अनुभवत्रिंशच्छ्लोकी
आधायेन्द्रियवह्निपञ्चकमभिप्रज्वाल्य रागेन्धनै-
श्शब्दादीन्विषयान् हवींषि मनसा सङ्कल्प्य कामस्रुचा ।
यस्यै जुह्वदपारभोग परमानन्देन सन्मुच्यते
तस्यैते परसंविदे भगवति प्राणेश्वरायै नमः ॥ १॥
न कर्तव्यं येषां किमपि हृदये लिम्पति रसं
विधानव्यासेधव्यतिगमनजङ्घालमनसाम् ।
जयन्त्येते धन्याः परमवहिताशेषकरणाः
परानन्दास्वादस्वरसगुणविज्ञानमधुराः ॥ २॥
उपावृत्तैरक्षैरिदमनिदमामर्शविकलं
कलाशेषेन्द्वाभं गलितकरणीयेतरमलम् ।
असङ्कल्पस्पन्दादलस परिवाह परविदा-
मनालम्बं चेतः परमपि परं चुम्बति न वा ॥ ३॥
विद्याविद्युतितेव विद्युदचिरादालीनमन्धं तम-
सापि स्वोदयनिस्सहात्मभरणा दूरे चिरस्थायिका ।
नाकाशं न दिशोऽथवा न तरणिर्नापीन्दुवैश्वानरौ
पारेवाङ्मनसास्पदं तु परमव्योमैकमोजायते ॥ ४॥
गुणतावर्तत्रिनयनमहाभीषणमुखी
ममत्वाहम्मानद्वयकुटिलदंष्ट्राग्रविकटा ।
कराला काप्येषा कवलयति हा कालरजनी
प्रमत्तो लोकोऽयं भ्रमति विषयाशापरवशम् ॥ ५॥
सुखाशीरध्यस्तामपि बत न पश्यामि विषयै -
रनुस्यूतोदीतेरवधिमसुखोल्लोलविततेः ।
अमीषामक्षाणामनुपशमशिक्षाविधिजुपा-
मभद्रैकोदर्का विनयमनुमन्येत क इव ॥ ६॥
आरुज्यव्यवहारगोचरचराण्यक्षाण्य विक्षेपतः
प्रत्यासज्य यथोपपादविषयेष्वङ्गस्थितिं कर्मसु ।
कार्याकार्यविचारदुर्गतिदशा मुत्तीर्य चेतोऽचिरा-
दौदासीन्यरसायनस्य सुहितं निर्वाणमासीदति ॥ ७॥
संयम्याक्षाण्यसुभिरबहिर्भावनागन्धमन्त-
स्सत्वे शान्तिप्रणयिनि समासज्य निर्लेशलीनम् ।
आत्मैकान्तावसितमहिमज्योतिरानन्दसान्द्रं
दग्धैधाग्निप्रतिममयते चेतनो ब्रह्मभूयम् ॥ ८॥
अक्षाणि प्रसरन्तु नाम विषयेष्वक्षामकामोद्बणं
चेतश्चानुविधीयतामनुकलं तानेव सङ्कल्पयत् ।
भुङ्क्तामर्पितभोगमेभिरपि तैर्यस्योपकारः परं
प्रत्यग्ज्योतिरहं तदस्मि यदिदं देदीप्यते केवलम् ॥ ९॥
प्रत्यासीदति यावदिन्द्रियपदं प्राचीन संस्कारत-
श्चेतश्चेतितुमाचितां सुविविधामारब्धभोगक्रियाम् ।
लोहं जाम्बनदावशेषमिव चिद्विद्धं सबाह्यान्तरं
प्रत्यक्चित्यवभासशेषमखिलं तत्तावदालीयते ॥ १०॥
जक्षक्रीडन्रतिमनुभवन्वा वधूभिर्वयस्यै-
रन्तर्ज्योतिस्तनुमुपजनं प्रस्मरन्नातकामः ।
प्रत्यग्ज्योतिर्गलितकरणस्वक्रियाकार्यभेदो
न व्यासेधन्न विधिमथवा बुद्ध्यते सिद्धयोगी ॥ ११॥
विरम विरम कार्याकार्यसङ्कल्पशिल्पादयि हृदय दुरायासदायावसायात् ।
परिचिनु परिशान्तिं प्रत्यवेक्षस्व कालं नियमितनिजयत्नं नित्यमारब्धभोगात् ॥ १२॥
अनुस्यूतं यत्तद्व्यतिभिदुरनामार्थरचने
जगत्येकाकारं सदिदमिति सद्भावविदितम् ।
परं धामास्मीति प्रतिपदयमानः प्रतिपदं
पदं भूमानन्दं विपदपदमासीदति पुमान् ॥ १३॥
विमृशतु पदमन्तर्विद्यया तत्पदं वा गुणयतु गुणभोगे वैगुणीमुद्बणां वा ।
समुपनमति साक्षादक्षनिर्वेशपद्यां विषयविषकृशानौ विप्लवन्ते विवेकाः ॥ १४॥
आरब्धभोगफलमार्छति यद्यविद्या विद्योदयेऽपि न पुनर्भवभावहेतुः ।
निर्बीजनीरसफला निकुचत्प्रसूना पर्याप्तपल्लवदशा जरती लतेव ॥ १५॥
करबदरवद्विश्वं पश्यन्विनश्वरमाविधेरकरणवशञ्चेतः कुर्वन्कुतूहलकुण्ठितम् ।
विगलितबहिर्व्यापारेण ध्रुवेण समाधिना निजसुखपदे निस्त्रैगुण्ये सुखं विहराम्यहम् ॥
यः स्मर्तुर्न पुनस्तमेति हृदयं भोगावसानक्षणे-
ऽप्यक्षिस्पन्दलवायुरेव सकलो भोगक्षणो यस्य च ।
आस्तां पूर्वदशा परा च सहजायासस्तदात्वेऽपि यः
तस्मै कः स्पृहयालुरस्तु विषयानन्दाय मन्दादृते ॥ १७॥
पश्यामो भुवनं भवार्णवमहावर्तेष्विदं बम्भ्रम-
द्बिन्दुश्चासुखविप्लवोदधितरीं विद्यां परब्रह्मणः ।
शान्तिन्नस्सुकरामुशन्ति निगमा विद्या निदानं वयं
वाञ्छामः कथमादिमध्यनिधनेष्वायासमात्रं सुखम् ॥ १८॥
आयासैरधिकैर्मनस्तनुगिरामाप्तव्यमल्पं फलं
शान्त्या केवलया परं सुखमनायासेन लब्धुं क्षमम् ।
अंहो पश्यत सन्निरस्य रसनामृले सुधास्यन्दिकां
प्राप्तुं वाञ्छति भस्ममोदकमयः प्राकारभङ्गश्रमैः ॥ १९॥
नायं लोको मम भोग्यः प्रदिष्टो भक्ता भङ्क्ता भुञ्जते यत्र लोकः ।
सोऽसौ लोको मम भोग्यः प्रदिष्टो यस्मिन् लोका निहिता लोकिनश्च ॥ २०॥
जीर्णश्शीर्णाङ्गसन्धिर्न विचलति रथः सारथिः सारहीनः
सन्ना एव प्रतुन्ना अपि च न हरयो गोचरेषु क्रमन्ते ।
गाढाधी रत्यधीरस्तदपि च विषयान्भोक्तुमायोक्तुकामो
यस्तस्मै सूर्जिताय प्रणतिरियमसौ मोहविस्फूर्जिताय ॥ २१॥
लुलितोल्ललितविलासं कलिवोत्कलिकात्मसम्बोधम् ।
आकलयन् जगदखिलं शान्ताहन्ताधिराचरामि महीम् ॥ २२॥
साधुसमीरसधर्मा शुभमशुभं वा स्पृशन्नसङ्गगतिः ।
निह्नुतनिखिलविशेषो विचरामि महीं विधूतविधिमोहः ॥ २३॥
भाराकान्ता धरणिरुदधौ लोलकल्लोलजाले
दृष्टादृष्टं विलुठति यथा मज्जनोन्मज्जनाभ्याम् ।
आनन्दाब्धौ जगदपि तथा तत्वबोधाभिभूतं
द्वैताद्वैतव्यपगततनौ दृश्यते चित्स्वभावे ॥ २४॥
निद्रामुद्राश्लयनसमये भाति कुम्भादि यद्वत्
तद्वन्मायाविलसितममुं लोकमालोकमानः ।
अन्तश्शान्ताखिलविषयधीरञ्जितानन्दबोधः
प्राप्तं प्राप्तं सममनुभवन् गूढधर्मश्वरामि ॥ २५॥
चित्ते भित्तौ चित्रकर्मेव दृश्यं दृश्यादृश्यं बोधतः कालभेदात् ।
पश्यन्नात्मक्रीडनः पर्यटामि प्राप्तं प्राप्तं भोगमासेवमानः ॥ २६॥
परचरितमनिन्द्यं पापकं नाभिनन्द्यं
परहितमनुवर्ण्यं पारलौक्यं विधेयम् ।
सुहृदुपचरणीयं सूनृतं त्वेव वाच्यं
व्रतमिदमुपदिष्टं केन वा सज्जनानाम् ॥ २७॥
सर्वात्मना वयसि निर्गलिते निसर्गजीर्णे जरावलिभिरावलिते शरीरे ।
यद्भेषजाचरणमस्य विमूढबुद्धेरुर्वारुकस्य परमायसपट्टबन्धः ॥ २८॥
इतरेतरयोगपरद्वन्द्वं नेताह भोगिनामतनुः ।
प्राचोर्जायापत्योः कथमेकतया न यत्समाहारः ॥ २९॥
अहङ्कारोत्तीर्णा विगतविषयाश्लेषकलुषा
दृशिस्सत्तामात्रस्फुरणपरिशेषात्ममहिमा ।
गिरां दूरे तत्वं किमपि परमात्मेति तमसः
परस्तादात्मा मे जगदपगिरन्ती विजयते ॥ ३०॥
निर्मर्यादसुखञ्च धर्मममराशास्यञ्च सम्माननं
विष्वक्कीर्तिममीबदरविषयं वीर्यञ्च पारे गिराम् ।
यन्मूलं सकलं वदन्ति यतयस्तद्ब्रह्मचर्यव्रतं
मोहेन श्लथयन्ति मूढमतयो निर्वाणनिश्रेणिकाम् ॥ ३१॥
श्रीरामभद्रयोगीन्द्रचरणाम्बुजरेणुना ।
अनुभवत्रिंशच्छ्लोकी कृष्णानन्देन निर्मिता ॥ ३२॥
इति कृष्णानन्दकृतिषु अनुभव त्रिंशच्छ्लोकी सम्पूर्णा ॥
Proofread by Rajesh Thyagarajan