्रीव नृसिं. घनपवन नृसिं. घनावनन्द नृसिं । मेघनाद नृसिं. मेघवर्ण नृसिं. कुम्भकर्ण नृसिं. कृतान्तक नृसिं. तीव्रतेज नृसिं । अग्निवर्ण नृसिं. महोग्र नृसिं. विश्वभूषण नृसिं. विघ्नक्रम नृसिं. महासेन नृसिं । तृतीयो गन्धादिभिः सम्पूज्य ॥ अभिष्ट सिद्धिः मे. ॥ तृतीयावरणम् ॥ पूर्वे इन्द्राय । आग्नेयां अग्नये. दक्षिणे यमाय । नैऋत्यां नैऋतये. पश्चिमे वरुणाय । वायव्यां वायवे. उत्तरे सोमाय ईशान्यां ईशानाय ब्रह्मणे. इन्द्रेशानयोर्मध्ये अनन्ताय । निऋतिर्वरुणयोर्मध्ये. चतुर्थावरणदेवताः गन्धादिभिः सम्पूज्य ॥ अभीष्टसिद्धिः मे. इति चतुर्थावरणम् ॥ इन्द्रादीनां पुरतः ॥ वज्राय । शक्तये. दण्डाय । खड्गाय । पाशाय । अङ्कुशाय । त्रिशूलाय । पद्माय । चक्राय । चक्रं पूजयामि ॥ पञ्चमावरणम् ॥ अभीष्टसिद्धिः मे ॥ ततः धूम्रपानस्थिताङ्गारे धूपद्रव्याणि क्षिप्त्वा अस्राय फडिति सामान्यार्य्योदकेन तत्पात्रं प्रोक्ष्य नम इति तत्र पुष्पाञ्जलिं समर्प्य जगध्व निमन्त्रमातः स्वाहेति घण्टा गन्धादिभिः सम्पूज्य वामतर्जन्या तत्पात्रं स्पृशन् ॥ दक्षिण हस्तेनादाय वामहस्तेन घण्टां वादयन् ॥ गग्गुलागरूसारोह्यं नखचन्दन सारज ॥ सलाक्षगुडजं धूपं आघ्रायेश प्रियं कुरु ॥ ३३॥ यत्पुरूषं व्यदधुरिति नाभिदेशे धूपं आम्राय धूपपात्रवद्दीपपात्र संस्कारः ॥ तत्र वाममध्ये षोडशकमया स्पर्शः ॥ पूर्ववत्घण्टां वादयन् ॥ दर्शयामि शुभं दीपं अमुं त्वमेवालोकय ॥ देवदेव नमस्तुभ्यं घृतवर्तिसमन्वितम् ॥ ३४॥ श्री नृसिंहाय । ब्राह्मणोस्येति नेत्रदेशे दीपं दर्शयामि ॥ दीपमुद्रां प्रदर्श्य ॥ मध्यमाङ्गुष्ठयोगे दीपमुद्रा ॥ अथनैवेद्यम् ॥ देवस्य पुरतः सामान्यार्थ्याम्बुना त्रिकोणवृत्तचतुरस्रमण्डलं विलिख्य तत्राधारं संस्थाप्य स्वर्णादि पात्रेण नानाविधान्नं परिवेष्य संस्थाप्य अस्त्राय फडिति वह्निबीजेन द्दष्ट्यादि दोषात् सन्दह्य वमिति अमृतबीजेन धेनुमुद्रयामृतीकृत्य तत्र पुष्पं निक्षिप्य सप्तधा मूलेनाभिमन्त्र्य ॥ मूलान्ते निवदयेत् ॥ यथा ॥ साधारे काञ्चने पात्रे परिवेष्टितमादरात् ॥ हिङ्गुनिरका-सिन्धुक्षसिद्धकांसु मनोहरम् ॥ ३५॥ शुभ्रसूत्रसुगन्धाढ्यं शालिसम्भूतमभक्तकम् ॥ स्वसाधुवस्तु सञ्जातवटकं स्वच्छायसम् ॥ ३६॥ घृतसिद्ध बहुछिद्रं मृदुअप्रूप-कराजितम् ॥ गुडसम्मिश्रचणकदलपक्वान्नं च करान्वितम् ॥ ३७॥ मण्डकेन्दुसमाकाराः फेणी यशष्कुलीयकम् ॥ सुसूक्ष्मशर्करा प्रोक्तं मधुदुग्धाज्यसंयुतम् ॥ ३८॥ मरीचचूर्णसम्मिश्रं दधिखण्डसमन्वितम् ॥ सुरूपं स्वादुभिर्लेऔः श्चोष्यैः पेयैर्विचित्रितम् ॥ ३९॥ चासबीजादि सम्पूर्णवक्त्राकृति विराजितः ॥ नैवेद्यमेते देवत्वं भुङ्क्ष्व मद्दत्तमादरात् ॥ ४०॥ इति पठित्वा जवनिकां धृत्वा ॥ घण्टां वादयन् ॥ वामहस्तेन विकचोत्पलसदृशीं मुद्रां प्रदर्श्य ॥ पञ्चभिः प्राणादि मुद्राभिः ॥ प्राणादि मुद्रा यथा ॥ ॐ प्राणाय स्वाहा ॥ कनिष्ठिकानामिका योगेन ॥ ॐ अपानाय स्वाहा तर्जनीमध्यमाङ्गुष्ठयोगेन ॥ ॐ व्यानाय । तर्जन्यामङ्गुष्ठायोगेन ॥ ॐ उदानाय । अनामिका मध्यमाङ्गुष्ठयोगेन ॥ ॐ समानाय । सर्वाभिरङ्गुलीभिः ॥ इति निवेद्य ॥ दशधा मूलं प्रजप्त्वा ॥ जलं दद्यात् ॥ कर्पूरैलावासितं शुद्धवारिमाधुर्यैणातीव हत्तोषकारि ॥ मद्दत्तं त्वं गृहाणाद्य नाथ स्वर्णपात्रे स्थापितं भूमिनाथ ॥ ४१॥ श्रीनृसिंहाय । भोजनमध्ये पानीयम् ॥ भोजनान्ते उत्तरापोशनम् ॥ ततः ऋष्यादिकपूर्वकं मूलजपं कृत्वा ॥ निवेद्य प्राणानायम्य स्व दक्षिणतः कुण्डं स्थण्डिले वा मूलेनावोक्षणं विधाय अस्त्राय फडिति सम्प्रोक्ष्य तेनैव कुशत्रयं वा सन्ताड्य कवचाय हुं इति अभ्युक्ष्य तत्र प्रागग्राउदगग्राश्च तिस्रो रेखाः विलिख्य तत्र नवमे कोष्ठे वह्निंप्रतिष्ठाप्य क्रव्यादेभ्यो ऊं फडिति क्रव्यादांशं नैऋत्यं त्यक्त्वा ॥ मूले वह्निंपरिषिच्य ॥ ॐ ॥ अग्नि प्रज्वालितं वन्दे जातवेदं हुताशनम् ॥ सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥ इति वह्निंप्रणम्य वैष्ववाग्नये नमः ॥ इति गन्धादिभिः सम्पूज्य ॥ तत्र चक्रस्थां देवतां सावरणां ध्यात्वा मूलेनगन्धादीनां सम्पूज्य घृतादीनां मूलं प्राणाय स्वाहेत्यादिभिः पञ्च ॥ षडङ्गैः षडाहुतिर्हुत्वा ॥ वौषडन्तेन मूलेन पूर्णाहुतिं हुत्वा ॥ पुनर्देवतां गन्धादिभिः सम्पूज्य पुष्पाञ्जलिं दत्वा मूलेन देवतां चक्रे संयोज्य ॥ मूलेन विभूतिवन्दनं कृत्वा पुनः पूर्ववत् वह्निंपरिषिच्य ॥ भो भो वह्ने महाशक्ते प्रसाधक ॥ कर्मान्तरेऽपि सम्प्राप्तौ सान्निध्यं कुरु सादर ॥ इति वह्निंसम्प्रार्थ्य ॥ विसृजेदिति नित्यहोमः ॥ ततः मूलेन देवस्योपरि मूलवर्णमुच्चार्य ॥ नारिकेल कदलीपनसाम्रखर्जुरादि जनितानि फलानि ॥ अर्पितानि तव चित्तचरित्र स्वीकुरु त्वममयानि मयात्र ॥ ४२॥ श्री लक्ष्मीनृसिंहाय । फलम् ॥ जातिफलै लासुर पुष्पजातिपत्रान्वितं खादिरपूगखण्डैः ॥ समेतमेनङ्कृतपत्रयुक्तं गृहाण ताम्बूलमनन्तविष्णो ॥ लक्ष्मीनृसिंहाय । ताम्बूलम् ॥ देवदेव सुवर्णादि दक्षिणा दीयते मया ॥ पूजा साद्गुण्य सिध्यर्थमिमां त्वमुरसा कुरु ॥ ४४॥ लक्ष्मीनृसिंहाय । दक्षिणाम् ॥ कृत्वेनं छत्रसञ्छन्नं जगदेतच्चराचरम् ॥ तथापि भक्त्या मद्देतं गृहाणातयवारणं ॥ ४५॥ लक्ष्मीनृसिंहाय । छत्रम् ॥ त्वां विज्वाय अहं देव चामरेणातिभक्तितः ॥ स्वर्णदण्डेन मृदुना शुभ्रेण परमेश्वर ॥ ४६॥ श्रीनृसिंहाय । चामरम् ॥ विश्वव्यापकरूपस्त्वं त्वां विना कोस्ति दर्पणे ॥ तथापि भक्त्या मद्दत्तं आदर्शमवलोकय ॥ ४७॥ लक्ष्मीनृसिंह. दर्पणम् ॥ सामसारप्रियोऽसि त्वं सामसारजगत्पते ॥ अतो मयात्र गीयन्ते श‍ृणु सामानि भक्तितः ॥ ४८॥ लक्ष्मीनृसिं. गीतम् ॥ नृत्यं वाद्यादि ॥ ध्वजम् ॥ रथम् ॥ अश्वगजम् ॥ इति राजोपचारैः समर्प्य ॥ प्राणायामपूर्वकं षडङ्गं ध्यात्वा ॥ मानसपूजां तं कृत्वा ॥ मालामादाय ॥ वामपाणि पात्रान्तरे निधाय ॥ मूलेन सामान्यार्य्योदकेनाभ्यक्ष्य ॥ गन्धादिभिः अभ्युक्ष्य ॥ गन्धादिभिः सम्पूज्य ॥ ॐ मालेमाले महामाये सर्वशक्तिस्वरूपिणे ॥ चतुर्वर्गास्त्वयि न्यस्तास्तस्मान्मे सिद्धिदा भव ॥ ४९॥ ह्रीं सिध्यै नमः ॥ इति प्रणम्य ॥ अविघ्नं कुरु माले त्वं इति अनेन तां दक्षिणहस्ते गृहीत्वा मूलेन हृत्कमलमानीय मध्यमामध्य पर्वणि संस्थाप्येकचित्तो भूत्वा ॥ मन्त्रदेवतयोरैक्यं विभाव्य सहस्रत्रिशतमष्टोत्तरशतं वा मूलं प्रजप्य ॥ जपावसाने ॥ त्वं माले सर्वदेवानां प्रीतिदा शुभदा सदा ॥ शुभं कुरुष्व मे भद्रे यशो वीर्यं च देहि मे ॥ ५०॥ इति मन्त्रेण तां शिरसि संस्थाप्य पुनः पूर्ववत् ऋष्यादि मानसपूजां कृत्वा ॥ सामान्यार्य्योदकं गृहीत्वा ॥ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥ सिद्धिर्भवतु मे देव त्वत्प्रसादात्वयि स्थितिः ॥ इति देवदक्षिणहस्ते जपं समर्प्य ॥ देवतां नीराजयेत् ॥ यथा ॥ स्वर्णादि पात्रे गन्धोदकेनाष्टदलं विलिख्याष्टदलेषु कर्णिकायां चन्दनागरूकाकारनरान्नवदीपारं संस्थाप्य ॥ तदनन्तरं अक्षताः विकीर्य ॥ श्रीं ह्रीं ग्लूं हीं स्लूं म्लूं क्लूं न्लूं ह्रीं इति नवरत्नेरनैश्वर्यायै नमः इति रत्नेश्वराङ्गं गन्धादिभिः सम्पूज्य अन्तर्बहिस्तेजसोरैक्यं विभाव्य मूलेन मस्तकं पात्रं त्रिवारं उधृत्य ॥ समस्तचक्रचक्रस्थयुत श्रीपरमेश्वर ॥ आरतिक्यमिदं देव विलोकय जगद्गुरो ॥ इत्यामस्तकं श्रीनृसिंहं नीराज्य आर्तिकां पठेत् ॥ यथा ॥ जयदेव जयदेव जय नरहरिमूर्ते लक्ष्मीजाने मामवनिगमस्तुतिमूर्तें जयदेव जयदेव ॥ गुर्गुरशब्दं कृत्वा सोष्णं विश्वसताम् ॥ स्तम्भादाविर्भूतं भक्तां क्रोधवताम् ॥ हिरण्यकशिपोर्जठरं नखरैर्दारयतां दंष्ट्रा भीषणवक्त्रो जिव्हां चालयताम् ॥ १॥ जयदेव. क्रोधज्वलनज्वालातापितलोकस्त्वं प्रल्हादास्फुरणे ह्यमलसिहेतुस्त्वम् ॥ निजरिपुवरभटजीवनहरणे कालस्त्वम् ॥ सनकादिकमुनिचित्ते परमध्येयस्त्वम् ॥ २॥ जयदेव. दृष्ट्वा रूपं तावकममरैरतिभीतं श्रुत्वोग्रोरावते फणिनाधश्चलितम् ॥ क्षुब्धः सिन्धुः शैलेरतिभीतायापतितम् ॥ गोविन्दात्मजसुखदं श्रवणे तवचरितम् ॥ ३॥ जयदेव. इति नीराञ्जनं विधाय ॥ अङ्गुलीभिर्द्दष्टिमूर्तय जयजय नरहरेति शब्दमुच्चैब्रूयात् ॥ ततः यज्ञेन यज्ञामिति मन्त्रपुष्पाञ्जलि दत्वा ॥ प्रदक्षिणा नमस्कारान्विधाय ॥ सहस्र नामादिभिः स्वेष्टदेवतां स्तुत्वोच्छिष्टभागिनं पूजये ॥ यथा ॥ ईशान्यां त्रिकोणचतुरस्र मण्डलं विलिख्य ॥ तत्र विष्वक्सेनं ध्यात्वा इष्टदेवतानिर्माल्यगन्धादिभिः सम्पूज्य ॥ ॐ लेह्यचोष्यान्नपानाद्यै ताम्बूलं स्रग्विलेपनम् ॥ निर्माल्यभोजने तुभ्यं ददामि श्री शिवाज्ञया ॥ इति नैवेद्यांशं पृथक्पात्रे दद्यादित्युच्छिष्टभाक्पूजनम् ॥ ततः गुरुप्रसादात्सम्पूज्येदं दत्वा स्वयं स्वीकृत्य परमानन्दनिर्भरः ॥ सामान्यार्घ्यमुधृत्य देवोपरि भ्रामयित्वा इति पूर्वप्राणबुद्धिधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यावस्था सुमनसा वाचा हस्ताभ्यामुदरेण शिस्ना यस्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा ॥ मामदीयं सकलं हरये ॐ तत्सदिति सामान्यार्य्योदकमुत्सृजेत् इति ब्रह्मार्पण् ॥ इति देवस्य चरणारविन्दे समर्प्य जलम् ॥ किञ्चित् अवशिष्टं जलं वामहस्तेनादाय म् ॥ तत्र पूजावशिष्टं गन्धमालोड्य तेनात्मानांसामायिकांश्च प्रोक्षयित्वा मूले देवपुष्पाञ्जलिं दत्वा परिवारदेवताः देवाङ्गे लीना विभाव्य ॥ ॐ गच्छ देव परं स्थानं परात्परसुरेश्वर ॥ यत्र ब्रह्मादयो देवा संविदुः सुखमासनम् ॥ इत्युच्चार्य गुरूपदिष्टमार्गेण खेचर्यो निर्माल्य पुष्पाघ्राणयोगेन सहस्रदलं प्राप्य तेजोमय ॥ श्री नृसिंहं ध्यायेत् ॥ हृत्कमले स्थापयेत् इति देवता विसर्जनम् ॥ ततः गुरुं ब्राह्मणांश्च गन्धादिभिः सम्पूज्य तेभ्यः तीर्थप्रसादं दत्वानन्तरं स्वयं गृहीत्वा यथासुखं विहरेत् ॥ अस्य पुरुषश्चरणं षष्ठिसहस्रोत्तर लक्षत्रयं अध्वकमलिका पुष्पैर्होमः ॥ एवं श्रीनृसिंहमभ्यर्चानन्तरं स्वोक्तमार्गेण कुटुम्बभरणार्थं योगक्षेमोपायं कृत्वानन्तरं मध्यान्हस्नानादि वैश्वदेवान्तं निर्वृत्य यथाशक्त्या ब्राह्मणसुवासिनीः सम्भोज्य ततः स्वयं भुञ्जीत ॥ ततः नृसिंहपुराणादि अथवा रामायणादि श्रुत्वा सन्ध्याहोमच निर्वृत्य नृसिंहदेवतांस्मरणानुपूर्वकं शुद्धशय्यायां शयीत ॥ एवं यः पूजयेत् भक्तया त्रिकालां भक्तितो हरिम् ॥ वैरिभिः पीड्यते नैव हरिस्तं रक्षति स्वयम् ॥ १॥ त्रिकालार्चनादि अशक्तौ द्विः सकृद्वार्चयेत् ॥ तत्राप्यशक्तौ जयन्त्यादि सङ्क्रान्त्याद्यखिलपर्वस्याखिलैरुपचारैः पूजयेत् । उत्तमानित्यपूजात्यक्षपूजा च मध्यमा ॥ अधमा मासपूजा च मासादूर्ध्वं पशुर्भवेत् इति कुलसमुद्रोक्तिः ॥ विस्तारेण अलम् ॥ उत्तरानन्दनाथानां पदपङ्कजसेवनम् ॥ रचिता स्वप्रकाशेन नृसिंहार्चनपद्धतिः ॥ रोड्योपनाम्ना जनार्दनभट्टस्यात्मजेन व्यङ्कटेशेन लिखितम् ॥ श्री लक्ष्मीनृसिंहो जयति ॥ शम् ॥ श्रीरस्तु ॥ शम् ॥ इति श्रीनृसिंहार्चनपद्धतिः समाप्ता । A note of caution or disclaimer: The text here is given for academic purpose, for information, only as it appears in a book. Considered as a tantric text, esoteric in nature, readers are advised caution about its indiscriminate usage or application of the same. It is very clear that a guru's guidance is always essential for mantra practices and practicing without the same leads to no merit or can in fact backfire. Proofread by Manoj Kumar Barman
% Text title            : Shri Nrisimha Archana Paddhatih 2
% File name             : nRRisiMhArchanapaddhatiH2.itx
% itxtitle              : nRisiMhArchanapaddhatiH 2
% engtitle              : nRRisiMhArchanapaddhatiH 2
% Category              : vishhnu, dashAvatAra, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manoj Kumar Barman
% Description/comments  : nRRisiMhakosha 3 upAsanA khaNDa uttarArdha
% Indexextra            : (Scan)
% Latest update         : August 11, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org