योगनिद्रोक्तकवचन्यासः
योगनिद्रोवाच ।
दूरीभूतं कुरु भयं भयं किं ते हरौ स्थिते ।
स्थितायां मयि च ब्रह्मन्सुखी तिष्ठ जगत्पते ॥ १७॥
श्रीहरिः पातु ते वक्त्रं मस्तकं मधुसूदनः ।
श्रीकृष्णश्चक्षुषी पातु नासिकां राधिकापतिः ॥ १८॥
कर्णयुग्मं च कण्ठं च कपालं पातु माधवः ।
कपोलं पातु गोविन्दः केशांश्च केशवः स्वयम् ॥ १९॥
अधरोष्ठं हृषीकेशो दन्तपङ्क्तिं गदाग्रजः ।
रासेश्वरश्च रसनां तालुकं वामनो विभुः ॥ २०॥
वक्षः पातु मुकुन्दश्च जठरं पातु दैत्यहा ।
जनार्दनः पातु नाभिं पातु विष्णुश्च मेहनम् ॥ २१॥
नितम्बयुग्मं गुह्यं च पातु ते पुरुषोत्तमः ।
जानुयुग्मे जानकीशः पातु ते सर्वदा विभुः ॥ २२॥
हस्तयुग्मं नृसिंहश्च पातु सर्वत्र सङ्कटे ।
पादयुग्मं वराहश्च पातु ते कमलोद्भवः ॥ २३॥
ऊर्ध्वं नारायणः पातु ह्यधस्तात्कमलापतिः ।
पूर्वस्यां पातु गोपालः पातु वह्नौ दशास्यहा ॥ २४॥
वनमाली पातु याम्यां वैकुण्ठः पातु नैरृतौ ।
वारुण्यां वासुदेवश्च सतो रक्षाकरः स्वयम् ॥ २५॥
पातु ते सन्ततमजो वायव्यां विष्टरश्रवाः ।
उत्तरे च सदा पातु तेजसा जलजासनः ॥ २६॥
ऐशान्यामीश्वरः पातु पातु सर्वत्र शत्रुजित् ।
जले स्थले चान्तरिक्षे निद्रायां पातु राघवः ॥ २७॥
इत्येवं कथितं ब्रह्मन्कवचं परमाद्भुतम् ।
कृष्णेन कृपया दत्तं स्मृतेनैव पुरा मया ॥ २८॥
शुम्भेन सह सङ्ग्रामे निर्लक्ष्ये घोरदारुणे ।
गगने स्थितया सद्यः प्राप्तिमात्रेण सो जितः ॥ २९॥
कवचस्य प्रभावेण धरण्यां पतितो मृतः ।
पूर्वं वर्षशतं खे च कृत्वा युद्धं भयावहम् ॥ ३०॥
मृते शुम्भे च गोविन्दः कृपालुर्गगनस्थितः ।
मालां च कवचं दत्त्वा गोलोकं स जगाम ह ॥ ३१॥
कल्पान्तरस्य वृत्तान्तं कृपया कथितं मुने ।
अभ्यन्तरभयं नास्ति कवचस्य प्रभावतः ॥ ३२॥
कोटिशः कोटिशो नष्टा मया दृष्टाश्च वेधसः ।
अहं च हरिणा सार्द्धं कल्पे कल्पे स्थिरा सदा ॥ ३३॥
इत्युक्त्वा कवचं दत्त्वा साऽन्तर्धानं चकार ह ।
निःशङ्को नाभिकमले तस्थौ स कमलोद्भवः ॥ ३४॥
सुवर्णगुटिकायां च कृत्वेदं कवचं परम् ।
कण्ठे वा दक्षिणे बाहौ बध्नीयाद्यः सुधीः सदा ॥ ३५॥
विषाग्निजलशत्रुभ्यो भयं तस्य न जायते ।
जले स्थले चान्तरिक्षे निद्रायां रक्षतीश्वरः ॥ ३६॥
सङ्ग्रामे वज्रपाते च विपत्तौ प्राणसङ्कटे ।
कवचस्मरणादेव सद्यो निःशङ्कतां व्रजेत् ॥ ३७॥
बद्ध्वेदं कवचं कण्ठे शङ्करस्त्रिपुरं पुरा ।
जघान लीलामात्रेण दुरन्तमसुरेश्वरम् ॥ ३८॥
बद्ध्वेदं कवचं काली रक्तबीजं चखाद सा ।
सहस्रशीर्षा धृत्वेदं विश्वं धत्ते तिलं यथा ॥ ३९॥
आवां सनत्कुमारश्च धर्मसाक्षी च कर्मणाम् ।
कवचस्य प्रभावेण सर्वत्र जयिनो वयम् ॥ ४०॥
तस्य नन्दशिशोः कण्ठे चकार कवचं द्विजः ।
आत्मनः कवचं कण्ठे दधार च स्वयं हरिः ॥ ४१॥
प्रभावः कथितः सर्वः कवचस्य हरेस्तथा ।
अनन्तस्याच्युतस्यैव प्रभावमतुलं मुने ॥ ४२॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे
योगनिद्रोक्तकवचन्यासो नाम द्वादशोऽध्यायः ॥ १२॥
ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय १२/१७-४२॥
brahmavaivartapurANa . shrIkRRiShNajanma, pUrvabhAga . adhyAya 12/17-42..
Proofread by PSA Easwaran