मनःप्रार्थनाष्टकम्
(सारङ्गवृत्तं)
कामेन मूढः स्वकामेक्षणोत्कोऽत्र कामेतिनाति न धामेह मोदाय ।
मा मे मनो! वाचमामेति मन्यस्व रामे त्रिलोकीललामे रमस्वाशु ॥ १॥
(१)सव्यं करं यस्य भव्यं श्रितं धन्वदक्षे द्विषन्नाशदक्षेषुयुग्मं च ।
क्षत्रेश्वरं पद्मपत्रेक्षणं राममेकं भज स्वान्त ! के कं परार्थाय ॥ २॥
धामारमजद्रव्यरामादिकं चित्त ! । कामामयायैव मा मा श्वसिह्यत्र ।
क्ष्मामावरात्त्वं(२) सतामाश्रयाद्धन्त रामादृते यासि कामास्मसिद्धिं नु ॥ ३॥
लङ्कावरारि कलङ्कापहं भूम्यलङ्कारमिच्छाबलं कामदं चित्त ! ।
साकेतपं हेतुना केन नो यासि नाकेऽपि नम्रा मुदा केन तं हन्त ॥ ४॥
ये वासवेशादिदेवा भजत्येनमेवाधिपं पादसेवारताः साधु ।
सीताधवं दत्तभीताभयं चित्तवीताऽगुणं मेदिनीतारकं प्रैहि ॥ ५॥
पापक्षयेऽहं स्वतापनमीशानमापद्मजाधारमापद्धरं मङ्क्षु ।
शोकापहं सर्वलोकाधिपं याहि भो का वदाम्बा न तो कासुखं(३) हन्ति ॥ ६॥
कर्तास्य विश्वस्य भर्तापि चान्ते स हर्ता श्रियः प्राणभर्ता शृणु स्वान्त! ।
माता पिता सैव दाताविता को नु धाता परोऽस्माद्विधातायमे वाङ्ग! ॥ ७॥
श्रुत्या पदं यस्य नुत्या वृतं यः प्रकृत्या मृदुः साधुकृत्याश्रयश्चित्त! ।
व्यासादिभिः सद्भिरासादितं सर्वदासाप्त ! मे ह्यप्रयासाय मोदाय ॥ ८॥
(२)इति मयूरकृतं मनःप्रार्थनाष्टकं सम्पूर्णम् ।
टिप्पणि
* सारङ्गवृत्तघटितमिदं मनःप्रार्थनाष्टकमतीव दुर्बोधम् । अत्र कविः स्वान्तं रामचिन्तनाय प्रयोजयितुमुद्यतस्तत प्रार्थयते । प्रथमपद्यस्य प्रथमार्धस्यार्थस्तु सौकर्येण नावबुध्यत एव ।
१। यस्य सव्यं करं भव्यं श्रितमित्यन्वयः ।
२। क्ष्मा च मां च तयोर्वरात् ।
३। तोकस्य बालकस्यासुखम् ।
४। इदमष्टकमस्माभिः कविलिखितमनुसृत्य मुद्रितम् । प्रयतितं च यावच्छक्यमर्थावगमाय । तथापि प्रथमे। प्रथमपादत्रयस्य द्वितीये तुरीयस्य पञ्चमे चोत्तरार्धस्यार्थो न यथावदवगम्यते इति निवेदयामहे । * अत्र श्रीमद्भागवतस्य दशमस्कधस्थं कथाविभागं कविः क्रमेण पज्झटिकाच्छन्दसोपवर्णयति । कथारसज्ञानां च नैतत्प्रकरणं दुरूहं भवेदिति कानिचिदेव पदानि व्याख्यायन्ते ।
Proofread by Rajesh Thyagarajan