मनःसम्बोधनम्
वामार्धेन प्रणयकुपितं दक्षिणेनानुनेतुं
सान्त्वानत्यञ्जलिषु घटते यत्परं भावभेदैः ।
भावाश्लेषप्रमदसुभगम्भावुकं भावुकं तत्
भूयाद्वन्द्वं भुवनपितरौ भूयसे श्रेयसे नः ॥ १॥
ततस्तत इति परिश्रम्य किं खिद्यसे त्वं
लब्धालब्धैरसुलभसुखैरर्थकामैरनर्थैः ।
विश्राम्येत क्षणमपि सखे खेदसंशान्तये ते
वक्ष्याम्येकं गलितनिखिलापायमेषोऽस्म्युपायम् ॥ २॥
पश्येदानीमखिलजगतीमन्तकस्यान्तरस्था-
माशाभङ्गं परिमृश भृशं भूयसाप्युद्यमेन ।
लब्धेनापि स्मर परिणतौ भोगवैरस्यमन्तः
स्वेनैव त्वं शमसुखरसं ज्ञास्यसे शान्तवाहि ॥ ३॥
आयासेनाकलय कियता तारकाधिष्ण्यमाप्य
पश्यस्यासामपि च पतनं त्वं मधूकावपातम् ।
कालेनेदं किल कवलितं जीर्यति ब्राह्ममण्डं
विस्रम्भस्ते वपुषि क इवायं पयोबुद्बुदे वा ॥ ४॥
एकद्वा न वनिपतयः कालसाद्भूतभावा
न द्वित्रास्ते हृदयसुहृदो नाममात्रावशेषाः ।
षट्सप्ता न प्रतिभयमहाव्यापदस्तेनुभूताः
सप्ताष्टानप्यनुदिनमिदं चिन्तयान्तर्निमेषान् ॥ ५॥
निर्वाणाय स्मरहरपदं संस्मर प्राणवृत्त्यै
चेतश्चिन्तां चिरमनुगतामुच्चकैरुज्जहाहि ।
शालूरस्य प्रकटतमसो योऽपि पाषाणगर्भे
धत्ते वृत्तिं स किमिह न ते कल्पयिष्यत्यधीशः ॥ ६॥
हन्ताश्रान्तं भवमरुपथेऽलभ्यविश्रान्तिभूमा-
वामानुष्याद सुखबहुलादा च सत्यादवीचेः ।
यातायातश्रममनुभवन् यातना यातयामं
सर्वो लोकः किमिति न मनो दृश्यते ते कदापि ॥ ७॥
आरम्भास्ते कति न विफला निष्ठितौ भूतपूर्वाः
संरम्भेण द्रविणमरुवाः सानुतर्षं पिपासोः ।
प्रत्याशाया विरम विषयोल्लापनाया न यावत्
प्रत्यासीदत्यपि जडमनः सर्वकृन्तः कृतान्तः ॥ ८॥
यावत्तृष्णा भवति विषये यत्तदेवेह दुःखं
लब्धे तस्मिन्नुपरमति सा यत्क्षणं तत्सुखं ते ।
तामुत्पत्तिं हृदय निपुणं रुन्धि नित्यं सुखाप्त्यै
पङ्कालेपं परमनुकलं क्षालने मा यतिष्ठाः ॥ ९॥
दुःखं जन्तोरुपनमति यन्निष्प्रतीकारभोगं
तत्प्रत्यक्षं तव च नियतं नन्वनायस्यतोऽपि ।
तत्सामान्यं विषयजसुखे पश्यतावश्यभाव्यं
शान्तेनान्तर्हृदय भवता मत्प्रियं कुर्वता वा ॥ १०॥
स्वच्छन्देन प्रणयविषये माक्षतन्त्रं यथेद
बाह्याबाह्यं कलयसि पदं देहलीदीपभङ्ग्या ।
बाह्याभ्यन्तस्सुखतुलनया तत्र मध्यस्थवृत्त्या
बैरस्यं त्वं विषयजसुखे वेत्स्यसि स्वात्मनैव ॥ ११॥
स्वाधोन्माथिन्युपवदति यत्तत्प्रतीकारनिष्ठा-
मातिष्ठेया हृदय दुरितायाससाहञ्चिराय ।
तस्यैतस्मिन्वपुषि सकलानर्थहेतौ कथं ते
सर्वोत्साहप्रतिकृत पदे सर्वथैवानुबन्धः ॥ १२॥
एतत्कार्यं कृतमिदमयं कार्यशेषो ममेति
व्यासङ्गेन स्मरसि हृदय श्रेयसो न प्रमादात् ।
किं कर्तासि प्रियमविदति ह्यस्तनं श्वस्तनं वा
दिष्टादिष्टेन्द्रियमतिवधे जन्मनि त्वं तिरश्चाम् ॥ १३॥
श्वोभावि श्वः कुशलमिति मा लालसादर्शदृश्यै-
राशामोदैरफलय तृषामानुषं सानुषङ्गम् ।
ईदृक्क्षेमक्षममिह कदा भावि ते जन्म चेतः
श्रेयोमार्गानभिमुखमहं त्वानुयातो हतोऽस्मि ॥ १४॥
जन्मावश्यं तव शिवपदध्यानहीनस्य यस्मिन्
भोक्तासे त्वं हृदय विवशं दुर्दशामेकमेव ।
तामेवास्मिन्ननुभव तपोभावितामीशवृत्त्या
भावावत्तं परशिवपदं लप्स्यसे तावतैव ॥ १५॥
रागस्यन्दाहितमधुरिमा मानसार्थस्त्वयाक्षो
जीर्णोपानत्वगिव च शुना लौल्यलालारसार्द्रा ।
स्वादुङ्कारं स्वरसविरसो भुज्यते रज्यतैव
स्वामप्राज्ञं क इव महते मासुणीयेत लोकः ॥ १६॥
प्रासादाग्रं प्रमदवनिका पद्मिनी केलिशैलः
सोऽहं संराडिति किमयथाफल्गुसङ्कल्पनेन ।
सर्वेशोऽस्मीत्यवितथमये चित्त सङ्कल्पयेथाः
पाथः प्रायं पिबति मनसा कः पयः पातुकामः ॥ १७॥
अक्षैरर्थानुपहरदिव स्वेन सङ्कल्पितान्वा
मामुल्लोभं हृदय सममस्कारमभ्यश्नुषे तान् ।
मोघात्मार्थो मुहुरनुविदन्नेव ते निष्ठितोऽहं
ग्रासं ग्रासं परमभिलषन्नश्नतो वा विडालम् ॥ १८॥
सङ्ख्यातीतं गतरुजमपि स्यात्परायः सहस्रं
सम्पद्येरन् सरसिरुहभूसम्पदोऽतीत सङ्ख्याः ।
सम्पर्याप्तं किमु हृदय ते लुब्धलोलुभ्यमानं
यत्त्वं मोहं प्रतिपदमये गाहसे पङ्कसिन्धुम् ॥ १९॥
तत्तादृक्षप्रथितमहिमश्रीजुषामप्यमीषां
लोकेशानामपि शतमखह्लादवैरोचनीनाम् ।
द्रागज्ञातायतिगतिदशामापदं पश्यतोपि
प्रत्याशायामनुचितमिहाहैतुकं कौतुकं ते ॥ २०॥
आयुर्वायुप्लवनविवलत्पल्लवाग्रोद बिन्दुः
सम्पत्तिश्व प्रतिकलगलत्कुण्डिकावारिपूरः ।
सङ्क्षीयन्ते तदपि नृपतेरन्तरद्वारवेद्यां
पश्योन्मोहं हृदय कुजना दुर्धनाराधनाय ॥ २१॥
पश्यन्तोऽपि प्रतिपदभवामापदं सम्पदुत्थां
पुत्रक्षेत्रप्रणमनिचयव्याधयस्साधयामः ।
नानारूपैरभिनयपदैर्येन नानट्यमानाः
कुर्मस्तस्मै वयमिह नमश्चेतसे निर्घृणाय ॥ २२॥
निद्रातन्द्रीक्लमपरिभवप्राभृतप्रत्यवेक्षा-
निर्वैलक्ष्ये विषमविषयक्ष्वेलनैकान्तलक्ष्ये ।
यातायातश्रमफलगतिव्यग्रविग्रश्वशीले
सासौ सासौ भवति सति का या मनःक्षेमकाङ्क्षा ॥ २३॥
अद्याशेऽपि श्वगतिगमिनस्ते दरिद्राणवृत्तेः
चेतश्चिन्ताहृतकणभुजः क्वाधिराज्यं तदैन्द्रम् ।
नित्यातङ्कप्रकटमहितोत्थानदुः स्थासिकाना-
मिन्द्रादीनामथ यदि पदं लब्धमप्यस्ति किं ते ॥ २४॥
येभ्यो नाम स्पृहयसि मनःसारसम्पत्तिविद्या -
वीर्यैश्वर्याद्यतिशयगुणैरात्मना तैर्बुभूषु ।
तावानुस्मरसि न कथामात्रशेषानशेषान्
यैषामीषामियमपि कथा लुप्यते कल्पवेगात् ॥ २५॥
तान्यस्थीनि क्षतजमपि तत्तानि मांसानि सा त्वक्
तेऽमी केशाः पृथगिति मनो यानि बीभत्ससे त्वम् ।
अन्तर्बाह्याशुचिधनगडुग्रन्थिलां सालभञ्जीं
यन्त्रालोलामभिलषसि यामङ्गना कामिनीति ॥ २६॥
शिल्पं कल्पक्षयविनिमयप्रत्ययप्रत्यवेयं
प्रादुष्कुर्वन्त्यसुखसुखयोश्चित्तनृत्यस्य विद्याः ।
कामादीनामफलनटनाडम्बरालम्बयष्टि-
स्तस्या मुष्टिन्धयनयकलाकौशलं तत्त्वविद्या ॥ २७॥
हित्वा विद्यामयमयमहन्तन्ममेति ग्रहं त्वं
मोहादीनां पदमधिशिरो न्यस्य वामं रिपूणाम् ।
आकिञ्चन्यामृतरसपिबः शान्तिसौभाग्यलक्ष्मी
श्रेयः सौधे रमय हृदयानन्दसन्दोहदोग्ध्रीम् ॥ २८॥
अवधिनियतकालग्रस्तविध्यण्डगर्वे विषयविवशवृत्तिं नन्दति स्वेन लोकः ।
कुपितकपिकपोलोदुम्बरान्तःप्रमाद्यन्मशककुलदशा सा चित्त ते चिन्तनीया ॥ २९॥
किमिह बहुभिरुक्तैः स्यादिदं मे न तत्स्यादिति विषमविमोहापोहमहोपपत्त्या ।
अपरिमितमयत्नप्राप्यमाबाधहीनं शमसुखमनुभोक्तुं युङ्क्ष्व निःश्रेयसाय ॥ ३०॥
इति परममृतं यच्चित्तसम्बोधनाख्यं
रसयति रसनीयं सारनिःसारविज्ञैः ।
विषमविषयवाञ्छामाशु निर्धूय शुद्ध्या
स नियतमुपशाम्यन्नति निर्वाणयोगम् ॥ ३१॥
श्रीरामभद्रयोगीन्द्रचरणाम्बुजरेणुना ।
इति कृष्णानन्देन मुनिना मनःसम्बोधनं कृतम् ॥
The text is an appeal to the mind to study its activities past and present and desist from building castles in the air.
Here and there attempts are made to analyse the mind and its nature. What is it called the mind? Every one knows it; in fact nobody knows it. Every one knows it and none knows it is a contradiction. It implies two kinds of knowledge and two types of objects with reference to the knowledge. One is known and the other is known as unknown. The mind is known as unknown. Every thing in the world is known either as known or as unknown. The method of splitting of atom, or a luminary, the light of which has not yet reached the earth may perhaps be not known to one but, at the same time both of them are known as unknown. So also is of knowledge.
sarvaM vastu j~nAtatayA aj~nAtatayA vA sAkShichaitanyasya viShayaH .
सर्वं वस्तु ज्ञाततया अज्ञाततया वा साक्षिचैतन्यस्य विषयः ।
Says Prakāśātmayati in his Pancapādikā Vivaraṇam. In case of the mind this seems to be true.
No physicist has ever made an attempt to find its size, colour, odour or taste. His scales have not been used to weigh it. No laboratory has made an experiment at it. Equally true it is that no chemist has ever used his test tubes in finding the properties of the mind. Is it divisible or not? Is it of atomic size? Is it simple or complex? Could it be seen, smelt, or felt? These questions have not been posed before him. No Sergeon's instrument seems to have ever penetrated the mind. Perhaps mind does not come under his domain. Scientists are not worried about it or more correctly it has baffled their attempts.
It is the Yogi or a Philosopher who did make fruitful attempts to study the mind. According to him the mind is a complex, subtle, invisible and the essence of the Bhutas ükshmas. It consists of sixteen parts or rather aspects. They are desire, determination, doubt, faith, fortitude, shame, fear, and understanding. षोडशकलं हि सोम्य मनः.
मन्त्र ३ [I.v.3]
त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना
अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति
मनसा शृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा
धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । तस्मादपि
पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो वागेव
सैषा ह्यन्तमायत्तैषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन
इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३॥
-Chandogyōpanishad. -Bṛhadaranyakōpanishad.
It is तैजस and elastic.
तैजसमन्तःकरणं परिणमति – Vedantaparibhasha.
Nothing could excel it in quickness and few could compare. Its rapidity is myriad times greater than that of light. It has no barrier. It flies high up in the sky, it dives into the deep. Like the soft wax of a smith, it retains the impressions of several decades. It is fickle, explosive and full of potentialities. चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् says the Gita. In the evolution of the mind the five subtle Bhutas have their share and functions.
In Vivekachūdāmaṇi there is an analysis of the mind.
न ह्यस्त्यविद्या मनसोऽतिरिक्ता
मनो ह्यविद्या भवबन्धहेतुः ।
तस्मिन्विनष्टे सकलं विनष्टं
विजृम्भितेऽस्मिन्सकलं विजृम्भते ॥ १६९॥
This aspect of the mind is elaborately broughtout in this work. The Author compares the mind to a cat sitting on a kitchen-wall with freedom on one side and captivity and bitter enjoyment on the other. It is this mind that makes the god. man and its absence the Man-God!
It is a delightful piece-work exhibiting dalliance of poesy with its music and harmory coupled with graceful style. Thoughts and words fight for supremacy over one another. There is a ceremony about the poetry and profusion..
Proofread by Rajesh Thyagarajan