अपामार्जनस्तोत्रम् २ महिमसहितम्

अपामार्जनस्तोत्रम् २ महिमसहितम्

अथोनाशीतितमोऽध्यायः । महादेव उवाच - अथातः संप्रवक्ष्यामि अपामार्जनमुत्ततम् । पुलस्त्येन यथोक्तं तु दालभ्याय महात्मने ॥ १॥ सर्वेषां रोगदोषाणां नाशनं मङ्गलप्रदम् । तत्तेऽहं तु प्रवक्ष्यामि श‍ृणु त्वं नगनन्दिनि ॥ २॥ पार्वत्युवाच (श्रीदालभ्यौवाच) - भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवाः । दुष्टग्रहाभिभूताश्च सर्वकाले ह्युपद्रुताः ॥ ३॥ अभिचारककृत्यादिबहुरोगैश्च दारुणैः । न भवन्ति सुरश्रेष्ठ तन्मे त्वं वक्तुमर्हसि ॥ ४॥ (न भवन्ति मुनिश्रेष्ठ) महादेव उवाच (श्रीपुलस्त्य उवाच) - व्रतोपवासैर्नियमैर्विष्णुर्वै तोषितस्तु यैः । ते नरा नैव रोगार्ता जायन्ते नगनन्दिनि ॥ ५॥ (जायन्ते मुनिसत्तम) यैः कृतं न व्रतं पुण्यं न दानं न तपस्तथा । न तीर्थं देवपूजा च नान्नं दत्तं तु भूरिशः ॥ ६॥ ते वै लोकाः सदा ज्ञेया रोगदोषप्रपीडिताः । आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति ॥ ७॥ तत्तदाप्नोत्यसन्दिग्धं विष्णोः सेवाविशेषतः । नाऽऽधिं प्राप्नोति न व्याधिं न विषग्रहबन्धनम् ॥ ८॥ कृत्यास्पर्शभयं चापि तोषिते मधुसूदने । समस्तदोषनाशश्च सर्वदा च शुभा ग्रहाः ॥ ९॥ देवानामप्यधृष्योऽसौ तोषिते च जनार्दने । यः सर्वेषु च भूतेषु यथाऽऽत्मनि तथाऽपरे ॥ १०॥ उपवासदिनान्ते तु तोषितो मधुसूदनः । तोषिते तत्र जायन्ते नराः पूर्णमनोरथाः ॥ ११॥ अरोगाः सुखिनो भोगभोक्तारो नगनन्दिनि । तेषां च शत्रवो नैव न च रोगाभिचारिकम् ॥ १२॥ ग्रहरोगादिकं चैव पापकार्यं न जायते । अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वै ॥ रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः ॥ १३॥ पार्वत्युवाच (श्रीदालभ्यौवाच) - अनाराधितगोविन्दा ये नरा दुःखभाजिनः । तेषां दुःखाभिभूतानां यत्कर्तव्यं दयालुभिः ॥ १४॥ पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनम् । समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः ॥ १५॥ महादेव उवाच (श्रीपुलस्त्य उवाच) - तद्वक्ष्यामि सुरश्रेष्ठे समाहितमनाः श‍ृणु । (मुनिश्रेष्ठ) रोगदोषाशुभहरं विद्विडापद्विनाशनम् ॥ १६॥ शिखायां श्रीधरं न्यस्य शिखाधः श्रीकरं तथा । हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम् ॥ १७॥ ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाटे जलशायिनम् । विष्णुं वै भ्रुयुगे न्यस्य भ्रूमध्ये हरिमेव च ॥ १८॥ नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयम् । चक्षुषोः पुण्डरीकाक्षं तदधो भूधरं न्यसेत् ॥ १९॥ कपोलयोः कल्किनाथं वामनं कर्णमूलयोः । शङ्खिनं शङ्खयोर्न्यस्य गोविन्दं वदने तथा ॥ २०॥ मुकुन्दं दन्तपङ्क्तौ तु जिह्वायां वाक्पतिं तथा । रामं हनौ तु विन्यस्य कण्ठे वैकुण्ठमेव च ॥ २१॥ बलघ्नं बाहुमुलाधश्चांसयोः कंसघातिनम् । अजं भुजद्वये न्यस्य शार्ङ्गपाणिं करद्वये ॥ २२॥ सङ्कर्षणं कराङ्गुष्ठे गोपमङ्गुलिपङ्क्तिषु । वक्षस्यधोक्षजं न्यस्य श्रीवत्सं तस्य मध्यतः ॥ २३॥ स्तनयोरनिरुद्धं च दामोदरमथोदरे । पद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवम् ॥ २४॥ मेढ्रे धराधरं देवं गुदे चैव गदाग्रजम् । पीताम्बरधरं कट्यामूरुयुग्मे मधुद्विषम् ॥ २५॥ मुरद्विषं पिण्डकयोर्जानुयुग्मे जनार्दनम् । फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम् ॥ २६॥ पादाङ्गुष्ठे श्रीपतिं च पादाधो धरणीधरम् । रोमकूपेषु सर्वेषु विष्वक्सेनं न्यसेद्बुधः ॥ २७॥ मत्स्यं मांसे तु विन्यस्य कूर्मं मेदसि विन्यसेत् । वाराहं तु वसामध्ये सर्वास्थिषु तथाऽच्युतम् ॥ २८॥ द्विजप्रियं तु मज्जायां शुक्रे श्वेतपतिं तथा । सर्वाङ्गे यज्ञपुरुषं परमात्मानमात्मनि ॥ २९॥ एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् । यावन्न व्याहरेत्किञ्चित्तावद्विष्णुमयः स्थितः ॥ ३०॥ गृहीत्वा तु समूलाग्रान्कुशांशुद्धान्समाहितः । मार्जयेत्सर्वगात्राणि कुशाग्रैरिह शान्तिकृत् ॥ ३१॥ विष्णुभक्तो विशेषेण रोगग्रहविषार्तिनः । (विषार्दितः) विषार्तानां रोगिणां च कुर्याच्छान्तिमिमां शुभाम् ॥ ३२॥ जपेत्तत्र तु भो देवि सर्वरोगप्रणाशनम् । ॐ नमः श्रीपरमार्थाय पुरुषाय महात्मने ॥ ३३॥ अरूपबहुरूपाय व्यापिने परमात्मने । वाराहं नारसिंहं च वामनं च सुखप्रदम् ॥ ३४॥ ध्यात्वा कृत्वा नमो विष्णोर्नामान्यङ्गेषु विन्यसेत् । निष्कल्मषाय शुद्धाय व्याधिपापहराय वै ॥ ३५॥ गोविन्दपद्मनाभाय वासुदेवाय भूभृते । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वच ॥ ३६॥ (वचः) त्रिविक्रमाय रामाय वैकुण्ठाय नराय च । वाराहाय नृसिंहाय वामनाय महात्मने ॥ ३७॥ हयग्रीवाय शुभ्राय हृषीकेश हराशुभम् । परोपतापमहितं प्रयुक्तं चाभिचारिणम् ॥ ३८॥ (चाभिचारिणाम्) गरस्पर्शमहारोगप्रयोगं जरया जर । नमोऽस्तु वासुदेवाय नमः कृष्णाय खङ्गिने ॥ ३९॥ नमः पुष्करनेत्राय केशवायऽऽदिचक्रिणे । नमः किञ्जल्कवर्णाय पीतनिर्मलवाससे ॥ ४०॥ महादेववपुःस्कन्धधृष्टचक्राय चक्रिणे । दंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपतये नमः ॥ ४१॥ महायज्ञवराहाय श्रीविष्णवे नमोऽस्तु ते । तप्तहाटककेशान्तज्वलत्पावकलोचन ॥ ४२॥ वज्राधिकनखस्पर्शदिव्यसिंह नमोऽस्तु ते । कश्यपायातिह्रस्वाय ऋग्यजुःसामलक्षण ॥ ४३॥ तुभ्यं वामनरूपाय क्रमते गां नमो नमः । वाराहाशेषदुःखानि सर्वपापफलानि च ॥ ४४॥ मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् । नरसिंह करालास्यदन्तप्रान्त नखोज्ज्वल ॥ ४५॥ भञ्ज भञ्ज निनादेन दुःखान्यस्याऽऽर्तिनाशन । ऋग्यजुःसामभिर्वाग्भिः कामरूपधरादिधृक् ॥ ४६॥ प्रशमं सर्वदुःखानि नय त्वस्य जनार्दन । ऐकाहिकं व्द्याहिकं च तथा त्रिदिवसं ज्वरम् ॥ ४७॥ चातुर्थिकं तथाऽनुग्रं तथा वै सततज्वरम् । दोषोत्थं सन्निपातोत्थं तथैवाऽऽगन्तुकज्वरम् ॥ ४८॥ शमं नयतु गोविन्दो भित्त्वा छित्त्वाऽस्य वेदनम् । नेत्रदुःखं शिरोदुःखं दुःखं तूदरसम्भवम् ॥ ४९॥ अनुच्छ्वासं महाश्वासं परितापं तु वेपथुम् । गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगं तथा क्षयम् ॥ ५०॥ कामलादींस्तथा रोगान्प्रमेहादींश्च दारुणान् । ये वातप्रभवा रोगा लूताविस्फोटकादयः ॥ ५१॥ ते सर्वे विलयं यान्तु वासुदेवापमार्जिताः । विलयं यान्ति ते सर्वे विष्णोरुच्चारणेन वा ॥ ५२॥ क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः । अच्युतानन्तगोविन्दनामोच्चारणभेषजात् ॥ ५३॥ नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् । स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् ॥ ५४॥ दन्तोद्भवं नखोद्भूतमाकाशप्रभवं च यत् । भूतादिप्रभवं यच्च विषमत्यन्तदुःसहम् ॥ ५५॥ शमं नयतु तत्सर्वं कीर्तितोस्य जनार्दनः । ग्रहान्प्रेतग्रहांश्चैव तथाऽन्यांशाकिनीग्रहान् ॥ ५६॥ मुखमण्डलकान्कूरान्रेवतीं वृद्धरेवतीम् । वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ॥ ५७॥ बालस्य विष्णोश्चरितं हन्ति बालग्रहानपि । वृद्धानां ये ग्रहाः केचिद्बालानां चापि ये ग्रहाः ॥ ५८॥ नृसिंहदर्शनादेव नश्यन्ते तत्क्षणादपि । दंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः ॥ ५९॥ तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यान्ति विशेषतः । नरसिंह महासिंह ज्वालामालोज्ज्वलानन ॥ ६०॥ ग्रहानशेषान्सर्वेश नुद स्वास्यविलोचन । ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ॥ ६१॥ यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः । शस्त्रक्षतेषु ये रोगा ज्वालागर्दभकादयः ॥ ६२॥ विस्फोटकादयो ये च ग्रहा गात्रेषु संस्थिताः । त्रैलोक्यरक्षाकर्तस्त्वं दुष्टदानववारण ॥ ६३॥ सुदर्शनमहातेजश्छिन्धि च्छिन्धि महाज्वरम् । छिन्धि वातं च लूतं च च्छिन्धि घोरं महाविषम् ॥ ६४॥ उद्दण्डामरशूलं च विषज्वालासगर्दभम् । ॐ ह्रांह्रांह्रूंह्रूं प्रधारेण कुठारेण हन द्विषः ॥ ६५॥ ॐ नमो भगवते तुभ्यं दुःखदारणविग्रह । यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै ॥ ६६॥ तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः । किञ्चिद्रूपं समास्थाय वासुदेव नमोऽस्तु ते ॥ ६७॥ क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम् । सर्वदुष्टोपशमनं कुरु देववराच्युत ॥ ६८॥ सुदर्शन महाचक्र गोविन्दस्य वरायुध । तीक्ष्णधार महावेग सूर्यकोटिसमद्युते ॥ ६९॥ सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव । सर्वदुःखानि रक्षांसि पापानि च विभीषण ॥ ७०॥ दुरितं हन चाऽऽरोग्यं कुरु त्वं भोः सुदर्शन । प्राच्यां चैव प्रतीच्यां च दक्षिणोत्तरतस्तथा ॥ ७१॥ रक्षां करोतु विश्वात्मा नरसिंहः स्वगर्जितैः । भूम्यन्तरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः ॥ ७२॥ रक्षां करोतु भगवान्बहुरूपी जनार्दनः । (तथा विष्णुमयं सर्वं सदेवासुरमानुषम्) ॥ ७३॥ तेन सत्येन सकलं दुःखमस्य प्रणश्यतु । यथा योगेश्वरो विष्णुः सर्ववेदेषु गीयते ॥ ७४॥ तेन सत्येन सकलं दुःखमस्य प्रणश्यतु । परमात्मा यथा विष्णुर्वेदाङ्गेषु च गीयते ॥ ७५॥ तेन सत्येन विश्वात्मा सुखदस्तस्य केशवः । शान्तिरस्तु शिवं चास्तु प्रणाशं यातु चासुखम् ॥ ७६॥ वासुदेवशरीरोत्थैः कुशैः सम्मार्जितं मया । अपामार्जितगोविन्दो नरो नारायणस्तथा ॥ ७७॥ तथाऽपि सर्वदुःखानां प्रशमो वचनाद्धरेः । शान्ताः समस्तदोषास्ते ग्रहाः सर्वे विषाणि च । भूतानि च प्रशाम्यन्ति संस्मृते मधुसूदने ॥ ७८॥ एते कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयमेव चाग्रतः । हतं मया दुःखमशेषमस्य वै स्वस्थो भवत्वेष वचो यथा हरेः ॥ ७९॥ शान्तिरस्तु शिवं चास्तु प्रणश्यत्वसुखं च यत् । यदस्य दुरितं किञ्चित्क्षिप्तं तल्लवणाम्भसि ॥ ८०॥ स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् । यद्यतोऽत्र गतं पापं तत्तु तत्र प्रगच्छतु ॥ ८१॥ एतद्रोगेषु पीडासु जन्तूनां हितमिच्छुभिः । विष्णुभक्तैश्च कर्तव्यमपामार्जनकं परम् ॥ ८२॥ अनेन सर्वदुःखानि विलयं यान्त्यशेषतः । सर्वपापविशुद्ध्यर्थं विष्णोश्चैवापमार्जनात् ॥ ८३॥ आर्द्रं शुष्कं लघु स्थूलं ब्रह्महत्यादिकं तु यत् । तत्सर्वं नश्यते तूर्णं तमोवद्रविदर्शनात् ॥ ८४॥ नश्यन्ति रोगा दोषाश्च सिंहात्क्षुद्रमृगा यथा । ग्रहभूतपिशाचादि श्रवणादेव नश्यति ॥ ८५॥ द्रव्यार्थं लोभपरमैर्न कर्तव्यं कदाचन । कृतेऽपामार्जने किञ्चिन्न ग्राह्यं हितकाम्यया ॥ ८६॥ निरपेक्षैः प्रकर्तव्यमादिमध्यान्तबोधकैः । विष्णुभक्तैः सदा शान्तैरन्यथाऽसिद्धिदं भवेत् ॥ ८७॥ अतुलेयं नृणां सिद्धिरियं रक्षा परा नृणाम् । भेषजं परमं ह्येतद्विष्णोर्यदपमार्जनम् ॥ ८८॥ उक्तं हि ब्रह्मणा पूर्वं पौ(पु)लस्त्याय सुताय वै । एतत्पुलस्त्यमुनिना दालभ्यायोदितं स्वयम् ॥ ८९॥ सर्वभूतहितार्थाय दालभ्येन प्रकाशितम् । त्रैलोक्ये तदिदं विष्णोः समाप्तं चापमार्जनम् ॥ ९०॥ तवाग्रे कथितं देवि यतो भक्ताऽसि मे सदा । श्रुत्वा तु सर्वं भक्त्या च रोगान्दोषान्व्यपोहति ॥ ९१॥ इति श्रीमहापुराणे पाद्मे उत्तरखणे उमामहेश्वरसंवादे (दालभ्यपुलस्त्यसंवादे) विष्णोरपामार्जनस्तोत्रं सम्पूर्णम् । (अपामार्जनस्तोत्रस्तोत्रकथनं नामोनाशीतितमोऽध्यायः ॥ ७९/८० ॥) अथाशीतितमोऽध्यायः । महादेव उवाच- अपामार्जनकं दिव्यं परमाद्भुतमेव च । पठितव्यं विशेषेण पुत्रकामार्थसिद्धये ॥ १॥ एतत्स्तोत्रं पठेत्प्राज्ञः सर्वकामार्थसिद्धये । एककालं द्विकालं वा ये पठन्ति द्विजातयः ॥ २॥ आयुश्च श्रीर्बलं तेषां वृद्धिं यान्ति दिने दिने । ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमेव वा ॥ ३॥ वैश्यो धनसमृद्धिं च शूद्रो भक्तिं च विन्दति । अन्यश्च लभते भक्ति पठनाच्छ्रवणाज्जपात् ॥ ४॥ सामवेदफलं तस्य जायते नगनन्दिनि । अखिलः पापसङ्घातस्तत्क्षणादेव नश्यति ॥ ५॥ इति ज्ञात्वा तु भो देवि पठितव्यं समाहितैः । पुत्राथैव तथा लक्ष्मीः सम्पूर्णा भवति ध्रुवम् ॥ ६॥ लिखित्वा भूर्जपत्रे तु यो धारयति वैष्णवः । इह लोके सुखं भुक्त्वा याति विष्णोः परं पदम् ॥ ७॥ पठित्वा श्लोकमेकं तु तुलसीं यः समर्पयेत् । सर्व तीर्थे कृतं तेन तुलस्याः (स्या) पूजने कृते ॥ ८॥ एतत्स्तोत्रं तु परमं वैष्णवं मुक्तिदायकम् । पृथिवीदानमात्रेण विष्णुलोकं तु गच्छति ॥ ९॥ जपेत्स्तोत्रं विशेषेण विष्णुलोकस्य वाञ्छया । बालानां जीवनार्थाय पठितव्यं समाहितैः ॥ १०॥ रोगग्रहाभिभूतानां बालानां शान्तिकारकम् । भूतग्रहविषं चैव पठनादेव नश्यति ॥ ११॥ कण्ठे तुलसिजां मालां धृत्वा विमो हि यः पठेत् । स च वै वैष्णवो ज्ञेयो विष्णुलोकं स गच्छति ॥ १२॥ कण्ठे माला धृता येन शङ्खचक्रादिचिह्नितः । वैष्णवः प्रोच्यते विप्रः स्तोत्रं चैतत्पठन्सदा ॥ १३॥ इहलोकं परित्यज्य विष्णुलोकं स गच्छति । मोहमायापरित्यक्तो दम्भतृष्णाविवर्जितः ॥ १४॥ एतत्स्तोत्रं पठन्दिव्यं परं निर्वाणमामुयात् । ते धन्याः सन्ति भूर्लोके ये विमा वैष्णवाः स्मृताः ॥ १५॥ स्वात्मा वै तारितस्तैस्तु सकुलो नात्र संशयः । ते वै धन्यतमा लोके नारायणपरायणाः । तैर्भक्तिश्व सदा कार्या ते वै भागवता नराः ॥ १६॥ इति श्रीमहापुराणे पाद्मे उत्तरखण्डे उमामहेश्वरसंवादेऽपामार्जनमहिमकथनं नामाशीतितमोऽध्यायः ॥ ८०/८१॥ Proofread by NA
% Text title            : Vishnu Apamarjana Stotram 2
% File name             : viShNorapAmArjanastotram2.itx
% itxtitle              : viShNorapAmArjanastotram 2 apAmArjanamahimasahitam (padmappurANAntargatam mahAdevapArvatIsaMvAde)
% engtitle              : viShNorapAmArjanastotram 2
% Category              : apAmArjana, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Source                : padmapurANa uttarakhaNDa (6) adhyAya 78/79 and its importance in 79/80th. Also similar in Vishnudharmottarapurana Vishnurahasya.
% Indexextra            : (Scans 1, 2, Hindi, English)
% Latest update         : December 26, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org