श्रीनृसिंहहृदयम्
श्रीगणेशाय नमः ।
ब्रह्मौवाच-
अथातः सम्प्रवक्ष्यामि नृसिंहहृदयोत्तमम् ॥
सारं सर्वमन्त्राणां ज्ञानदं मोक्षदं शुभम् ॥ १॥
नृसिंहमन्त्रराजाद्यास्तारतम्यफलप्रदाः ॥
हृदयं सर्वदेवानां सारभूतं भयापहम् ॥ २॥
ॐ अस्य श्रीनृसिंहहृदयस्तोत्रमन्त्रस्य ।
कपिलमहाविष्णुऋषिः । अतिजगतीच्छन्दः ।
श्रीलक्ष्मीनृसिंहो महाविष्णुर्देवता । आद्याजगन्मूलप्रकृतिः शक्तिः ।
महापुरुष आद्यं बीजम् । बुद्धिः द्वितीया शक्तिः । तदुपाधिकप्रत्यगात्मा द्वितीयं बीजम् ।
अमृतपूरिणी शिरसि । मध्यवर्तिनी मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्नासरस्वती कुण्डला देवि तृतीया शक्तिः । तत्पुरुष चरण उदानवायुस्तृतीयम्बीजम् ।
स्वाहान्त्यपरतश्चतुर्थीशक्तिः ।
क्ष्रौमित्यपरं चतुर्थं बीजम् ॥ श्रीलक्ष्मीनृसिंहकृपाप्रसादप्रीत्यर्थं जपे विनियोगः ।)
अथ करन्यासः ।
ॐ क्ष्रां अङ्गुष्ठाभ्यां नमः ।
ॐ क्षीं तर्जनीभ्यां नमः ।
ॐ क्षं मध्यमाभ्यां नमः ।
ॐ क्ष्रैं अनामिकाभ्यां नमः ।
ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्ष्रः करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादिन्यासः ।
ॐ क्ष्रां हृदयाय नमः ।
ॐ क्षीं शिरसे स्वाहा ।
ॐ क्षं शिखाय वषट् ।
ॐ क्ष्रैं कवचाय हुम् ।
ॐ क्ष्रौं नेत्रत्रयाय वौषट् ।
ॐ क्ष्रः अस्त्राय फट् ।
अथ ध्यानम् ।
क्रोधाद्दिग्भूतकर्णस्फुरदनलनिभचक्षुरङ्गारघोरः
प्रोद्यद्भूत्भृकुटिस्फुरदनिलचलत् प्रोल्लसलल्लोळजिह्वः ।
सम्भ्रातोजृम्भपुटनटनलिनोद्भ्रान्तभूभृत्सहस्रो
गर्जन्वज्रोग्रदंष्ट्रावदनमभिवहत् पातु मां नारसिंहः ॥ १॥
ध्यानं कृत्वा ततो ध्यात्वा हृदयं पूजयेत्सुधीः ॥
अष्टोत्तरशतावृत्त्या पुरश्चर्यां ततश्चरेत् ॥ २॥
मन्त्राङ्गन्यासः ।
ॐ क्ष्रां सहस्राक्षाय विश्वरूपधारिणे सहस्रबाहवे सहस्रायुधधराय विश्वरूपधरनारसिंहाय स्वाहा । ब्रह्मरन्ध्राय नमः ।
नमः ।
ॐ क्ष्रीं सहस्राक्षाय ज्वालाविजृम्भितनारसिंहाय स्वाहा भ्रूमध्याय नमः ।
ॐ क्ष्रूं महाप्रभाय विकटनारसिंहाय स्वाहा कण्ठोपकण्ठाय नमः ।
ॐ क्ष्रैं महाध्वनिध्वस्तजगद्भयाय नारसिंहाय स्वाहा अनाहतचक्राय
ॐ क्ष्रौं प्रदीप्तचक्रबालनयननारसिंहाय स्वाहा नाभिनालाय नमः !
ॐ क्ष्रः सहस्राक्षाय विगतकल्मषमूर्तये विक्रमपावनाय नारसिंहाय स्वाहा स्वाधिष्ठाय नमः ।
ॐ क्ष्रां क्ष्रीं क्ष्रूं क्ष्रैं क्ष्रौं क्ष्रः सहस्राक्षाय ज्वालामालिने सहस्रनखवज्रदंष्ट्राकरालवदनाय नारसिंहाय स्वाहा मूलाधाराय नमः ।
ष्भिः सुदर्शनं मन्त्रं सहस्राकृतितेजसम् ।
सूर्यकोटिप्रतीकाशं अग्निज्वालासमप्रभम् ॥ ३॥
अथातः सम्प्रवक्ष्यामि नारसिंहं स्मरन्बुधः ।
ॐ श्रीनारसिंहस्य सकलसुरासुरपतेः सर्वमन्त्राधारस्य ।
सर्व मन्त्रनाथस्य सर्व मन्त्रार्चितस्य सर्वमन्त्रपूजितस्य सर्वमन्त्रशरीरस्य ।
सर्वामरवैरिविदारणस्य । प्रपन्नजनसंयुतसाधनस्य भक्तवत्सलस्य संसारार्णवदुर्गामलस्त्रसनस्य सर्वार्तिहरस्य सर्वविघ्नहरस्य । सर्वपापहरस्य सर्वाभिभूतवरप्रदानस्य । सर्वदुःखनाशनस्य सर्व सुखप्राप्त्यस्य सर्वेश्वरस्य भगवतो महानारसिंहमहानारसिंहस्य ॥
हृदयमहास्तोत्रमन्त्रं आवर्तयिष्याम्यावर्तयिष्यामि ।
ॐ क्ष्रौं ॐ प्रणवरूपाय मस्तके ।
ॐ क्ष्रौं ॐ सत्वरूपाय ललाटे ।
ॐ क्ष्रौं ॐ मन्त्ररूपाय कर्णयोः ।
ॐ क्ष्रौं ॐ ध्यानरूपाय नेत्रयोः ।
ॐ क्ष्रौं ॐ भद्ररूपाय कण्ठे ।
ॐ क्ष्रौं ॐ स्थूलरूपाय बाह्वोः ।
ॐ क्ष्रौं ॐ सूक्ष्मरूपाय हृदये ।
ॐ क्ष्रौं ॐ नित्यरूपाय उदरे ।
ॐ क्ष्रौं ॐ निरञ्जनरूपाय नाभौ ।
ॐ क्ष्रौं ॐ कर्तृत्वरूपाय पार्श्वयोः ।
ॐ क्ष्रौं ॐ परमेष्टिरूपाय लिङ्गे ।
ॐ क्ष्रौं ॐ कारणरूपाय मूलाधारे ।
ॐ क्ष्रौं ॐ महाकारणरूपाय जान्वोः ।
ॐ क्ष्रौं ॐ कार्यरूपाय जङ्घयोः ।
ॐ क्ष्रौं ॐ समरूपाय गुल्फयोः ।
ॐ क्ष्रौं ॐ विष्णुरूपाय पादयोः ।
ॐ क्ष्रौं ॐ सर्वेश्वरनृसिंहरूपाय सर्वाङ्गेषु ।
पाताल लिङ्गेभ्यः हुं फट् ।
आकाश आसुरेभ्यः हुं फट् ।
मन्त्ररूपेभ्यः हुं फट् ।
मन्त्रज्योतिभ्यः हुं फट् ।
असहायमां रक्ष रक्ष भगवन् नृसिंहरूपिन् विष्णो सर्वपापेभ्यः सर्वपापभयेभ्यः सर्व पापभयोपसर्गेभ्यः ॐ ह्रीं क्ष्रौं ऐं ॐ हुं फट् स्वाहा । ॐ नमो भगवते हुं फट् स्वाहा ।
नृसिंह भुविक्रीड नृसिंह भुविद्रावय भुविद्रावय सर्वमन्त्राणि सर्वयन्त्राणि हन हन भञ्ज भञ्ज उच्चाटय उच्चाटय हुं फट् स्वाहा ।
ॐ नृसिंहाय उत्तमाङ्गभक्षणाय हुं फट् स्वाहा ।
रक्षामन्त्रस्य देवस्य पठितव्यं समाहितः ।
शत्रुनाशमवान्योति सर्वत्र विजयीभवेत् ॥ १॥
अथातः सम्प्रवक्ष्यामि दिशाबन्धनमुत्तमम् ।
नारसिंहं वपुश्रेष्ठं देवानामपि दुर्लभम् ॥ २॥
ॐ क्ष्रौं ॐ मत्स्यरूपाय नारसिंहाय ॐ क्ष्रौं ॐ लां पूर्वदिशं बन्धयामि हुं फट् स्वाहा ।
ॐ क्ष्रौं ॐ कूर्मरूपाय नारसिंहाय ॐ क्ष्रौं ॐ हां आग्नेयीन्दिशं बन्धयामि हुं फट् स्वाहा ।
ॐ क्ष्रौं ॐ वराहरूपाय नारसिंहाय ॐ क्ष्रौं ॐ षां याम्यान्दिशं बन्धयामि हुं फट् स्वाहा ।
ॐ क्ष्रौं ॐ नृसिंहरूपाय नारसिंहाय ॐ क्ष्रौं ॐ नैऋतीदिशं बन्धयामि हुं फट् स्वाहा ।
ॐ क्ष्रौं ॐ वामनरूपाय नारसिंहाय ॐ क्ष्रौं ॐ वां वारूणीदिशं बन्धयामि हुं फट् स्वाहा ।
ॐ क्ष्रौं ॐ परशुरामरूपाय नारसिंहाय ॐ क्ष्रौं ॐ यां वायवीदिशं बन्धयामि हुं फट् स्वाहा ।
ॐ क्ष्रौं ॐ रामचन्द्ररूपाय नारसिंहाय ॐ क्ष्रौं ॐ सां कौबेरीदिशं बन्धयामि हुं फट् स्वाहा ।
ॐ क्ष्रौं ॐ कृष्णरूपाय नारसिंहाय ॐ क्ष्रौं ॐ शां ईशानीदिशं बन्धयामि हुं फट् स्वाहा ।
ॐ क्ष्रौं ॐ बौद्धरूपाय नारसिंहाय ॐ क्ष्रौं ॐ आं ऊर्ध्वादिशं बन्धयामि हुं फट् स्वाहा ।
ॐ क्ष्रौं ॐ कल्किरूपाय नारसिंहाय ॐ क्ष्रौं ॐ क्लौं अधरायदिशं बन्धयामि हुं फट् स्वाहा ।
ॐ लां ह्रां षां रां वां यां सां शां आं क्लौं ॐ हुं फट् स्वाहा ।
एवं दशदिशां रक्षां मन्त्रराजं जपेत्सुधीः ।
सर्वान् कामानवाप्नोति विष्णुमायां प्रसीदति ।
ॐ क्ष्रौं ॐ मुखे । ॐ क्ष्रौं ॐ हृदये ।
ॐ श्रीं ॐ नाभौ । ॐ ह्रीं ॐ गुह्ये ।
ॐ क्लीं ॐ मूलाधारे । ॐ क्लीं ॐ पादयोः ।
ॐ ह्रीं ॐ पृष्ठे । ॐ श्रीं ॐ पार्श्वयोः ।
ॐ ऐं ॐ करयोः । ॐ क्ष्रौं ॐ सर्वाङ्गे व्यापकं न्यसेत् इति मन्त्राङ्गन्यासः ।
अथ हृदयमन्त्रः । ॐ हयग्रीवाय नमः ।
ॐ नमो भगवते चक्रासनस्थाय श्रीनृसिंहाय क्रोधमूर्ते नृसिंह पुरुषप्रधानधर्मतो विकटनिर्मोचन नृसिंह कालपुरुष कालान्तक विश्वेश्वर विश्वविडम्बेन विश्वनिष्ठ विश्वचैतन्य चित्सदाभास कालाध्वातीत निशातीत उदयास्तमयरहित परमहंस परमकारुणिक नृसिंहहृदयचतुर्दलनिविष्ट चैतन्यात्मन् एकात्मन् चतुरात्मन् पञ्चात्मन् द्वादशात्मन् षोडषात्मन् चर्तुर्विंशत्यात्मन् पञ्चविंशत्यात्मन् षड्विंशत्यात्मन् सप्तविंशत्यात्मन् शतसहस्रमूर्ते एहि एहि भगवन्नारसिंह मम हृदये प्रवेशय प्रवेशय । सर्वान् आकर्षय आकर्षय । मम सान्निध्यं कुरु कुरु । ॐ रौं नमः हुं फट् स्वाहा ॥ १॥
ॐ ऐं ह्रीं क्लीं श्रीं क्रीं क्लां ध्यौं नमः ।
ॐ खट्पट् छिन्धि छिन्धि भिधिं भिधिं हन् हन् रिपून् विष्णो स्वाहा ॥ २॥
ॐ क्ष्रौं नमः नमस्तस्मै नृसिंहरूपिणे हृषिकेश नमोनमः ।
ॐ क्ष्रौं ॐ महाघोराय उग्रनारसिंहाय ह्रीं हुं फट् स्वाहा ।
मध्यरात्रेविशेषेण रिपुसङ्कटमस्तके ।
पठितव्यं महामन्त्रं देवानामपिदुर्लभम् ॥ १॥
एकविंशतिवारं च पठेत्तदितिनिश्चयः ।
काराग्रहगतं घोरं बन्धाद्राजा विमोचयेत् ॥ २॥
राजदर्शनवेलायां पठितव्यं त्रिवारतः ।
सराजं वशमानित्वा प्रकृतिं च सभाजयम् ॥ ३॥
इदं नृसिंहहृदयं देवदेवाधिदैवतम् ।
सर्वस्वं च मयाख्यातं तवभक्तः सदानघ ॥ ४॥
ब्राह्मणान् भोजयेन्नित्यं दशकं द्वादशं तथा ।
पूजयेन्मन्त्रराजं च कुलमार्गेण संयुतम् ॥ ५॥
तत् समीपं पठेन्नित्यं नृसिंहप्रीतिमाप्नुयात् ॥ ६॥
इति श्री ब्रह्माण्डपुराणे ब्रह्माप्रह्लादसंवादे उत्तरखण्डे श्रीनृसिंहचरित्रे श्रीनृसिंहहृदयं सम्पूर्णम् ।
श्रीकृष्णार्पणमस्तु । श्रीमद्दिव्यलक्ष्मीनृसिंहार्पणमस्तु ।
Proofread by M K Barman